रामायण · अध्याय 5.014
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः
गुणाभिरामं रामं च पुनश् चिन्तापरो ऽभवत्
स मुहूर्तम् इव ध्यात्वा बाष्पपर्याकुलेक्षणः
सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया
यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः
नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्
राघवो ऽर्हति वैदेहीं तं चेयम् असितेक्षणा
तां दृष्ट्वा नवहेमाभां लोककान्ताम् इव श्रियम्
जगाम मनसा रामं वचनं चेदम् अब्रवीत्
अस्या हेतोर् विशालाक्ष्या हतो वाली महाबलः
रावणप्रतिमो वीर्ये कबन्धश् च निपातितः
विराधश् च हतः संख्ये राक्षसो भीमविक्रमः
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
निहतानि जनस्थाने शरैर् अग्निशिखोपमैः
खरश् च निहतः संख्ये त्रिशिराश् च निपातितः
दूषणश् च महातेजा रामेण विदितात्मना
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्
अस्या निमित्ते सुग्रीवः प्राप्तवांल् लोकसत्कृतम्
सागरश् च मया क्रान्तः श्रीमान् नदनदीपतिः
अस्या हेतोर् विशालाक्ष्याः पुरी चेयं निरीक्षिता
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्
अस्याः कृते जगच् चापि युक्तम् इत्य् एव मे मतिः
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः
सुता जनकराजस्य सीता भर्तृदृढव्रता
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः
विक्रान्तस्यार्यशीलस्य संयुगेष्व् अनिवर्तिनः
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः
इयं सा दयिता भार्या राक्षसी वशम् आगता
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता
अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्
संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता
या परां भजते प्रीतिं वने ऽपि भवने यथा
सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी
सहते यातनाम् एताम् अनर्थानाम् अभागिनी
इमां तु शीलसंपन्नां द्रष्टुम् इच्छति राघवः
रावणेन प्रमथितां प्रपाम् इव पिपासितः
अस्या नूनं पुनर् लाभाद् राघवः प्रीतिम् एष्यति
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्
कामभोगैः परित्यक्ता हीना बन्धुजनेन च
धारयत्य् आत्मनो देहं तत्समागमकाङ्क्षिणी
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्
एकस्थहृदया नूनं रामम् एवानुपश्यति
भर्ता नाम परं नार्या भूषणं भूषणाद् अपि
एषा हि रहिता तेन शोभनार्हा न शोभते
दुष्करं कुरुते रामो हीनो यद् अनया प्रभुः
धारयत्य् आत्मनो देहं न दुःखेनावसीदति
इमाम् असितकेशान्तां शतपत्रनिभेक्षणाम्
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः
क्षितिक्षमा पुष्करसंनिभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम्
सा राक्षसीभिर् विकृतेक्षणाभिः संरक्ष्यते संप्रति वृक्षमूले
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयत्य् अशोकाः
हिमव्यपायेन च मन्दरश्मिर् अभ्युत्थितो नैकसहस्ररश्मिः
इत्य् एवम् अर्थं कपिर् अन्ववेक्ष्य सीतेयम् इत्य् एव निविष्टबुद्धिः
संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणाम् ऋषभस् तरस्वी
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0