रामायण · अध्याय 4.048
अथाङ्गदस् तदा सर्वान् वानरान् इदम् अब्रवीत्
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर् वचः
वनानि गिरयो नद्यो दुर्गाणि गहनानि च
दर्यो गिरिगुहाश् चैव विचिता नः समन्ततः
तत्र तत्र सहास्माभिर् जानकी न च दृश्यते
तद् वा रक्षो हृता येन सीता सुरसुतोपमा
कालश् च नो महान् यातः सुग्रीवश् चोग्रशासनः
तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्
अनिर्वेदं च दाक्ष्यं च मनसश् चापराजयम्
कार्यसिद्धिकराण्य् आहुस् तस्माद् एतद् ब्रवीम्य् अहम्
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः
खेदं त्यक्त्वा पुनः सर्वं वनम् एतद् विचीयताम्
अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्
अलं निर्वेदम् आगम्य न हि नो मलिनं क्षमम्
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश् च वानराः
भेतव्यं तस्य सततं रामस्य च महात्मनः
हितार्थम् एतद् उक्तं वः क्रियतां यदि रोचते
उच्यतां वा क्षमं यन् नः सर्वेषाम् एव वानराः
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः
उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया
सदृशं खलु वो वाक्यम् अङ्गदो यद् उवाच ह
हितं चैवानुकूलं च क्रियताम् अस्य भाषितम्
पुनर् मार्गामहे शैलान् कन्दरांश् च दरीस् तथा
काननानि च शून्यानि गिरिप्रस्रवणानि च
यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः
ततः समुत्थाय पुनर् वानरास् ते महाबलाः
विन्ध्यकाननसंकीर्णां विचेरुर् दक्षिणां दिशम्
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्
शृङ्गवन्तं दरीवन्तम् अधिरुह्य च वानराः
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च
विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः
तस्याग्रम् अधिरूढास् ते श्रान्ता विपुलविक्रमाः
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्
ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्
अवारोहन्त हरयो वीक्षमाणाः समन्ततः
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलम् उपाश्रिताः
ते मुहूर्तं समाश्वस्ताः किं चिद् भग्नपरिश्रमाः
पुनर् एवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्
हनुमत्प्रमुखास् ते तु प्रस्थिताः प्लवगर्षभाः
विन्ध्यम् एवादितस् तावद् विचेरुस् ते समन्ततः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0