रसरत्नाकर · अध्याय 1.4
र्रा, 1, 4
{मूर्छन}
अथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते ।
मेघनादो वचा हिंगु शूरणैर्मर्दयेद्रसम्
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद् बहिः ।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना
ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् ।
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत्
जीर्णे गन्धे पुनर् देयं षड्भिर् वारैः समं समम् ।
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत्
{मेर्चुर्य्:: मूर्छन}
गन्धकं मधुसारं च शुद्धसूतं समं समम् ।
यामैकं पाचयेत् खल्वे काचकुप्यां निवेशयेत्
रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत्
अधःस्थं रसमादाय सर्वरोगेषु योजयेत् ।
{मेर्चुर्य्:: fओर्मुलतिओन्}
शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत्
द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।
कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत्
शोषयित्वा धमेत् किंचित् सुतप्तां तां जले क्षिपेत् ।
तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम्
योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् ।
{मेर्चुर्य्:: fओर्मुलतिओन्}
रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम्
कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् ।
गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम्
शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् ।
शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत्
ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् ।
इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम्
पश्चाद् उद्धृत्य तं सूतं योगवाहं रुजापहम्
{मेर्चुर्य्:: fओर्मुलतिओन्}
सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ।
चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम्
जयन्त्या मर्दयेद् द्रावैर् दिनैकं तत्तु गोलकम् ।
पेषयेत्सहदेव्याथ लेपयेत् ताम्रसंपुटम्
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ।
वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः
चित्रकैः सहदेव्या च गन्धकैर् लेपयेद् बहिः ।
सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत्
तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् ।
सूक्ष्मचूर्णं हरेद्रोगान् योगवाहो महारसः
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा
{मेर्चुर्य्:: fओर्मुलतिओन्}
धत्तूरकद्रवैर् मर्द्यं दिनं गन्धं ससूतकम् ।
अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत्
कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् ।
मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः
तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।
रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत्
सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् ।
{मेर्चुर्य्:: मूर्छन}
काशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत्
काशीशस्यास्य भागेन दातव्या फुल्लतूरिका ।
स्तोकस्तोकं क्षिपेत् खल्वे त्रियामं चैव मूर्छयेत्
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् ।
स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत्
ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत् सूतम् ।
{मेर्चुर्य्:: मूर्छन}
कुरण्टकरसैर्भाव्यम् आतपे मर्दयेद्रसम्
लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् ।
दिनैकं मूर्छितं सम्यक् सर्वरोगेषु योजयेत्
{हैरण्यगर्भक}
अथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः ।
सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम्
रविक्षीरैर्दिनं मर्द्यम् अन्धयित्वा च भूधरे ।
पुटकेन भवेत्सिद्धो रसो हैरण्यगर्भकः
{वैक्रान्तबद्धरस}
कटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके ।
अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेद् गन्धं पाषाणे तं तु कुट्टयेत्
याममात्रे भवेत् पिण्डी रसं कन्दे विनिक्षिपेत् ।
अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम्
ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् ।
लिप्तम् अङ्गुलमानेन सर्वतः शोष्य गोलकम्
पाचयेद् भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् ।
ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत्
क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् ।
ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् ।
नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत्
{गन्धबद्धपारद}
अथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् ।
तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे
पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् ।
एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम्
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् ।
{गन्धबद्धपारद (2)}
मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला ।
अपक्वा सुदृढा कार्या सिकताभाण्डमध्यगा
त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः ।
पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत्
शुद्धसूतं समं पश्चात् क्षिपेद्गन्धपलं ततः ।
भाण्डम् आरोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः
मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् ।
गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा
द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः ।
जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत्
यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः ।
दत्त्वा दत्त्वा पचेत्तद्वद् धुस्तुरादिक्रमाद् रसम्
भित्त्वा मूषां समादाय जराव्याधिहरो रसः ।
योजयेद् गन्धबद्धोऽयं योगवाहेषु सर्वतः
{मेर्चुर्य्:: मूर्छन:: तेस्त्}
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित्
माधुर्यगौरवोपेतः तेजसा भास्करोपमः ।
वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम्
स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी ।
वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे
इत्येता मारिताः सूता मूर्छिता बद्धम् आगताः ।
प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत्
मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् ।
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित्
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।
{मेर्चुर्य्:: स्तोरगे}
दन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम्
{मेर्चुर्य्:: मेदिच्. प्रोपेर्तिएस्}
पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् ।
सेवनात्सर्वरोगघ्नं रुच्यं गुरुकषायकम्
सूते गुणानां शतकोटिर् वज्रे चाभ्रे सहस्रं कनके शतैकम् ।
तारे गुणाशीतिस् तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम्
रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा ।
सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0