भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 1.2

1.2.1

र्रा, 1, 2
निःसारं वीक्ष्य विश्वं गदविकलवपुर् व्याप्तम् एवातितप्तम् ।
भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम्

1.2.2

दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनाम् इष्टसिद्ध्यै ।
शृण्वन्तूच्चैर् मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः ।
यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धं ।
नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः ।
स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् ।
तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः

1.2.3

{अष्टदोषनिवारण}
अथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु

1.2.4

मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् ।
खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा

1.2.5

काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत्

1.2.6

राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् ।
चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम्

1.2.7

कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः ।
{(2)}
प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम्

1.2.8

सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् ।
प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत्

1.2.9

उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः

1.2.10

जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि ।
{पारदशोधन}
अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम्

1.2.11

श्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः ।
कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् ।
दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत्

1.2.12

कुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् ।
पातयेत् पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः

1.2.13

{हिंगुलोत्थपारदशोधन}
पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् ।
जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके

1.2.14

तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् ।
इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत्

1.2.15

{शुद्धसूतमारणौषधयः}
अथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे ।
ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका

1.2.16

वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका ।
विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका

1.2.17

कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका ।
वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका

1.2.18

जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् ।
कोषातकी नीरकणा लाङ्गली सहदेविकाः

1.2.19

चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया ।
विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट् पटुः

1.2.20

इत्येताः मूलिका आख्याता योज्या पारदमारिकाः ।
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः

1.2.21

{पारदभस्मनिर्माण}
अप्रसूतगवां मूत्रे पेषयेद् रक्तमूलिकाम् ।
तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम्

1.2.22

तप्तखल्वे चतुर्यामम् अविच्छिन्नं विमर्दयेत् ।
तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे

1.2.23

एवं दशपुटैर् मार्यं मर्द्यं पात्यं पुनः पुनः ।
तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत्

1.2.24

भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् ।
द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः

1.2.25

मूलिकामारितः सूतो जारणक्रमवर्जितः ।
न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम्

1.2.26

{पारदभस्मनिर्माण (2)}
रसं गन्धकतैलेन द्विगुणेन विमर्दयेत् ।
दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः

1.2.27

त्र्यहं विमर्दयेद् द्रावैस् त्रिंशद्धट्टमहापुटे ।
इत्येवमष्टधा पाच्यं रसो भस्मीभवेद् ध्रुवम्

1.2.28

{रसभस्मनिर्माण (3)}
श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् ।
पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत्

1.2.29

देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
सप्तधा सूतकं तेन कुर्याद्धमनम् उत्थितम्

1.2.30

तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् ।
चुल्ल्योपरि पचेद् वह्नौ भस्म स्यादरुणोपमम्

1.2.31

{पारदमारण (4)}
काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् ।
सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः

1.2.32

काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् ।
दत्त्वा तेन पुनर् मर्द्यं हिंगु वङ्गरसेश्वरम्

1.2.33

क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् ।
अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे

1.2.34

{पारदमारण (5)}
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामेव रोधयेत्

1.2.35

रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् ।
{पारदमारण (6)}
कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै

1.2.36

सप्तधा म्रियते सूतः स्वेदयेद् गोमयाग्निना ।
{पारदमारण (7)}
अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत्

1.2.37

सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत्

1.2.38

{पारदमारण (8)}
धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः ।
दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम्

1.2.39

विलिप्य तैलैर्वर्तिं ताम् एरण्डोत्थैः पुनः पुनः ।
प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः

1.2.40

कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः ।
दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः

1.2.41

मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् ।
{पारदमारण (9)}
द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम्

1.2.42

मर्दयेन्मारकद्रावैर् दिनमेकं निरन्तरम् ।
बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत् पुटात्

1.2.43

{वज्रमूषा}
तुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका ।
लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम्

1.2.44

नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् ।
यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम्

1.2.45

शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च ।
वज्रमूषा समाख्याता सम्यक् पारदमारिका

1.2.46

{भस्मसूतवर्णाः}
श्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् ।
लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम्

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc