रामोदन्त · श्लोक 1*-20*
श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम्
श्रीरामोदन्तम् आख्यास्ये श्रीवाल्मीकिप्रकीर्तितम् ॥
पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः
आसीद् अस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥
ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम्
वव्रिरे च वरान् इष्टान् अस्माद् आश्रितवत्सलात् ॥
रावणो मानुषाद् अन्यैर् अवध्यत्वं तथानुजः
निर्देवत्वेच्छया निद्रां कुम्भकर्णो ऽवृणीत च ॥
विभीषणो विष्णुभक्तिं वव्रे सत्त्वगुणान्वितः
तेभ्य एतान् वरान् दत्त्वा तत्रैवान्तर्दधे प्रभुः ॥
रावणस् तु ततो गत्वा रणे जित्वा धनाधिपम्
लङ्कापुरीं पुष्पकं च हृत्वा तत्रावसत् सुखम् ॥
यातुधानास् ततः सर्वे रसातलनिवासिनः
दशाननं समाश्रित्य लङ्कायां सुखम् आवसन् ॥
मन्दोदरीं मयसुतां परिणीय दशाननः
तस्याम् उत्पादयाम् आस मेघनादाह्वयं सुतम् ॥
रसां रसातलं चैव विजित्य स तु रावणः
लोकान् आक्रमयन् सर्वाञ् जहार च विलासिनीः ॥
दूषयन् वैदिकं कर्म द्विजान् अर्दयति स्म सः
आत्मजेनान्वितो युद्धे वासवं चाप्य् अपीडयत् ॥
तदीयतरुरत्नानि पुनर् आनाय्य किङ्करैः
स्थापयित्वा तु लङ्कायाम् अवसच् च चिराय सः ॥
ततस् तस्मिन्न् अवसरे विधातारं दिवौकसः
उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥
तद् आकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस् तटम्
तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥
आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम्
किम् अर्थम् आगतो ऽसि त्वं साकं देवगणैर् इति ॥
ततो दशाननात् पीडाम् अजस् तस्मै न्यवेदयत्
तच् छ्रुत्वोवाच धातारं हर्षयन् विष्टरश्रवाः ॥
अलं भयेनात्मयोने गच्छ देवगणैः सह
अहं दाशरथिर् भूत्वा हनिष्यामि दशाननम् ॥
आत्मांशैश् च सुराः सर्वे भूमौ वानररूपिणः
जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे ॥
एवम् उक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः
पद्मयोनिस् तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः ॥
अजीजनत् ततः शक्रो वालिनं नाम वानरम्
सुग्रीवम् अपि मार्ताण्डो हनुमन्तं च मारुतः ॥
पुरैव जनयाम् आस जाम्बवन्तं च पद्मजः
एवम् अन्ये च विबुधाः कपीन् अजनयन् बहून् ॥
मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0