रामायण · अध्याय 5.015
ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम्
प्रजगाम नभश् चन्द्रो हंसो नीलम् इवोदकम्
साचिव्यम् इव कुर्वन् स प्रभया निर्मलप्रभः
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्
शोकभारैर् इव न्यस्तां भारैर् नावम् इवाम्भसि
दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः
स ददर्शाविदूरस्था राक्षसीर् घोरदर्शनाः
एकाक्षीम् एककर्णां च कर्णप्रावरणां तथा
अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम्
ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्
लम्बकर्णललाटां च लम्बोदरपयोधराम्
लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम्
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा
करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम्
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः
कालायसमहाशूलकूटमुद्गरधारिणीः
वराहमृगशार्दूलमहिषाजशिवा मुखाः
गजोष्ट्रहयपादाश् च निखातशिरसो ऽपराः
एकहस्तैकपादाश् च खरकर्ण्यश्वकर्णिकाः
गोकर्णीर् हस्तिकर्णीश् च हरिकर्णीस् तथापराः
अनासा अतिनासाश् च तिर्यन् नासा विनासिकाः
गजसंनिभनासाश् च ललाटोच्छ्वासनासिकाः
हस्तिपादा महापादा गोपादाः पादचूलिकाः
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः
अतिमात्रास्य नेत्राश् च दीर्घजिह्वानखास् तथा
अजामुखीर् हस्तिमुखीर् गोमुखीः सूकरीमुखीः
हयोष्ट्रखरवक्त्राश् च राक्षसीर् घोरदर्शनाः
शूलमुद्गरहस्ताश् च क्रोधनाः कलहप्रियाः
कराला धूम्रकेशीश् च रक्षसीर् विकृताननाः
पिबन्तीः सततं पानं सदा मांससुराप्रियाः
मांसशोणितदिग्धाङ्गीर् मांसशोणितभोजनाः
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः
स्कन्धवन्तम् उपासीनाः परिवार्य वनस्पतिम्
तस्याधस्ताच् च तां देवीं राजपुत्रीम् अनिन्दिताम्
लक्षयाम् आस लक्ष्मीवान् हनूमाञ् जनकात्मजाम्
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्
क्षीणपुण्यां च्युतां भूमौ तारां निपतिताम् इव
चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्
भूषणैर् उत्तमैर् हीनां भर्तृवात्सल्यभूषिताम्
राक्षसाधिपसंरुद्धां बन्धुभिश् च विनाकृताम्
वियूथां सिंहसंरुद्धां बद्धां गजवधूम् इव
चन्द्रलेखां पयोदान्ते शारदाभ्रैर् इवावृताम्
क्लिष्टरूपाम् असंस्पर्शाद् अयुक्ताम् इव वल्लकीम्
सीतां भर्तृहिते युक्ताम् अयुक्तां रक्षसां वशे
अशोकवनिकामध्ये शोकसागरम् आप्लुताम्
ताभिः परिवृतां तत्र सग्रहाम् इव रोहिणीम्
ददर्श हनुमान् देवीं लताम् अकुसुमाम् इव
सा मलेन च दिग्धाङ्गी वपुषा चाप्य् अलंकृता
मृणाली पङ्कदिग्धेव विभाति च न भाति च
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्
संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः
तां देवीं दीनवदनाम् अदीनां भर्तृतेजसा
रक्षितां स्वेन शीलेन सीताम् असितलोचनाम्
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्
मृगकन्याम् इव त्रस्तां वीक्षमाणां समन्ततः
दहन्तीम् इव निःश्वासैर् वृक्षान् पल्लवधारिणः
संघातम् इव शोकानां दुःखस्योर्मिम् इवोत्थिताम्
तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम्
प्रहर्षम् अतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्
हर्षजानि च सो ऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्
मुमोच हनुमांस् तत्र नमश् चक्रे च राघवम्
नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान्
सीतादर्शनसंहृष्टो हनूमान् संवृतो ऽभवत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0