भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 4.027

4.027.001

स तदा वालिनं हत्वा सुग्रीवम् अभिषिच्य च
वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत्

4.027.002

अयं स कालः संप्राप्तः समयो ऽद्य जलागमः
संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः

4.027.003

नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्

4.027.004

शक्यम् अम्बरम् आरुह्य मेघसोपानपङ्क्तिभिः
कुटजार्जुनमालाभिर् अलंकर्तुं दिवाकरम्

4.027.005

संध्यारागोत्थितैस् ताम्रैर् अन्तेष्व् अधिकपाण्डुरैः
स्निग्धैर् अभ्रपटच्छदैर् बद्धव्रणम् इवाम्बरम्

4.027.006

मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम्
आपाण्डुजलदं भाति कामातुरम् इवाम्बरम्

4.027.007

एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता
सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति

4.027.008

मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः
शक्यम् अञ्जलिभिः पातुं वाताः केतकिगन्धिनः

4.027.009

एष फुल्लार्जुनः शैलः केतकैर् अधिवासितः
सुग्रीव इव शान्तारिर् धाराभिर् अभिषिच्यते

4.027.010

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः
मारुतापूरितगुहाः प्राधीता इव पर्वताः

4.027.011

कशाभिर् इव हैमीभिर् विद्युद्भिर् इव ताडितम्
अन्तःस्तनितनिर्घोषं सवेदनम् इवाम्बरम्

4.027.012

नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे
स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी

4.027.013

इमास् ता मन्मथवतां हिताः प्रतिहता दिशः
अनुलिप्ता इव घनैर् नष्टग्रहनिशाकराः

4.027.014

क्व चिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्
कुटजान् पश्य सौमित्रे पुष्टितान् गिरिसानुषु
मम शोकाभिभूतस्य कामसंदीपनान् स्थितान्

4.027.015

रजः प्रशान्तं सहिमो ऽद्य वायुर् निदाघदोषप्रसराः प्रशान्ताः
स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्

4.027.016

संप्रस्थिता मानसवासलुब्धाः प्रियान्विताः संप्रति चक्रवाकः
अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति

4.027.017

क्व चित् प्रकाशं क्व चिद् अप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति
क्व चित् क्व चित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य

4.027.018

व्यामिश्रितं सर्जकदम्बपुष्पैर् नवं जलं पर्वतधातुताम्रम्
मयूरकेकाभिर् अनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति

4.027.019

रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम्
अनेकवर्णं पवनावधूतं भूमौ पतत्य् आम्रफलं विपक्वम्

4.027.020

विद्युत्पताकाः सबलाक मालाः शैलेन्द्रकूटाकृतिसंनिकाशाः
गर्जन्ति मेघाः समुदीर्णनादा मत्तगजेन्द्रा इव संयुगस्थः

4.027.021

मेघाभिकामी परिसंपतन्ती संमोदिता भाति बलाकपङ्क्तिः
वातावधूता वरपौण्डरीकी लम्बेव माला रचिताम्बरस्य

4.027.022

निद्रा शनैः केशवम् अभ्युपैति द्रुतं नदी सागरम् अभ्युपैति
हृष्टा बलाका घनम् अभ्युपैति कान्ता सकामा प्रियम् अभ्युपैति

4.027.023

जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः
जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा

4.027.024

वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति
नद्यो घना मत्तगजा वनान्ताः प्रियाविनीहाः शिखिनः प्लवंगाः

4.027.025

प्रहर्षिताः केतकपुष्पगन्धम् आघ्राय हृष्टा वननिर्झरेषु
प्रपात शब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति

4.027.026

धारानिपातैर् अभिहन्यमानाः कदम्बशाखासु विलम्बमानाः
क्षणार्जितं पुष्परसावगाढं शनैर् मदं षट्चरणास् त्यजन्ति

4.027.027

अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्त रसैः समृद्धैः
जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः

4.027.028

तडित्पताकाभिर् अलंकृतानाम् उदीर्णगम्भीरमहारवाणाम्
विभान्ति रूपाणि बलाहकानां रणोद्यतानाम् इव वारणानाम्

4.027.029

मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य
युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः

4.027.030

मुक्तासकाशं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम्
हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति

4.027.031

नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रविभान्ति सक्ताः
दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः

4.027.032

मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः
रम्या नगेन्द्रा निभृता नगेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः

4.027.033

वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते
वैराणि चैव मार्गाश् च सलिलेन समीकृताः

4.027.034

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्
अयम् अध्यायसमयः सामगानाम् उपस्थितः

4.027.035

निवृत्तकर्मायतनो नूनं संचितसंचयः
आषाढीम् अभ्युपगतो भरतः कोषकाधिपः

4.027.036

नूनम् आपूर्यमाणायाः सरय्वा वधते रयः
मां समीक्ष्य समायान्तम् अयोध्याया इव स्वनः

4.027.037

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखम् अश्नुते
विजितारिः सदारश् च राज्ये महति च स्थितः

4.027.038

अहं तु हृतदारश् च राज्याच् च महतश् च्युतः
नदीकूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण

4.027.039

शोकश् च मम विस्तीर्णो वर्षाश् च भृशदुर्गमाः
रावणश् च महाञ् शत्रुर् अपारं प्रतिभाति मे

4.027.040

अयात्रां चैव दृष्ट्वेमां मार्गांश् च भृशदुर्गमान्
प्रणते चैव सुग्रीवे न मया किं चिद् ईरितम्

4.027.041

अपि चातिपरिक्लिष्टं चिराद् दारैः समागतम्
आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्

4.027.042

स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम्
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः

4.027.043

तस्मात् कालप्रतीक्षो ऽहं स्थितो ऽस्मि शुभलक्षण
सुग्रीवस्य नदीनां च प्रसादम् अनुपालयन्

4.027.044

उपकारेण वीरो हि प्रतिकारेण युज्यते
अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः

4.027.045

अथैवम् उक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस् तत् प्रतिपूज्य भाषितम्
उवाच रामं स्वभिराम दर्शनं प्रदर्शयन् दर्शनम् आत्मनः शुभम्

4.027.046

यथोक्तम् एतत् तव सर्वम् ईप्सितं नरेन्द्र कर्ता नचिराद् धरीश्वरः
शरत्प्रतीक्षः क्षमताम् इमं भवाञ् जलप्रपातं रिपुनिग्रहे धृतः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc