भाषा

ENहिગુ
ग्रंथ पाठ

रामोदन्त · श्लोक 81*-100*

81*

अशोकवनिकामध्ये संस्थाप्य जनकात्मजाम्
रावणो रक्षितुं चैनां नियुयोज निशाचरीः ॥

82*

हत्वा रामस् तु मारीचम् आगच्छन्न् अनुजेरिताम्
वार्त्ताम् आकर्ण्य दुःखार्तः पर्णशालाम् उपागमत् ॥

83*

अदृष्ट्वा तत्र वैदेहीं विचिन्वानो वनान्तरे
सहानुजो गृध्रराजं छिन्नपक्षं ददर्श सः ॥

84*

तेनोक्तां जानकीवार्त्तां श्रुत्वा पश्चान् मृतं च तम्
दग्ध्वा सहानुजो रामश् चक्रे तस्योदकक्रियाम् ॥

85*

आत्मनो ऽभिभवं पश्चात् कुर्वतीं पथि लक्ष्मणः
अयोमुखीं चकाराशु कृत्तश्रवणनासिकाम् ॥

86*

गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम्
ततस् तु याचितौ तेन तद्देहं देहतुश् च तौ ॥

8*7

स तु दिव्याकृतिर् भूत्वा रामं सीतोपलब्धये
सुग्रीवम् ऋष्यमूकस्थं याहीत्य् उक्त्वा दिवं ययौ ॥

88*

ततः प्रीतो रघुश्रेष्ठः शबर्याश्रमम् अभ्ययात्
तयाभिपूजितः पश्चात् पम्पां प्राप सलक्ष्मणः ॥

89*

हनूमान् अथ सुग्रीव निर्दिष्टो रामलक्ष्मणौ
प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥

90*

ततो रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः
सख्यं च कारयाम् आस तयोः पावकसंनिधौ ॥

91*

प्रतिजज्ञे तदा रामो हनिष्यामीति वालिनम्
दर्शयिष्यामि वैदेहीम् इत्य् अन्येन च संश्रुतम् ॥

92*

सुग्रीवेणाथ रामाय भ्रातृवैरस्य कारणम्
निवेदितम् अशेषं च बलाधिक्यं च तस्य तत् ॥

93*

तत् क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम्
सुदूरं प्रेषयाम् आस पादाङ्गुष्ठेन राघवः ॥

94*

पुनश् च दर्शितांस् तेन सालान् सप्त रघूत्तमः
बाणेनैकेन चिच्छेद सार्धं तस्यानुशङ्कया ॥

95*

किष्किन्धां प्राप्य सुग्रीवस् ततो रामसमन्वितः
जगर्जातीव संहृष्टः कोपयन् वानराधिपम् ॥

96*

वाली निष्क्रम्य सुग्रीवं समरे ऽपीडयद् भृशम्
सो ऽपि संभग्नसर्वाङ्गः प्राद्रवद् राघवान्तिकम् ॥

9*7

कृतचिह्नस् तु रामेण पुनर् एव स वालिनम्
रणायाह्वयत क्षिप्रं तस्थौ रामस् तिरोहितः ॥

98*

हेममाली ततो वाली तारयाभिहितं हितम्
निरस्य कुपितो भ्रात्रा रणं चक्रे सुदारुणम् ॥

99*

बाणेन वालिनं रामो विद्ध्वा भूमौ न्यपातयत्
सो ऽपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥

100*

पश्चात् तपन्तं सुग्रीवं समाश्वास्य रघूत्तमः
वानराणाम् अधिपतिं चकाराश्रितवत्सलः ॥

मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc