भाषा

ENहिગુ
ग्रंथ पाठ

रामोदन्त · श्लोक 41*-60*

41*

एतस्मिन्न् अन्तरे गेहं मातुलस्य युधाजितः
प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥

42*

ततः प्रकृतिभिः साकं मन्त्रयित्वा स भूपतिः
अभिषेकाय रामस्य समारेभे मुदान्वितः ॥

43*

कैकेयी तु महीपालं मन्थरादूषिताशया
वरद्वयं पुरा दत्तं ययाचे सत्यसंगरम् ॥

44*

वनवासाय रामस्य राज्याप्त्यै भरतस्य च
तस्या वरद्वयं कृच्छ्रम् अनुजज्ञे महीपतिः ॥

45*

रामं तदैव कैकेयी वनवासाय चादिशत्
अनुज्ञाप्य गुरून् सर्वान् निर्ययौ च वनाय सः ॥

46*

दृष्ट्वा तं निर्गतं सीता लक्ष्मणश् चानुजग्मतुः
संत्यज्य स्वगृहान् सर्वे पौराश् चानुययुर् द्रुतम् ॥

4*7

वञ्चयित्वा तु तान् पौरान् निद्राणान् निशि राघवः
वाह्यमानं सुमन्त्रेण रथम् आरुह्य चागमत् ॥

48*

श्रिङ्गिबेरपुरं गत्वा गङ्गाकूले ऽथ राघवः
गुहेन सत्कृतस् तत्र निशाम् एकाम् उवास च ॥

49*

सारथिं संनिमन्त्र्यासौ सीतालक्ष्मणसंयुतः
गुहेनानीतया नावा संततार च जाह्नवीम् ॥

50*

भरद्वाजमुनिं प्राप्य तं नत्वा तेन सत्कृतः
राघवस् तस्य निर्देशाच् चित्रकूटे ऽवसत् सुखम् ॥

51*

अयोध्यां तु ततो गत्वा सुमन्त्रः शोकविह्वलः
राज्ञे न्यवेदयत् सर्वं राघवस्य विचेष्टितम् ॥

52*

तद् आकर्ण्य सुमन्त्रोक्तं राजा दुःखविमूढधीः
राम रामेति विलपन् देहं त्यक्त्वा दिवं ययौ ॥

53*

मन्त्रिणस् तु वसिष्ठोक्त्या देहं संरक्ष्य भूपतेः
दूतैर् आनाययन् क्षिप्रं भरतं मातुलालयात् ॥

54*

भरतस् तु मृतं श्रुत्वा पितरं कैकयीगिरा
संस्कारादि चकारास्य यथाविधि सहानुजः ॥

55*

अमात्यैश् चोद्यमानो ऽपि रज्याय भरतस् तदा
वनायैव ययौ रामम् आनेतुं नागरैः सह ॥

56*

स गत्वा चित्रकूटस्थं रामं चीरजटाधरम्
ययाचे रक्षितुं राज्यं वसिष्ठाद्यैर् द्विजैः सह ॥

5*7

चतुर्दश समा नीत्वा पुनर् ऐष्याम्य् अहं पुरीम्
इत्य् उक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥

58*

गृहीत्वा पादुके तस्माद् भरतो दीनमानसः
नन्दिग्रामे स्थितस् ताभ्यां ररक्ष च वसुंधराम् ॥

59*

राघवस् तु गिरेस् तस्माद् गत्वात्रिं समवन्दत
तत्पत्नी तु तदा सीतां भूषणैः स्वैर् अभूषयत् ॥

60*

उषित्वा तु निशाम् एकाम् आश्रमे तस्य राघवः
विवेश दण्डकारण्यं सीतालक्ष्मणसंयुतः ॥

मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc