रामोदन्त · श्लोक 101*-120*
ततो माल्यवतः पृष्ठे रामो लक्ष्मणसंयुतः
उवास चतुरो मासान् सीताविरहदुःखितः ॥
अथ रामस्य निर्देशाल् लक्ष्मणो वानराधिपम्
आनयत् प्लवगैः सार्धं हनूमत्प्रमुखैर् गिरिम् ॥
सुग्रीवो राघवं दृष्ट्वा वचनात् तस्य वानरान्
न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृष्व् अपि ॥
ततो हनुमतः पाणौ ददौ रामो ऽङ्गुलीयकम्
विश्वासाय तु वैदेह्यास् तद् गृहीत्वा स निर्ययौ ॥
ततो हनूमत्प्रमुखा वानरा दक्षिणां दिशम्
गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥
समयातिक्रमात् तत्र चक्रुः प्रायोपवेशनम्
ते ऽत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥
ततः प्रापुर् उदन्वन्तम् अङ्गदाद्याः प्लवङ्गमाः
तं विलङ्घयितुं तेषां न कश् चिद् अभवत् क्षमः ॥
स्वप्रभावप्रशंसाभिस् तदा जाम्बवदुक्तिभिः
संवर्धितो महेन्द्राद्रिम् आरुरोहानिलात्मजः ॥
अभिवन्द्याथ सकलान् अमरान् पवनात्मजः
पुप्लुवे च गिरेस् तस्माद् विलङ्घयितुम् अर्णवम् ॥
स समुल्लङ्घ्य मैनाकं सुरसाम् अभिवन्द्य च
निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥
लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः
सीतां विचिन्वन्न् अद्राक्षीन् निद्राणं निशि रावणं ॥
अपश्यंस् तत्र वैदेहीं विचिन्वानस् ततस् ततः
अशोकवनिकां गत्वा कां चिद् आर्तां ददर्श सः ॥
पादपं कं चिद् आरुह्य तत्पलाशैः सुसंवृतः
आस्ते स्म मारुतिस् तत्र सीतेयम् इति तर्कयन् ॥
रावणस् तु तदाभ्येत्य मैथिलीं मदनार्दितः
भार्या भव ममेत्य् एवं बहुधा समयाचत ॥
अहं त्वद्वशगा न स्याम् इत्य् एषा तं निराकरोत्
काममन्युपरीतात्मा रावणो ऽपि तदा ययौ ॥
निर्गते रावणे सीतां प्रलपन्तीं स मारुतिः
उक्त्वा रामस्य वृत्तान्तं प्रददौ चाङ्गुलीयकम् ॥
तत् समादाय वैदेही विलप्य च भृशं पुनः
चूडामणिं ददौ तस्य करे जग्राह सो ऽपि तम् ॥
मा विषादं कृथा देवि राघवो रावणं रणे
हत्वा त्वां नेष्यतीत्य् एनाम् आश्वास्य स विनिर्ययौ ॥
नीतिमान् सो ऽपि संचिन्त्य बभञ्जोपवनं च तत्
अक्षादीनि च रक्षांसि बहूनि समरे ऽवधीत् ॥
ततः शक्रजिता युद्धे बद्धः पवननन्दनः
प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥
मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0