रसगङ्गाधर · भाग 2126
"वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य।
शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषम् जोषम् एवावतस्थे॥"
इह त्व् आकस्मिकस्तनाग्रस्पर्शो विभावः। नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ।
ननु क्रोधामर्षयोः स्थायिसंचारिणोर् भावयोः किं भेदकम् इति चेत्, विषयतावैलक्षण्यम् एवेति गृहाण। तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर् वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम्।
व्रीडादिभिर् निमित्तैर् हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषो ऽवहित्थम्॥
तदुक्तम्--
"अनुभावपिधानार्थे ऽवहित्थं भाव उच्यते।
तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः॥"
यथा--
"प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेर्
उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः।
विषज्वालाजालं झगिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम्॥
अत्र
व्रीडा विभावः। तादृशकालियकथाप्रसङ्गो ऽनुभावः। एवं भयादिप्रयोज्यम् अप्य् उदाहार्यम्।
अधिक्षेपापमानादिप्रभवा किम् अस्य करोमीत्याद्याकारा चित्तवृत्तिर् उग्रता॥
यदाहुः--
"नृपापराधो ऽसद्दोषकीर्तनं चोरधारणम्।
विभावाः स्युर् अथो बन्धो वधस् ताडनभनभर्त्सने॥
एते यत्रानुभावास् तदौग्र्यं निर्दयतात्मकम्॥" इति।
यथा--
"अवाप्य भङ्गं खलु संगराङ्गणे नितान्तम् अङ्गाधिपतेर् अमङ्गलम्।
परप्रभावं मम गाण्डिवं धनुर् विनिन्दतस् ते हृदयं न कम्पते॥"
एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः। युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः। वधेच्छानुभावः। न चामर्षोग्रतयोर् नास्ति भेद इति वाच्यम्। प्राग् उदाहृते ऽमर्षध्वनाव् उग्रताया अप्रतीतेः। नाप्य् असौ क्रोधः। तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात्।
विप्रलम्भमहापत्तिपरमानन्दादिजन्मा ऽन्यस्मिन्न् अन्यावभास उन्मादः॥
शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्।
उदाहरणम्--
"अकरुणहृदय प्रियतम मुञ्चामि त्वाम् इतः परं नाहम्।
इत्य् आलपति कराम्बुजम् आदायालीजनस्य विकला सा॥"
एषा
प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित् संदेशहारिण्या उक्तिः। प्रियविरहो ऽत्र विभावः। असंबद्धोक्तिर् अनुभावः। उन्मादस्य व्याधाव् अन्तर्भावे संभवत्य् अपि पृथग् उपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय।
रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम्॥
न चात्र प्राणवियोगात्मकं मुख्यं मरणम् उचितं ग्रहीतुम्। चित्तवृत्त्यात्मकेषु भावेषु तस्याप्रसक्तेः। भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात्।
उदाहरणम्--
"दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत्।
अधुना खलु हन्त सा कृशाङ्गी गिरम् अङ्गीकुरुते न भाषितापि॥"
प्रियविरहो ऽत्र विभाव। वचनविरामो ऽनुभावः। हन्तपदस्यात्रात्यन्तम् उपकारकत्वाद् वाक्यव्यङ्ग्यो ऽप्य् अयं भावः पदव्यङ्ग्यताम् आवहति। एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यम् इति परास्तम्।
दयितस्य गुणान् अनुस्मरन्तीत्य् अनेन व्यज्यमानं "चरमावस्थायाम् अपि तस्या दयितगुणविस्मरणं नाभूद्" इति वस्तु, विप्रलम्भस्य शोकस्य वा चरमम् अभिव्यक्तस्य पोषकम्। अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः। कवयः पुनर् अमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात्।
