रामायण · अध्याय 5.066
अथाहम् उत्तरं देव्या पुनर् उक्तः ससंभ्रमम्
तव स्नेहान् नरव्याघ्र सौहार्याद् अनुमान्य च
एवं बहुविधं वाच्यो रामो दाशरथिस् त्वया
यथा माम् आप्नुयाच् छीघ्रं हत्वा रावणम् आहवे
यदि वा मन्यसे वीर वसैकाहम् अरिंदम
कस्मिंश् चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चाप्य् अल्पभाग्यायाः साम्निध्यात् तव वानर
अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम्
गते हि त्वयि विक्रान्ते पुनरागमनाय वै
प्राणानाम् अपि संदेहो मम स्यान् नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्
दुःखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम्
अयं तु वीरसंदेहस् तिष्ठतीव ममाग्रतः
सुमहांस् त्वत्सहायेषु हर्यृक्षेषु असंशयः
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणाम् एव भूतानां सागरस्यास्य लङ्घने
शक्तिः स्याद् वैनतेयस्य वायोर् वा तव वानघ
तद् अस्मिन् कार्यनियोगे वीरैवं दुरतिक्रमे
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर
कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने
पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः
बलैः समग्रैर् यदि मां हत्वा रावणम् आहवे
विजयी स्वां पुरीं रामो नयेत् तत् स्याद् यशस्करम्
यथाहं तस्य वीरस्य वनाद् उपधिना हृता
रक्षसा तद् भयाद् एव तथा नार्हति राघवः
बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः
मां नयेद् यदि काकुत्स्थस् तत् तस्य सदृशं भवेत्
तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः
भवत्य् आहवशूरस्य तथा त्वम् उपपादय
तद् अर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्
निशम्याहं ततः शेषं वाक्यम् उत्तरम् अब्रुवम्
देवि हर्यृक्षसैन्यानाम् ईश्वरः प्लवतां वरः
सुग्रीवः सत्त्वसंपन्नस् तवार्थे कृतनिश्चयः
तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः
मनःसंकल्पसंपाता निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान् न तिर्यक् सज्जते गतिः
न च कर्मसु सीदन्ति महत्स्व् अमिततेजसः
असकृत् तैर् महाभागैर् वानरैर् बलसंयुतैः
प्रदक्षिणीकृता भूमिर् वायुमार्गानुसारिभिः
मद्विशिष्टाश् च तुल्याश् च सन्ति तत्र वनौकसः
मत्तः प्रत्यवरः कश् चिन् नास्ति सुग्रीवसंनिधौ
अहं तावद् इह प्राप्तः किं पुनस् ते महाबलाः
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
तद् अलं परितापेन देवि मन्युर् व्यपैतु ते
एकोत्पातेन ते लङ्काम् एष्यन्ति हरियूथपाः
मम पृष्ठगतौ तौ च चन्द्रसूर्याव् इवोदितौ
त्वत्सकाशं महाभागे नृसिंहाव् आगमिष्यतः
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्
लक्ष्मणं च धनुष्पाणिं लङ्का द्वारम् उपस्थितम्
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्
वानरान् वानरेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्
शैलाम्बुदन् निकाशानां लङ्कामलयसानुषु
नर्दतां कपिमुख्यानाम् अचिराच् छोष्यसे स्वनम्
निवृत्तवनवासं च त्वया सार्धम् अरिंदमम्
अभिषिक्तम् अयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्
ततो मया वाग्भिर् अदीनभाषिणी शिवाभिर् इष्टाभिर् अभिप्रसादिता
जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तथाभिपीडिता
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0