रामायण · अध्याय 5.023
तथा तासां वदन्तीनां परुषं दारुणं बहु
राक्षसीनाम् असौम्यानां रुरोद जनकात्मजा
एवम् उक्ता तु वैदेही राक्षसीभिर् मनस्विनी
उवाच परमत्रस्ता बाष्पगद्गदया गिरा
न मानुषी राक्षसस्य भार्या भवितुम् अर्हति
कामं खादत मां सर्वा न करिष्यामि वो वचः
सा राक्षसी मध्यगता सीता सुरसुतोपमा
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता
वेपते स्माधिकं सीता विशन्तीवाङ्गम् आत्मनः
वने यूथपरिभ्रष्टा मृगी कोकैर् इवार्दिता
सा त्व् अशोकस्य विपुलां शाखाम् आलम्ब्य पुष्पिताम्
चिन्तयाम् आस शोकेन भर्तारं भग्नमानसा
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः
चिन्तयन्ती न शोकस्य तदान्तम् अधिगच्छति
सा वेपमाना पतिता प्रवाते कदली यथा
राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्
तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना
आर्ता व्यसृजद् अश्रूणि मैथिली विललाप ह
हा रामेति च दुःखार्ता पुनर् हा लक्ष्मणेति च
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि
लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा
यत्राहम् आभिः क्रूराभी राक्षसीभिर् इहार्दिता
जीवामि हीना रामेण मुहूर्तम् अपि दुःखिता
एषाल्पपुण्या कृपणा विनशिष्याम्य् अनाथवत्
समुद्रमध्ये नौ पूर्णा वायुवेगैर् इवाहता
भर्तारं तम् अपश्यन्ती राक्षसीवशम् आगता
सीदामि खलु शोकेन कूलं तोयहतं यथा
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्
सर्वथा तेन हीनाया रामेण विदितात्मना
तीष्क्णं विषम् इवास्वाद्य दुर्लभं मम जीवितम्
कीदृशं तु मया पापं पुरा देहान्तरे कृतम्
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्
जीवितं त्यक्तुम् इच्छामि शोकेन महता वृता
राक्षसीभिश् च रक्षन्त्या रामो नासाद्यते मया
धिग् अस्तु खलु मानुष्यं धिग् अस्तु परवश्यताम्
न शक्यं यत् परित्यक्तुम् आत्मच्छन्देन जीवितम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0