रामायण · अध्याय 5.012
स मुहूर्तम् इव ध्यत्वा मनसा चाधिगम्य ताम्
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः
पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्
सालान् अशोकान् भव्यांश् च चम्पकांश् च सुपुष्पितान्
उद्दालकान् नागवृक्षांश् चूतान् कपिमुखान् अपि
अथाम्रवणसंछन्नां लताशतसमावृताम्
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्
स प्रविष्य विचित्रां तां विहगैर् अभिनादिताम्
राजतैः काञ्चनैश् चैव पादपैः सर्वतोवृताम्
विहगैर् मृगसंघैश् च विचित्रां चित्रकाननाम्
उदितादित्यसंकाशां ददर्श हनुमान् कपिः
वृतां नानाविधैर् वृक्षैः पुष्पोपगफलोपगैः
कोकिलैर् भृङ्गराजैश् च मत्तैर् नित्यनिषेविताम्
प्रहृष्टमनुजे कले मृगपक्षिसमाकुले
मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्
मार्गमाणो वरारोहां राजपुत्रीम् अनिन्दिताम्
सुखप्रसुप्तान् विहगान् बोधयाम् आस वानरः
उत्पतद्भिर् द्विजगणैः पक्षैः सालाः समाहताः
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः
पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः
दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम्
दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे
वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग्विधैः
रराज वसुधा तत्र प्रमदेव विभूषिता
तरस्विना ते तरवस् तरसाभिप्रकम्पिताः
कुसुमानि विचित्राणि ससृजुः कपिना तदा
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
हनूमता वेगवता कम्पितास् ते नगोत्तमाः
पुष्पपर्णफलान्य् आशु मुमुचुः पुष्पशालिनः
विहंगसंघैर् हीनास् ते स्कन्धमात्राश्रया द्रुमाः
बभूवुर् अगमाः सर्वे मारुतेनेव निर्धुताः
विधूतकेशी युवतिर् यथा मृदितवर्णिका
निष्पीतशुभदन्तौष्ठी नखैर् दन्तैश् च विक्षता
तथा लाङ्गूलहस्तैश् च चरणाभ्यां च मर्दिता
बभूवाशोकवनिका प्रभग्नवरपादपा
महालतानां दामानि व्यधमत् तरसा कपिः
यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः
स तत्र मणिभूमीश् च राजतीश् च मनोरमाः
तथा काञ्चनभूमीश् च विचरन् ददृशे कपिः
वापीश् च विविधाकाराः पूर्णाः परमवारिणा
महार्हैर् मणिसोपानैर् उपपन्नास् ततस् ततः
मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः
काञ्चनैस् तरुभिश् चित्रैस् तीरजैर् उपशोभिताः
फुल्लपद्मोत्पलवनाश् चक्रवाकोपकूजिताः
नत्यूहरुतसंघुष्टा हंससारसनादिताः
दीर्घाभिर् द्रुमयुक्ताभिः सरिद्भिश् च समन्ततः
अमृतोपमतोयाभिः शिवाभिर् उपसंस्कृताः
लताशतैर् अवतताः सन्तानकसमावृताः
नानागुल्मावृतवनाः करवीरकृतान्तराः
ततो ऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्
विचित्रकूटं कूटैश् च सर्वतः परिवारितम्
शिलागृहैर् अवततं नानावृक्षैः समावृतम्
ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्
ददर्श च नगात् तस्मान् नदीं निपतितां कपिः
अङ्काद् इव समुत्पत्य प्रियस्य पतितां प्रियाम्
जले निपतिताग्रैश् च पादपैर् उपशोभिताम्
वार्यमाणाम् इव क्रुद्धां प्रमदां प्रियबन्धुभिः
पुनर् आवृत्ततोयां च ददर्श स महाकपिः
प्रसन्नाम् इव कान्तस्य कान्तां पुनर् उपस्थिताम्
तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः
ददर्श कपिशार्दूलो हनुमान् मारुतात्मजः
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा
मणिप्रवरसोपानां मुक्तासिकतशोभिताम्
विविधैर् मृगसंघैश् च विचित्रां चित्रकाननाम्
प्रासादैः सुमहद्भिश् च निर्मितैर् विश्वकर्मणा
काननैः कृत्रिमैश् चापि सर्वतः समलंकृताम्
ये के चित् पादपास् तत्र पुष्पोपगफलोपगाः
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः
लताप्रतानैर् बहुभिः पर्णैश् च बहुभिर् वृताम्
काञ्चनीं शिंशुपाम् एकां ददर्श स महाकपिः
सो ऽपश्यद् भूमिभागांश् च गर्तप्रस्रवणानि च
सुवर्णवृक्षान् अपरान् ददर्श शिखिसंनिभान्
तेषां द्रुमाणां प्रभया मेरोर् इव महाकपिः
अमन्यत तदा वीरः काञ्चनो ऽस्मीति वानरः
तां काञ्चनैस् तरुगणैर् मारुतेन च वीजिताम्
किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयम् आगमत्
सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम्
ताम् आरुह्य महावेगः शिंशपां पर्णसंवृताम्
इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम्
इतश् चेतश् च दुःखार्तां संपतन्तीं यदृच्छया
अशोकवनिका चेयं दृढं रम्या दुरात्मनः
चम्पकैश् चन्दनैश् चापि बकुलैश् च विभूषिता
इयं च नलिनी रम्या द्विजसंघनिषेविता
इमां सा राममहिषी नूनम् एष्यति जानकी
सा राम राममहिषी राघवस्य प्रिया सदा
वनसंचारकुशला नूनम् एष्यति जानकी
अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा
वनम् एष्यति सा चेह रामचिन्तानुकर्शिता
रामशोकाभिसंतप्ता सा देवी वामलोचना
वनवासरता नित्यम् एष्यते वनचारिणी
वनेचराणां सततं नूनं स्पृहयते पुरा
रामस्य दयिता भार्या जनकस्य सुता सती
संध्याकालमनाः श्यामा ध्रुवम् एष्यति जानकी
नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी
तस्याश् चाप्य् अनुरूपेयम् अशोकवनिका शुभा
शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता
यदि जिवति सा देवी ताराधिपनिभानना
आगमिष्यति सावश्यम् इमां शिवजलां नदीम्
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्
अवेक्षमाणश् च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0