भाषा

ENहिગુ
ग्रंथ पाठ

रामोदन्त · श्लोक 61*-80*

61*

व्रजन् वनेन काकुत्स्थो विराधं विधिचोदितम्
सदारानुजम् आत्मानं हरन्तम् अवधीत् तदा ॥

62*

शरभङ्गाश्रमम् प्राप्य स्वर्गतिं तस्य वीक्ष्य सः
प्रतिजज्ञे राक्षसानां वधं मुनिभिर् अर्थितः ॥

63*

तस्माद् गत्वा सुतीक्ष्णं च प्रणम्यानेन पूजितः
अगस्त्यस्याश्रमं प्राप्य तं ननाम रघूत्तमः ॥

64*

रामाय वैष्णवं चापम् ऐन्द्रं तूणीयुगं तथा
ब्राह्मं चास्त्रं च खड्गं च प्रददौ कुम्भसंभवः ॥

65*

ततः स गच्छन् काकुत्स्थः समागम्य जटायुषम्
वैदेह्याः पालनायैनं श्रद्दधे पितृवल्लभम् ॥

66*

ततः पञ्चवटीं प्राप्य तत्र लक्ष्मणनिर्मिताम्
पर्णशालाम् अध्युवास सीतया सहितः सुखम् ॥

6*7

तत्राभ्येत्यैकदा रामं वव्रे शूर्पणखाभिका
तन्निरस्ता लक्ष्मणं च वव्रे सोऽ; पि निराकरोत् ॥

68*

रामम् एव ततो वव्रे कामार्ता कामसंनिभम्
पुनश् च धिक्कृता तेन सीताम् अभ्यद्रवद् रुषा ॥

69*

लक्ष्मणेन तदा रोषात् कृत्तश्रवणनासिका
सा तु गत्वा जनस्थानं खरायैतन् न्यवेदयत् ॥

70*

तद् आकर्ण्य खरः क्रुद्धो राघवं हन्तुम् आययौ
दूषणत्रिशिरोमुख्यैर् यातुधानैः समन्वितः ॥

71*

तत् क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः
खरं सहानुगं संख्ये जघानालघुविक्रमः ॥

72*

ततः शूर्पणखा गत्वा लङ्कां शोकसमन्विता
न्यवेदयद् रावणाय वृत्तान्तं सर्वम् आदितः ॥

73*

तच् छ्रुत्वा रावणः सीतां हर्तुं कृतमतिस् तदा
मारीचस्याश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥

74*

सो ऽपि स्वर्णमृगो भूत्वा सीतायाः प्रमुखे ऽचरत्
सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥

75*

नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः
अन्वगच्छन् मृगं तूर्णं द्रवन्तं काननान्तरे ॥

76*

विव्याध च मृगं रामः स निजं रूपम् आस्थितः
हा सीते लक्ष्मणेत्य् एवं रुदन् प्राणान् समत्यजत् ॥

*77

एतद् आकर्ण्य वैदेह्या लक्ष्मणश् चोदितो भृशम्
तद्रक्षां देवताः प्रार्थ्य प्रययौ राघवान्तिकम् ॥

78*

तद् अन्तरे समासाद्य रावणो यतिरूपधृत्
सीतां गृहीत्वा प्रययौ गगनेन मुदान्वितः ॥

79*

ततो जटायुर् आलोक्य नीयमानां तु जानकीम्
प्राहरद् रावणं प्राप्य तुण्डपक्षनखैर् भृशम् ॥

80*

छित्त्वैनम् चन्द्रहासेन पातयित्वा च भूतले
गृहीत्वा रावणः सीतां प्राविशन् निजमन्दिरम् ॥

मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc