रामायण · अध्याय 4.015
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः
शुश्रावान्तःपुरगतो वाली भ्रातुर् अमर्षणः
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्
मदश् चैकपदे नष्टः क्रोधश् चापतितो महान्
स तु रोषपरीताङ्गो वाली संध्यातपप्रभः
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः
वाली दंष्ट्रा करालस् तु क्रोधाद् दीप्ताग्निसंनिभः
भात्य् उत्पतितपद्माभः समृणाल इव ह्रदः
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः
वेगेन चरणन्यासैर् दारयन्न् इव मेदिनीम्
तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा
उवाच त्रस्तसंभ्रान्ता हितोदर्कम् इदं वचः
साधु क्रोधम् इमं वीर नदी वेगम् इवागतम्
शयनाद् उत्थितः काल्यं त्यज भुक्ताम् इव स्रजम्
सहसा तव निष्क्रामो मम तावन् न रोचते
श्रूयताम् अभिधास्यामि यन्निमित्तं निवार्यसे
पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि
निष्पत्य च निरस्तस् ते हन्यमानो दिशो गतः
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः
इहैत्य पुनर् आह्वानं शङ्कां जनयतीव मे
दर्पश् च व्यवसायश् च यादृशस् तस्य नर्दतः
निनादस्य च संरम्भो नैतद् अल्पं हि कारणम्
नासहायम् अहं मन्ये सुग्रीवं तम् इहागतम्
अवष्टब्धसहायश् च यम् आश्रित्यैष गर्जति
प्रकृत्या निपुणश् चैव बुद्धिमांश् चैव वानरः
अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति
पूर्वम् एव मया वीर श्रुतं कथयतो वचः
अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः
तव भ्रातुर् हि विख्यातः सहायो रणकर्कशः
रामः परबलामर्दी युगान्ताग्निर् इवोत्थितः
निवासवृक्षः साधूनाम् आपन्नानां परा गतिः
आर्तानां संश्रयश् चैव यशसश् चैकभाजनम्
ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः
धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान्
तत्क्षमं न विरोधस् ते सह तेन महात्मना
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु
शूर वक्ष्यामि ते किं चिन् न चेच्छाम्य् अभ्यसूयितुम्
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद् धितम्
यौवराज्येन सुग्रीवं तूर्णं साध्व् अभिषेचय
विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा
अहं हि ते क्षमं मन्ये तव रामेण सौहृदम्
सुग्रीवेण च संप्रीतिं वैरम् उत्सृज्य दूरतः
लालनीयो हि ते भ्राता यवीयान् एष वानरः
तत्र वा सन्न् इहस्थो वा सर्वथा बन्धुर् एव ते
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0