रसरत्नाकर · अध्याय 3.15
र्रा, 3, 15
गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् ।
जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते
{बीज:: प्रेपरतिओन्}
गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् ।
त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन् धमन्
पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात्
{बीज:: प्रेपरतिओन्}
नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन् क्षिपन् ।
जीर्णे नागे पुनर्देयम् एवं वारत्रयं शनैः ।
एतद् बीजं द्रवत्येव रसगर्भे तु मर्दनात्
{बीजसाधनम् (3)}
ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् ।
इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके ।
तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम्
{बीजसाधन (4)}
ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः ।
कण्टवेधीकृतं पत्रं गंधेन लवणेन च
क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात्
{बीजसाधन (5)}
सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम्
अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् ।
अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद् दृढम्
द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात्
{बीजसाधन (6)}
शिला सौवर्चलं ताप्यगंधकासीसटंकणम् ।
मर्दयेच्चणकाम्लैश्च सर्वमेतद्दिनावधि
रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् ।
मुच्यते यत्र यत्रैव तत्तद् द्रवति तत्क्षणात्
{मेर्चुर्य्:: ग्रास ओf अ बीज}
अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ।
टंकणं च यवक्षारं कासीसं च सुवर्चलम्
सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् ।
कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम्
मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ।
लेपमङ्गुलमानेन मूषायन्त्रमिदं भवेत्
गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् ।
रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम्
{मेर्चुर्य् (?):: रञ्जन (?)}
ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः ।
मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः
त्रिगुणे वाहिते तस्मिन् रञ्जितं वाहितं तु तत्
{मेर्चुर्य्:: रञ्जन (ओf ~)}
गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् ।
हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम्
भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः ।
तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद् द्वंद्वमेलितम्
तस्मिन् द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् ।
रक्तवर्गसमायुक्ते तैले ज्योतिष्मतीभवे ।
इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम्
{रसरञ्जकम् (3)}
रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा ।
समांशे विमले ताम्रे द्राविते वाहयेद्धमन् ।
सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम्
{रसरञ्जकम् (4)}
स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् ।
शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम्
समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै ।
पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः
दशवारं कृते वापे रञ्जकोऽयं रसस्य च
{लेअद् => गोल्द्}
यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।
विंशवारं प्रयत्नेन तेन कल्केन लेपयेत्
नागपत्रं पुटे पच्याद् यावच्चूर्णमुपागतम् ।
रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च
शिलागंधविषाणां च त्रयाणामेकभागकम् ।
पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत्
मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः ।
द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत्
इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।
{तारारिष्ट, लेअद्, चोप्पेर् => गोल्द्}
पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम्
द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।
समुखे सूतराजे तु पूर्ववत् षड्गुणं क्रमात्
ततस्तस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ।
पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह
मर्दयेच्चणकाम्लैर्वा गर्भद्रावणकेन वा ।
द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत्
इत्येवं द्रावितं जार्यं यावद् बीजसमं रसे ।
सारणादित्रयेणान्तं पूर्ववत्कारयेत् क्रमात्
तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् ।
सहस्रांशेन तेनैव दिव्यं भवति कांचनम्
{चन्द्रार्क => गोल्द्}
स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् ।
जारयेत्समुखे सूते समांशम् अभ्रसत्त्ववत्
जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा ।
मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् ।
चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम्
{गन्धनागद्रुतिः}
वृषस्य मूत्रमादाय गजस्य महिषस्य वा ।
तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत्
ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् ।
गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम्
अलक्तकेन संसिक्तं कार्पासपत्रवत्कृतम् ।
तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत्
तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च ।
गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः
अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् ।
करंजतैलमध्ये तु दशरात्रं तु धारयेत्
प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् ।
भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् ।
काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम्
{मेर्चुर्य्:: प्रेपरतिओन् fओर् जारण}
शुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् ।
चूर्णं यावद् भवेत्कृष्णं क्षालयेदुष्णकांजिकैः
एवं त्रिसप्तधा कुर्यात्ततो जारणमारभेत् ।
{मेर्चुर्य्:: गर्भद्रुति}
अम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत्
गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् ।
चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात्
रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते ।
मूषार्धं विन्यसेत्तत्र करीषतुषवह्निना
कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् ।
दद्याद् अजीर्णशङ्कायां सिंहवल्लीरसस्य तु
चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् ।
एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात्
त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः ।
अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् ।
मर्दयेच्चणकाम्लेन यामाद् गर्भे द्रवत्यलम्
{गोल्द्:: द्रावण}
मूषायन्त्रगतं द्राव्यं पूर्ववत् स्वेदनेन वै ।
जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत्
एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् ।
गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत्
ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन् धमन् ।
तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत्
सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः ।
वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः
दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत्
{मेर्चुर्य्:: जारण wइथ् अभ्रसत्त्व}
समुखे निर्मुखे वाथ रसराजे तु जारयेत् ।
पूर्ववद्व्योमचूर्णं तु चारितं जारयेत् क्रमात्
चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् ।
चारयेज्जारयेत्तद्वत् यावत् षष्टिगुणं भवेत् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत्
{मेर्चुर्य्:: गर्भद्रुति}
महारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् ।
तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत्
तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् ।
तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत्
इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् ।
{मेर्चुर्य्:: गर्भद्रुति, जारण}
रञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम्
गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् ।
सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः
क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते ।
समुद्धृत्य तु तद् बीजं पादांशं पूर्वपारदे
पूर्ववद् द्रावयेद् गर्भे मूषायन्त्रेऽथ जारयेत् ।
द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् ।
जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते
{मेर्चुर्य्:: जारण}
गंधेन यन्मृतं नागं पक्वबीजस्य साधनम् ।
तन्नागं हेमसंतुल्यमंधमूषागतं धमेत्
तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे ।
मर्दयेदम्लवर्गेण गर्भद्रावणकेन वा
तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन जारयेत्तं कलागुणम्
{चोप्पेर् => गोल्द्}
मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् ।
एतद् बीजं ततो जार्यं क्रमाद् यावच्चतुर्गुणम्
पूर्ववद् द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् ।
बद्धरागस्तदा सूतो जायते कुंकुमप्रभः
इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् ।
सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन्
जारितं सारयेत्पश्चात्सारितं चैव जारयेत् ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात्
ततस्तस्य मुखं बद्ध्वा पूर्ववद् बन्धयेच्च तम् ।
क्रामणेन समायुक्तं कोटिभागेन वेधयेत् ।
द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः
{सिल्वेर् => गोल्द्}
हिंगुलोत्थितसूतं च भूनागैर्मर्दयेत् त्र्यहम् ।
तप्तखल्वे ततः पात्यम् ऊर्ध्वलग्नं समाहरेत्
पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत्
पूर्ववद् द्वंद्वयोगेन मात्रापाकं च पूर्ववत् ।
महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा
तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् ।
तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम्
द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् ।
जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै
ततस्तथैव पादांशं गर्भद्रावणबीजकम् ।
पूर्ववद् द्रावितं जार्यं क्रमेणानेन षड्गुणम्
सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् ।
सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम्
{मेर्चुर्य्:: जारण ओf सुल्fउर्}
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ।
द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा
द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् ।
इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत्
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत्
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम्
एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् ।
अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु
जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा
{चोप्पेर्, लेअद् => गोल्द्}
अस्यैव रसराजस्य समांशं व्योमसत्त्वकम् ।
द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत्
ततो रसकसत्वं च जार्यम् अष्टगुणं रसे ।
तीक्ष्णशुल्बोरगं चैव क्रमाद् अष्टगुणं रसे
प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् ।
पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात्
अथास्य रसराजस्य गर्भद्रावणबीजकम् ।
तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम्
मर्दयेद्दिनमेकं तु गर्भे द्रवति तद् द्रुतम् ।
मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै
तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् ।
द्रावयेत् द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै
यावच्चतुर्गुणं यत्नाद् द्रुतं गर्भेऽथ जारयेत् ।
अनेन क्रमयोगेन भवेल्लाक्षानिभो रसः
ततस्तं पक्वबीजेन सारितं जारयेत् क्रमात् ।
प्रतिसारणकं कुर्याज्जारयेच्चाथ सारयेत्
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत्
नागे वा कोटिभागेन दिव्यं भवति कांचनम्
{रसबीज}
तिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् ।
मर्दयेत् त्रिदिनं चाथ भावयेत् तिंतिणीद्रवैः
घर्मे दिनत्रयं यावत् शोष्यं पेष्यं पुनः पुनः ।
मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत्
गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् ।
दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका
एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा ।
तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत्
तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् ।
षड्गुणं जारयेदेवं गंधकं मृदुवह्निना
तद्रसं भागमेकं तु पक्वबीजस्य षोडश ।
भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत्
पूर्ववद् द्वंद्वलिप्तायां मूषायां धमनेन च ।
रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत्
{मेर्चुर्य्:: जारण:: wइथ् रसबीज}
अथातः शुद्धसूतस्य काचकूप्यां गतस्य च ।
पूर्ववद् भावितं गंधं जार्यं तस्यैव षड्गुणम्
जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै ।
तस्यैव रसराजस्य पादांशं रसबीजकम्
पूर्ववद् द्रावयेद् गर्भे मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः ।
द्विरष्टगुणितं यावद् रसबीजं रसस्य वै
{सिल्वेर् => गोल्द्}
भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् ।
समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै
लेपयेन्मधुनाक्तेन सहस्रांशेन तत्पुनः ।
वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके
दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम्
{मेर्चुर्य्:: कोटिवेधिन्}
सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् ।
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत्
षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै ।
गर्भद्रावणबीजं च पूर्ववद् द्रावितं क्रमात्
जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः ।
समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात्
सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः
{चोप्पेर् => सिल्वेर्}
नागवज्जारयेद् बंगं षट्त्रिंशगुणितं क्रमात् ।
पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत्
त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् ।
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत्
क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् ।
कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम्
{सिल्वेर्, चोप्पेर्, लेअद् => गोल्द्}
समुखे निर्मुखे वाथ सूतराजे तु जारयेत् ।
द्वंद्वितं व्योमसत्वं तु यावद् अष्टगुणं तथा
ततो रसकसत्वं च जार्यम् अष्टगुणं तथा ।
पक्वबीजं समांशं च जारयेदभ्रसत्ववत्
स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् ।
पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा
गर्भद्रावणबीजं च पादांशं तप्तखल्वके ।
मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात्
गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् ।
मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना
जीर्णे बीजं पुनर्द्राव्यं जारयेद् द्रावयेत्पुनः ।
एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम्
ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् ।
सारणादिक्रामणान्तं पूर्ववत्कारयेत् क्रमात्
तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् ।
करोति कनकं दिव्यं देवाभरणमुत्तमम्
{मेर्चुर्य्:: धूमवेधिन्; चोप्पेर् => गोल्द्}
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ।
स्वर्णादिमुण्डपर्यन्तम् अष्टलोहं पृथक् क्रमात्
प्रत्येकमष्टगुणितम् अभिषेकं च पूर्ववत् ।
अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात्
पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् ।
ततस्तु पादपादांशं गर्भद्रावणबीजकम्
पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् ।
ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा
इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम्
एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् ।
जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0