रामोदन्त · श्लोक 21*-40*
ततो वानरसंघानां वाली परिवृढो ऽभवत्
अमीभिर् अखिलैः साकं किष्किन्धाम् अध्युवास च ॥
आसीद् दशरथो नाम सूर्यवंशे ऽथ पार्थिवः
भार्यास् तिस्रो ऽपि लब्ध्वासौ तासु लेभे न संततिम् ॥
ततः सुमन्त्रवचनाद् ऋष्यशृङ्गं स भूपतिः
आनीय पुत्रकामेष्टिम् आरेभे सपुरोहितः ॥
अथाग्नेर् उत्थितः कश् चिद् गृहीत्वा पायसं चरुम्
एतत् प्राशय पत्नीस् त्वम् इत्य् उक्त्वादान् नृपाय सः ॥
तद् गृहीत्वा तदैवासौ पत्नीः प्राशयद् उत्सुकः
ताश् च तत्प्राशनाद् एव नृपाद् गर्भम् अधारयन् ॥
पूर्णे काले ऽथ कौसल्या सज्जनाम्भोजभास्करम्
अजीजनद् रामचन्द्रं कैकेयी भरतं तथा ॥
ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत् सुतौ
अकारयत् पिता तेषां जातकर्मादिकं द्विजैः ॥
ततो ववृधिरे ऽन्योन्यं स्निग्धाश् चत्वार एव ते
सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥
ततः कदा चिद् आगत्य विश्वामित्रो महामुनिः
ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ॥
वसिष्ठवचनाद् रामं लक्ष्मणेन समन्वितम्
कृच्छ्रेण नृपतिस् तस्य कौशिकस्य करे ददौ ॥
तौ गृहीत्वा ततो गच्छन् बलाम् अतिबलां तथा
अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश सः ॥
गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः
ताटकाम् अवधीद् धीमांल् लोकपीडनतत्पराम् ॥
ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः
अध्वरं च समारेभे राक्षसाश् च समागमन् ॥
राघवस् तु ततो ऽस्त्रेण क्षिप्त्वा मारीचम् अर्णवे
सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन् मुनेः ॥
कौशिकेन ततो रामो नीयमानः सहानुजः
अहल्याशापनिर्मोक्षं कृत्वा संप्राप मैथिलम् ॥
जनकेनार्चितो रामः कौशिकेन प्रचोदितः
सीतानिमित्तम् आनीतं बभञ्ज धनुर् ऐश्वरम् ॥
ततो दशरथं दूतैर् आनाय्य मिथिलाधिपः
रामादिभ्यस् तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥
ततो गुरुनियोगेन कृतोद्वाहः सहानुजः
राघवो निर्ययौ तेन जनकेनोरु मानितः ॥
तद् आकर्ण्य धनुर्भङ्गम् आयान्तं रोषभीषणम्
विजित्य भार्गवं रामम् अयोध्यां प्राप राघवः ॥
ततः सर्वजनानन्दं कुर्वाणश् चेष्टितैः स्वकैः
ताम् अध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥
मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0