संदेहाद्यनन्तरं जायमान ऊहो वितर्कः॥
स च निश्चयानुकूलः।
"यदि सा मिथिलेन्द्रनन्दिनी नितराम् एव न विद्यते भुवि।
अथ मे कथम् अस्ति जीवितं न विनालम्बनम् आश्रितस्थितिः॥"
स्वात्मनि भगवतो रामस्यैषोक्तिः। भुवि सीतास्ति न वेति संदेहो ऽत्र विभावः। भ्रूक्षेपशिरोङ्गुलिनर्तनम् आक्षिप्तम् अनुभावः। न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात्। किं भविष्यति कथं भविष्यतीत्य् आद्य् आकारायाश् चिन्तायाः, इदम् इत्थं भवितुम् अर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच् च। न विनेत्यादिनोक्तो ऽर्थान्तरन्यासो ऽप्य् अस्मिन्न् एवानुकूलः।
इष्टासिद्धिराजगुर्वाद्यपराधादिजन्यो ऽनुतापो विषादः॥
उदाहरणम्--
"भास्करसूनाव् अस्तं याते जाते च पाण्डवोत्कर्षे।
दुर्योधनस्य जीवित कथम् इव नाद्यापि निर्यासि॥"
अत्र स्वापकर्षपरोत्कर्षयोर् दर्शनं विभावः। जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः। अस्मिन्न् एव च विषादध्वनौ दुर्योधनस्येत्य् अर्थान्तरसंक्रमितवाच्यध्वनिर् अनुग्राहकः। न चात्र त्रासभावध्वनित्वं शक्यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात्। नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात्। नापि दैन्यध्वनित्वम्, सकलसैन्यक्षये ऽपि विपदस् तेनागणनात्। न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात्।
इदं पुनर् अत्र नोदाहार्यम्--
"अयि पवनरयाणां निर्दयानां हयानां
श्लथय गतिम् अहं नो संगरं द्रष्टुम् ईहे।
श्रुतिविवरम् अमी मे दारयन्ति प्रकुप्यद्
भुजगनिभभुजानां बाहुजानां निनादाः॥
अत्र त्रासस्यैव प्रतीयमानत्वेन
विषादस्याप्रतीतेः। लेशतया प्रतितौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात्।
अधुनैवास्य लाभो ममास्त्व् इतीच्छा औत्सुक्यम्॥
इष्टविरहादिर् अत्र विभावः। त्वराचिन्तादयो ऽनुभावाः।
यदाहुः--
"संजातम् इष्टविरहाद् उद्दीप्तं प्रियसंस्मृतेः।
निद्रया तन्द्रया गात्रगौरवेण च चिन्तया॥
अनुभावितम् आख्यातम् औत्सुक्यं भावकोविदैः॥" इति।
उदाहरणम्--
"निपतद्बाष्पसंरोधम् उक्तचाञ्चल्यतारकम्।
कदा नयननीलाब्जम् आलोकेय मृगीदृशः॥"
अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिर् आवेगः॥
उदाहरणम्--
"लीलया विहितसिन्धुबन्धन सो ऽयम् एति रघुवंशनन्दनः।
दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः॥
एषा स्वात्मनि मन्दोदर्या उक्तिः। रघुनन्दनागमनम् अत्र विभावः।
कुत्र यामीत्य् एतद् व्यङ्ग्यः स्थैर्याभावो ऽनुभावः। न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात्। परं त्व् आवेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति।
चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्यार्थप्रतिसंधानविकला चित्तवृत्तिर् जडता॥
इयं च मोहात् पूर्वतः परतश् च जायते।
यद् आह--
"कार्याविवेको जडता पस्यतः शृण्वतो ऽपि वा।
तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा॥
अनुभावास् त्व् अमी तूष्णीं भावविस्मरणादयः।
सा पूर्वं परतो वा स्यान् मोहाद् इति विदां मतम्॥"
उदाहरणम्--
"यद् अवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतो ऽभूत्।
तद् अवधि शिथिलीकृतो मदीयैर् अथ करणैः प्रणयो निजक्रियासु॥"
प्रियविरहो ऽत्र विभावः। करणैश् चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्रमितिषु प्रणयस्य शिथिलीकरणम् अनुभावः। मोहे चक्षुरादिभिश् चाक्षुषादेर् अजननम्, इह
तु प्रकारविशेषवैशिष्ट्येन बाहुल्येनाजननम् इति तस्माद् अस्य विशेषः। अत एवोदाहरणे शिथिलीकृत इत्य् उक्तम्, न तु त्यक्त इति।
अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्॥
अत्र च नासामर्थ्यम्। नापि कार्याकार्यविवेकशून्यत्वम्। तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वे ऽपि ग्लानेर् जडतायाश् चास्य भेदः।
उदाहरणम्--
"निखिलां
रजनीं प्रियेण दूराद् उपयातेन विबोधिता कथाभिः।
अधिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा॥"
एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिद् उक्तिः। अत्र रजनिजागरणं विभावः। अधिकसंभाषणाभावो ऽनुभावः। जडतायां मोहात् पूर्ववर्तित्वम् उत्तरवर्तित्वं वा नियतम्, न त्व् अत्रेत्य् अपरो विशेषः। गोपनीयविषयत्वाद् यदि कथाभिर् इत्य् अविवक्षितवाच्यं तदा श्रमो ऽस्तु परिपोषकः। श्रमजन्ये ह्य् आलस्ये श्रमस्य पोषकताया अवार्यत्वात्। अतितृप्त्यादिजनिते त्व् आलस्ये श्रमाद् विविक्तविषयत्वं बोध्यम्।
परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश् चित्तवृत्तिविशेषो ऽसूया॥
इमाम् एवासहनादिशब्दैर् व्यवहरन्ति।
यथा--
"कुत्र शैवं धनुर् इदं क्व चायं प्राकृतः शिशुः।
भङ्गस् तु सर्वसंहर्त्रा कालेनैव विनिर्मितः॥"
एषा भग्नहरकार्मुकस्य भगवतो रामस्य पराक्रमम् असहमानानां तत्रत्यानां राज्ञाम् उक्तिः। अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः। प्राकृतशिशुपदगम्या निन्दा अनुभावः।
"तृष्णालोलविलोचने कलयति प्राचीं चकोरव्रजे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर् धुन्वति।
माने मानवतीजनस्य सपदि प्रस्थातुकामे ऽधूना
धातः किं नु विधौ विधातुम् उचितो धाराधराडम्बरः॥"
अत्रापि यद्य् अपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता
कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस् तुल्यत्वाद् अभिव्यक्तेनामर्षेण शबलितैवासौ
न विविक्ततया प्रतियते। नहि विधातुर् अपराध इव भगवतो रामस्यापराधो ऽस्ति येन कवेर् इव वीराणाम् अप्य् अमर्षो ऽभिव्यज्येत। स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम्। अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान् नास्त्य् असूयाध्वनित्वम् इति तु न वाच्यम्। एकध्वनेर् ध्वन्यन्तराविरोधित्वात्। अन्यथा महावाक्यध्वनेर् अवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात्।
वियोगशोकभयजुगुप्सादीनाम् अतिशयाद् ग्रहावेशादेश् चोत्पन्नो व्याधिविशेषो ऽपस्मारः॥
व्याधित्वेनास्य कथने ऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानकयोर् अस्यैव व्याधेर् अङ्गत्वं नान्यस्येति स्फोरणाय। विप्रलम्भे तु व्याध्यन्तरस्यापि च। उदाहरणम्--
"हरिम् आगतम् आकर्ण्य मथुराम् अन्तकान्तकम्।
कम्पमानः श्वसन् कंसो निपपात महीतले॥"
अत्र भयं विभावः। कम्पनिःश्वासपतनादयो ऽनुभावाः।
अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश् चपलता॥
यद् आहु--
"अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश् च मत्सरः।
इति यत्र विभावाः स्युर् अनुभावस् तु भर्त्सनम्॥
वाक्पारुष्यं प्रहारश् च ताडनं वधबन्धने।
तच्चापलम्
अनालोच्य कार्यकारित्वम् इष्यते॥" इति।
उदाहरणम्--
"अहितव्रत पापात्मन् मैवं मे दर्शयाननम्।
आत्मानं हन्तुम् इच्छामि येन त्वम् असि भावितः॥"
एषा भगवदनुरक्तिविघटनोपायम् अपश्यतः प्रह्लादं प्रति हिरण्यकशिपोर् उक्तिः। भगवद्द्वेषोत्थापितः पुत्रद्वेषो ऽत्र विभावः। आत्मवधेच्छा परुषवचनं चानुभावः। न चामर्ष एवात्र व्यज्यत इति वाच्यम्।
सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोर् अमर्षस्य चिरकालसंभृतत्वेनात्मवधेच्छाया इदंप्रथमतानुपपत्तेः।
इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः। न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणम् अभिव्यज्यताम् इति वाच्यम्। प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात्।
नीचपुरुषेष्व्
आक्रोशनाधिक्षेपव्याधिताडनदारिद्र्येष्टविरहपरसंपद्दर्शनादिभिः, उत्तमेषु त्व् अवज्ञादिभिर् जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिर् निर्वेदः।
उदाहरणम्--
"यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम्॥"
नित्यानित्यवस्तुविवेकजन्यत्वाभावान् नासौ रसव्यपदेशहेतुः।
देवादिविषया रतिर् यथा--
"भवद्द्वारि
क्रुध्यज्जयविजयदण्डाहतिदलत्-
किरीटास् ते कीटा इव विधिमहेन्द्रप्रभृतयः।
वितिष्ठन्ते युष्मन् नयनपरिपातोत्कलिकया
वराकाः के तत्र क्षपितमुर नाकाधिपतयः॥"
अत्रापमानसहनभगवद्द्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर् ब्रह्मादिगता भगवदालम्बना रतिर् नाभिव्यज्यते, अपि तु भगवदैश्वर्यम् अवाङ्मनसगोचर इति चेत् तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वम् अक्षतम् एव।
इदं वोदाहरणम्--
"न धनं न च राज्यसंपदं न हि विद्याम् इदम् एकम् अर्थये।
मयि धेहि मनाग् अपि प्रभो करुणाभङ्गितरङ्गितां दृशम्॥"
अत्र धनाद्यपेक्षाशून्यस्य भगवद्दृगन्तपाताभिलाषो हि भगवत्य् अत्यन्तानुरक्तिं व्यनक्ति। एवं संक्षेपेण निरूपिता भावाः॥
अथ कथम् अस्य संख्यानियमः। मात्सर्योद्वेगदम्भेर्ष्याविवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधार्ष्ट्यादीनाम् अपि तत्र तत्र लक्ष्येषु दर्शनात् इति चेत्, न। उक्तेष्व् एवैषाम् अन्तर्भावेण संख्यान्तरानुपपत्तेः। असूयातो मात्सर्यस्य, त्रासाद् उद्वेगस्य, अवहित्थाख्याद् भावाद् दम्भस्य, अमर्षाद् ईर्ष्यायाः, मतेर् विवेकनिर्णययोः, दैन्यात् क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात् कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात् संशयस्य, चापलाद् धार्ष्ट्यस्य च वस्तुतः सूक्ष्मे भेदे ऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात्। मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात्। एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश् च
भवन्ति।
तथा हि-- ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयम् ऊह्यम्।
अथ रसाभासः-- तत्र
अनुचितविभावालम्बनत्वं रसाभासत्वम्॥
विभावादाव् अनौचित्यं पुनर् लोकानां व्यवहारतो विज्ञेयम्। यत्र तेषाम् अयुक्तम् इति धीर् इति केचिद् आहुः। तद् अपरे न क्षमन्ते। मुनिपत्न्यादिविषयकरत्यादेः संग्रहे ऽपि बहुनायकविषयाया अनुभयनिष्ठायाश् च रतेर् असंग्रहात्। तत्र विभावगतस्यानौचित्यस्याभावात्। तस्माद् अनौचित्येन रत्यादिर् विशेषणीयः। इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश् च संग्रह इति। अनौचित्यं च प्राग्वद् एव। तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम्। निर्मलस्यैव रसादित्वात्। "हेत्वाभासत्वम् इव हेतुत्वेन" इत्य् एके। "न ह्य् अनुचितत्वेनात्महानिः, अपि तु सदोषत्वाद् आभासव्यवहारः। अश्वाभासादिव्यवहारवत्" इत्य् अपरे।
उदाहरणम्--
"शतेनोपायानां कथम् अपि गतः सौधशिखरं
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने।
विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां
सनिःश्वासं श्लिष्यत्य् अहह सुकृती राजरमणीम्॥"
अत्रालम्बनम् अनुचितप्रणया राजरमणी। रहोरजन्याद्य् उद्दीपनम्। साहसेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लेषादयश् चानुभावाः। शङ्कादयः संचारिणः। निषिद्धालम्बनकत्वाच् चास्या रतेः, आभासत्वं रसस्य। न चात्र चकितनयनाम् इत्य् अनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेर् अनुभयनिष्ठतेत्य् आभासताहेतुर् वाच्यः।
अस्याश् च चिराय तस्मिन्न् आसक्ताया अन्तःपुरे परपुरुषागमनस्यात्यन्तम् असंभावनया क एष मां बोधयतीत्य् आदाव् उचित एव त्रासः। अनन्तरं च परिचयाभिव्यक्त्या सो ऽयं मत्प्रियो मदर्थं प्राणान् अपि तृणीकृत्यागत इति ज्ञानाद् उत्पन्नं हर्षम् अभिव्यञ्जयत् स्मेरवदनाम् इति विशेषणं रतिं तदीयाम् अपि व्यनक्ति। परं तु प्राधान्यं नायकनिष्ठाया एव रतेः, सकलवाक्यार्थत्वात्।
यथा वा--
"भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु।
तरुणेषु विलोचनाब्जमालाम् अथ बाला पथि पातयांबभूव॥
अत्र कुतश् चिद् आगच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर् युवभिर् अनुगम्यमानायाः कस्याश् चिद् भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनाद् अभिव्यज्यमाना रतिर् बहुवचनेन बहुविषया गम्यत इति भवत्य् अयम् अपि रसाभासः।
यथा वा--
"भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम्॥"
अत्र रतेर् नववध्वा मनाग् अप्य् अस्पर्शाद् अनुभयनिष्ठत्वेनाभासत्वम्।
यथा चोक्तम्--
"उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च।
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम्॥" इति।
अत्र मुनिगुरुशब्दयोर् उपलक्षणपरतया राजादेर् अपि
ग्रहणम्।
अथात्र किं व्यङ्ग्यम्--
"व्यानम्राश् चलिताश् चैव स्फारिताः परमाकुलाः।
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः॥"
अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यम् अर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोर् औत्सुक्यं च व्यञ्जयन्तीभिर् दृग्भिः पाञ्चाल्या बहुविषयाया रतेर् अभिव्यञ्जनाद् रसाभास एवेति नव्याः। प्राञ्चस् त्व् अपरिणेतृबहुनायकविषयत्वे रतेर् आभासतेत्य् आहुः। तत्र शृङ्गाररस इव शृङ्गाराभासो ऽपि द्विविधः। संयोगविप्रलम्भभेदात्। संयोगाभासस् त्व् अनुपदम् एवोदाहृतः।
विप्रलम्भाभासो यथा--
"व्यत्यस्तं लपति क्षणं क्षणम् अथो मौनं समालम्बते
सर्वस्मिन् विदधाति किं च विषये दृष्टि निरालम्बनाम्।
श्वासं दीर्घम् उरीकरोति न मनाग् अङ्गेषु धत्ते धृतिं
वैदेहीकमनीयताकवलितो हा हन्त लङ्केश्वरः॥"
अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिर् अनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्य् आदिभिर् उक्तिभिर् व्यज्यमानैर् उन्मादश्रममोहचिन्ताव्याधिभिस् तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः। एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः,
महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः। विस्तृतिभयाच् चामी नेहोदाहृताः सुधीभिर् उन्नेयाः।
एवम् एवानुचितविषया भावाभासाः।
यथा--
सर्वे ऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदकलिता विमुखीबभूव।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयाद् अधिदेवतेव॥
गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्य चिद् अप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयम् उक्तिः। अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु, चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वम् अभिव्यज्यमानं व्यतिरेकवपुःस्मृतिम् एव पुष्णातीति सैव प्रधानम्। एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्य् अधिदेवतोपमापि। एषा चानुचितविषयकत्वाद् अनुभयनिष्ठत्वाच् च भावाभासः। यदि पुनर् इयं तत्परिणेतुर् एवोक्तिस् तदा भावध्वनिर् एव॥
अथ भावशान्तिः--
भावस्य प्रागुक्तस्वरूपस्य शान्तिर् नाशः॥
स चोत्पत्त्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृदयचमत्कारित्वात्।
उदाहरणम्--
"मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय।
इति तन्व्याः पतिवचनैर् अपायि नयनाब्जकोणशोणरुचिः॥"
इह तादृशप्रियवचनश्रवणं विभावः। नयनकोणगतशोणरुचेर् नाशः,
तदभिव्यक्तः प्रसादो वानुभावः। उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः।
तथा--
भावोदयो भावस्योत्पत्तिः॥
उदाहरणम्--
"वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी।
अंसदेशवलयीकृतां क्षणाद् आचकर्ष निजबाहुवल्लरीम्॥"
अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः। प्रियांसदेशवलयीकृतनिजबाहुलताकर्षणम् अनुभावः। रोषोदयो व्यङ्ग्यः। यद्य् आपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्वं भावशान्तेर् आवश्यकत्वान् नानयोर् विविक्तो व्यवहारस्य विषयः, तथापि द्वयोर् एकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच् च व्यवहारस्य, अस्ति विषयविभागः।
एवम्--
भावसंधिर् अन्योन्यानभिभूतयोर् अन्योन्याभिभवनयोग्ययोः सामानाधिकरण्यम्॥
उदाहरणम्--
"यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः॥"
अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेश् च दर्शनं विभावः। नयनगतसंकोचविकासाव् अनुभावः। व्रीडौत्सुक्ययोः संधिर् व्यङ्ग्यः।
तथा--
भावशबलत्वं
भावानां बाध्यबाधकभावम् आपन्नानाम् उदासीनानां वा व्यामिश्रणम्॥
एकचमत्कृतिजनकज्ञानगोचरत्वम् इति यावत्।
उदाहरणम्--
"पापं हन्त मया हतेन विहितं कीतापि यद्य् आपिता,
सा माम् इन्दुमुखी विना बत वने किं जीवितं धास्यति।
आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां
राज्यं यातु रसातलं पुनर् इदं न प्राणितुं कामये॥"
अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता। यत् तु काव्यप्रकाशटीकाकारैः "उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता" इत्य् अभ्यधीतय, तन् न। "पश्येत् कश्चिच् चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि" इत्य् अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानाम् उपमर्दलेशशून्यत्वे ऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात्। स्वोत्तरविशेषगुणेन जायमानस् तु नाशो न व्यङ्ग्यः। न वोपमर्दपदवाच्यः, नापि चमत्कारी तस्मात्।
"नारिकेलजलक्षीरसिताकदलमिश्रणे।
विलक्षणो तथास्वादो भावानां संहतौ तथा॥"
अत्रेदं बोध्यम्-- य एते भावशान्त्युदयसंधिशबलताध्वनय उदाहृतास् ते ऽपि भावध्वनय एव। विद्यमानतया चर्व्यमाणेष्व् इवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश् चर्व्यमाणेषु भावेष्व् एव प्राधान्यस्यौचित्यात्, चमत्कृतेस् तत्रैव विश्रान्तेः। यद्य् अप्य् उत्पत्तिविनाशसंधिशबलतानां तत्संबन्धिनां भावानां च
समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते, तथापि स्थितौ भावेषु प्रधानतायाः कॢप्तत्वात्, भावशान्त्यादिष्व् अपि तेष्व् एव शान्तिप्रतियोगित्वादिभिर् व्यज्यमानेषु तस्याः कल्पयितुम् औचित्यात्। किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिर् एवेत्य् अभ्युपेयते तदा व्यज्यमानभावेष्व् अभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात्।
तथा हि--
"उषसि प्रतिपक्षनायिकासदनाद् अन्तिकम् अञ्चति प्रिये।
सुदृशो नयनाब्जकोणयोर् उदियाय त्वरयारुणद्युतिः॥"
अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्। (ननु)उदयस्य वाच्यत्वे ऽपि भावस्यावाच्यत्वाद् धनित्वं सुस्थम् इति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वे ऽप्रधानकृतव्यपदेशानुपपत्तेः। अस्मन्मते तूत्पत्तेर् वाच्यत्वे ऽप्य् उत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद् युक्त एव भावोदयध्वनिव्यपदेशः। एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात्। यथा--
"क्षमापणैकपदयोः पदयोः पतति प्रिये।
शेमुः सरोजनयनानयनारुणकान्तयः॥"
ननु शब्दवाच्यानां प्रशमादीनाम् अरुणकान्त्यैवान्वयात् अरुणकान्तिप्रशमादेर् एव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्ग्यस्य रोषप्रशमादेः, व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात्। न चारुण्यव्यङ्ग्यरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्। वाच्यव्यङ्ग्यप्रतीत्योर् आनुपूर्व्येण सिद्धतया वाच्यान्वयबोधवेलायां
वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः। अन्यथा "सुदृशो नयनाब्जकोणयोः" इत्य् अस्यान्वयो न स्यात्। मैवम्। एवम् अपि--
"निर्वासयन्तीं धृतिम् अङ्गनानां शोभां हरेर् एणदृशो धयन्त्याः।
चिरापराधस्मृतिमांसलो ऽपि रोषः क्षणप्राघुणिको बभूव॥"
इत्यादाव् अपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वे ऽपि प्रधानस्य तत्प्रशमस्य व्यङ्ग्यत्वात्। उभयोर् अप्य् अवाच्यत्वम् अपेक्षितम् इति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर् वाच्यत्वाद् अनुदाहरणत्वापत्तेः। इष्टापत्तिस् तु सहृदयानाम् अनुचितैव। तस्माद् भावप्रशमादिष्व् अपि प्राधान्येन भावानाम् एव चमत्कारित्वम्, प्रशमादेस् तूपसर्जनत्वम् अतो न तस्य वाच्यतादोषः। इदं पुनर् भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्-- यद् एकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वम् एव वा प्रकारः। अन्यत्र तु प्रशमावस्थत्वादिर् अपीति। रसस्य तु स्थायिमूलकत्वात् प्रशमादेर् असंभवः, संभवे वा न चमत्कारः, इति न स विचार्यते।
सो ऽयं निगदितः सर्वो ऽपि रत्यादिलक्षणो व्यङ्ग्यप्रपञ्चः स्फुटे प्रकरणे झगिति प्रतितेषु विभावानुभावव्यभिचारिषु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेत प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणाद् अलक्ष्यक्रमो व्यपदिश्यते। यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस् तत्र सामग्रीविलम्बाधीनं चमत्कृतेर् मान्थर्यम् इति संलक्ष्यक्रमो ऽप्य् एष भवति। यथा-- "तल्पगतापि च सुतनुः" इति प्राग् उदाहृते पद्ये "संप्रति" इत्य् एतदर्थावगतिर् विलम्बेन। न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेर् अलक्ष्यक्रमव्यङ्ग्यत्वम्। अत एव लक्ष्यक्रमप्रसङ्गे--
"एवंवादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती।"
इत्य् अत्र
कुमारीस्वाभाव्याद् अप्य् अधोमुखत्वविशिष्टस्य लीलाकमलपत्त्रगणनस्योपपत्त्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश् चमत्करणाल् लक्ष्यक्रमो ऽयं ध्वनिः" इति प्राहुर् आनन्दवर्धनाचार्याः। रसभावादिर् अर्थो ध्वन्यमान एव, न वाच्यः। तथापि न सर्वो ऽलक्ष्यक्रमस्य विषयः" इति चाभिनवगुप्तपादाचार्याः। स्याद् एतत्, यद्य् अयं रसादिः संलक्ष्यक्रमस्य विषयः स्यात्। अनुरणनभेदगणनप्रस्तावे "अर्थशक्तिमूलस्य द्वादशभेदाः" इत्य् अभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः" इति मम्मटोक्तिश् च न संगच्छेत, वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतःसंभवित्वकविप्रौढोक्ति-निष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस् त्रिभिर् उपाधिभिस् त्रैविध्यम् आपन्नेन षडात्मना वस्त्वलंकारयोर् इव रसादेर् अप्य् अभिव्यञ्जनाद् अष्टादशत्वप्रसङ्गात्।
अत्रोच्यते-- प्रकटैर् विभावानुभावव्यभिचारिभिर् अलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति, न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम्। संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस् तु वस्तुमात्रतैव, न रसादित्वम् इति तेषाम् आशयस्य वर्णनेन न तदुक्तीनां विरोधः। उपपत्तिस् त्व् अर्थे ऽस्मिन् विचारणीया। रसभावादिर् अर्थ इत्य् अत्र रसादिशब्दो रत्यादिपरः।
तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैर् अवर्णात्मकै रागादिभिश् चाभिव्यक्तिम् आमनन्ति। तत्र वाक्यगतानां पदानां सर्वेषाम् अपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समाने ऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिद् एव ध्वनिव्यपदेशहेतुत्वम्। यथा "मन्दम् आक्षिपति" इत्य् अत्र मन्दम् इत्य् अस्य। रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वम् एव न तु व्यञ्जकत्वम् इति यद्य् अपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वम् इति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकम् एव व्यञ्जकतायाः सिद्धिर् इति प्राञ्चः।
वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वम् एव न रसाभिव्यञ्जकत्वम्, गौरवान् मानाभावाच् च। न हि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं नास्तीत्य् अस्ति नियमः, इन्द्रियत्रये व्यभिचारात्। इत्थं च स्वस्वव्यञ्जकोपनीतानां गुणिनां गुणानाम् उदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्याक्तिविषयतेति तु नव्याः। उदाहरणं तु "तां तमाल" इत्यादि प्राग् उक्तम् एव वाक्यस्य व्यञ्जकतायाम् अपि "आविर्भूता यद् अवधि" इत्यादि च। प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान् निदर्शनानि प्रसिद्धानि। मन्निर्मिताश् च पञ्ज लहर्यो भावस्य। पदैकदेशस्य च "निखिलम् इदं जगद् अण्डकं वहामि" इति करूपतद्धितो वीररसस्य प्राग् एवोदाहृतः। एवं रागादिभिर् अपि व्यङ्ग्यत्वे सहृदयहृदयम् एव प्रमाणम्। एवम् एषां रसादीनां प्राधान्येन निरूपितान्य् उदाहरणानि। गुणीभावे तु वक्ष्यन्ते, नामानि च। तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वम् एव। नामनि रसपदं तु रत्यादिपरम् इत्य् एके। अस्त्य् एव रसादित्वं, किं तु न ध्वनिव्यपदेशहेतुत्वम् इत्य् अपरे॥
मूल पाठ: Rasagaṅgādhara 1 · Edition: the following four editions: 1. RG with Sanskrit commentaries by Nāgeśa Bhaṭṭa and Mathurā Nāth Śāstrī, Delhi: Motilal Banārsīdās, 1983 (reprint); 2. RG with Sanskrit and Hindi Commentaries by Badarinath Jha and Madan Mohan Jha, Varanasi: Chowkhamba Vidyabhawan, 1990 (reprint); 3. RG with Sanskrit commentary by Kedāranātha Ojhā, Varanasi: Sampurnanand Sanskrit Vishvavidyalaya, 1977; 4. RG with San · Data entry Timothy C. Cahill · GRETIL (Göttingen) · CC BY-NC-SA 4.0