भाषा

ENहिગુ
ग्रंथ पाठ

रसमञ्जरी · अध्याय 1

1.1

र्मञ्ज्, 1
यद्गण्डमण्डलगलन्मधुवारि बिन्दुः पानालसाति निभृतां ललितालिमाला ।
यद्गुञ्जितेन विनिहन्ति नवेन्द्रनील शङ्कां स वो गणपतिः शिवमातनोतु

1.2

इन्दीवरी भवति यच्च चरणारविन्दद्वन्द्वे पुरन्दरपुरःसरदेवतानाम् ।
वन्दारुता कलयतां सुकिरीटकोटिः श्री शारदा भवतु सा भवपारदाय

1.3

हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।
त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं सूतेन्द्रं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।
श्रीवैद्यनाथतनयः सुनयः सुशीलः श्रीशालिनाथ इति विश्रुतनामधेयः ।
तेनावलोक्य विधिवद् विविधप्रबन्धान् आरम्भते सुकृतिना रसमञ्जरीयम्

1.4

सन्मधुव्रतं वृन्दानां सततं चित्तहारिणी ।
अनेकरसपूर्णेयं क्रियते रसमञ्जरी

1.5

हरति सकलरोगान्मूर्छितो यो नराणां वितरति किल बद्धः खेचरत्वं जवेन ।
सकलसुरमुनीन्द्रैर् वन्दितं शम्भुबीजं स जयति भवसिन्धुः पारदः पारदोऽयम्

1.6

शुष्केन्धनमहाराशिं यद्वद्दहति पावकः ।
तद्वद्दहति सूतोऽयं रोगान् दोषत्रयोद्भवान्

1.7

तेजो मृगाङ्कमौले सोढुं यन्नैव तेजसां पुञ्जैः ।
अजरामरतां वितरति कल्पतरुं च रसेश्वरं वन्दे

1.8

यो न वेत्ति कृपाराशिं रसहरिहरात्मकम् ।
वृथा चिकित्सां कुरुते स वैद्यो हास्यतां व्रजेत्

1.9

गुरुसेवां विना कर्म यः कुर्यान्मूढचेतसः ।
स याति निष्फलत्वं हि स्वप्नलब्धधनं यथा

1.10

विद्यां गृहीतुमिच्छन्ति चौर्यच्छद्मबलादिना ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम्

1.11

मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः

1.12

सर्वशास्त्रार्थतत्त्वज्ञः कुशलो रसकर्मणि ।
एतल्लक्षणसंयुक्तो रसविद्यागुरुर्भवेत्

1.13

शिष्यो निजगुरोर्भक्तः सत्यवक्ता दृढव्रतः ।
निरालस्यः स्वधर्मज्ञो देव्याराधनतत्परः

1.14

<पारदनामानि>
शिवबीजं सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा

1.15

अन्तःसुनीलो बहिरुज्ज्वलो वा मध्याह्णसूर्यप्रतिमप्रकाशः ।
शस्तोऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धये

1.16

दोषमुक्तो यदा सूतस्तदा मृत्युरुजापहः ।
साक्षादमृतम् एवैष दोषयुक्तो रसो विषम्

1.17

<पारददोषाः>
नागो वङ्गोऽग्निचापल्यम् असह्यत्वं विषं गिरिः ।
मला ह्येते च विज्ञेया दोषाः पारदसंस्थिताः

1.18

जाड्यं कुष्ठं महादाहं वीर्यनाशं च मूर्च्छनाम् ।
मृत्युं स्फोटं रोगपुञ्जं कुर्वन्त्येते क्रमान्नृणाम्

1.19

<पारदशोधन>
अथातः सम्प्रवक्ष्यामि पारदस्य च शोधनम् ।
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम्

1.20

पञ्चाशत् पञ्चविंशद्वा दश पञ्चैकमेव वा ।
पलाद् ऊनं न कर्तव्यं रससंस्कारमुत्तमम्

1.21

<पारदशोधन (1)>
पलत्रयं चित्रकसर्षपाणां कुमारीकन्याबृहतीकषायैः ।
दिनत्रयं मर्दितसूतकस्तु विमुच्यते पञ्चमलादिदोषैः

1.22

<पारदशोधन (2)>
इष्टिकारजनीचूर्णैः षोडशांशं रसस्य च ।
मर्दयेत्तं तथा खल्वे जम्बीरोत्थद्रवैर्दिनम्

1.23

<सामान्यदोषशोधनम्>
काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति

1.24

राजवृक्षो मलं हन्ति पावको हन्ति पावकम् ।
चापल्यं कृष्णधत्तूरस् त्रिफला विषनाशिनी

1.25

कटुत्रयं गिरिं हन्ति असह्यत्वं त्रिकण्टकः ।
प्रतिदोषं पलांशेन तत्र सूतं सकाञ्जिकम्

1.26

सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।
जायते शुद्धसूतोऽयं योजयेत् सर्वकर्मसु

1.27

<पारदशोधनम् (2)>
सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा विमर्दयेत् ।
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत् सुधीः

1.28

रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थद्रवैर् यामं पात्यं पातनयन्त्रके

1.29

पुनर् मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम्

1.30

<तप्तखल्व>
अजाशकृत्तुषाग्निं तु भूगर्भे त्रितयं क्षिपेत् ।
तस्योपरिस्थितं खल्वं तप्तखल्वमिदं स्मृतम्

1.31

<पारदशोधनम्>
कुमार्याश्च निशाचूर्णैर् दिनं सूतं विमर्दयेत् ।
पातयेत्पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः

1.32

<पारदशोधन>
श्रीखण्डदेवदारुश्च काकतुण्डी जयाद्रवैः ।
कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत्

1.33

दिनैकं मर्दयेत्पश्चाच्छुद्धं च विनियोजयेत् ।
<पारदशोधन>
अथवा हिङ्गुलात् सूतं ग्राहयेत् तन्निगद्यते

1.34

जम्बीरनिम्बुनीरेण मर्दितं हिङ्गुलं दिनम् ।
ऊर्ध्वपातनयन्त्रेण ग्राह्यः स्यान्निर्मलो रसः

1.35

कञ्चुकैर्नागवङ्गाद्यैर् निर्मुक्तो रसकर्मणि ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकर्मकृत्

1.36

सर्वसिद्धमतम् एतद् ईरितं सूतशुद्धिकरम् अद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते

1.37

संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् ।
देहस्य नाशं विविधं च कुष्ठं कष्टं च रोगाञ्जनयेन्नराणाम्

मूल पाठ: Rasamañjarī · Edition: Siddhinandan Mishra, Varanasi: Chaukhambha Orientalia, 1995 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc