भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.026

3.026.001

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः
राक्षसस् त्रिशिरा नाम संनिपत्येदम् अब्रवीत्

3.026.002

मां नियोजय विक्रान्त संनिवर्तस्व साहसात्
पश्य रामं महाबाहुं संयुगे विनिपातितम्

3.026.003

प्रतिजानामि ते सत्यम् आयुधं चाहम् आलभे
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्

3.026.004

अहं वास्य रणे मृत्युर् एष वा समरे मम
विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव

3.026.005

प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि
मयि वा निहते रामं संयुगायोपयास्यसि

3.026.006

खरस् त्रिशिरसा तेन मृत्युलोभात् प्रसादितः
गच्छ युध्येत्य् अनुज्ञातो राघवाभिमुखो ययौ

3.026.007

त्रिशिराश् च रथेनैव वाजियुक्तेन भास्वता
अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः

3.026.008

शरधारा समूहान् स महामेघ इवोत्सृजन्
व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः

3.026.009

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः
धनुषा प्रतिजग्राह विधुन्वन् सायकाञ् शितान्

3.026.010

स संप्रहारस् तुमुलो राम त्रिशिरसोर् महान्
बभूवातीव बलिनोः सिंहकुञ्जरयोर् इव

3.026.011

ततस् त्रिशिरसा बाणैर् ललाटे ताडितस् त्रिभिः
अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत्

3.026.012

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्
पुष्पैर् इव शरैर् यस्य ललाटे ऽस्मि परिक्षतः
ममापि प्रतिगृह्णीष्व शरांश् चापगुणच्युतान्

3.026.013

एवम् उक्त्वा तु संरब्धः शरान् आशीविषोपमान्
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश

3.026.014

चतुर्भिस् तुरगान् अस्य शरैः संनतपर्वभिः
न्यपातयत तेजस्वी चतुरस् तस्य वाजिनः

3.026.015

अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्
रामश् चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्

3.026.016

ततो हतरथात् तस्माद् उत्पतन्तं निशाचरम्
बिभेद रामस् तं बाणैर् हृदये सो ऽभवज् जडः

3.026.017

सायकैश् चाप्रमेयात्मा सामर्षस् तस्य रक्षसः
शिरांस्य् अपातयत् त्रीणि वेगवद्भिस् त्रिभिः शतैः

3.026.018

स भूमौ शोणितोद्गारी रामबाणाभिपीडितः
न्यपतत् पतितैः पूर्वं स्वशिरोभिर् निशाचरः

3.026.019

हतशेषास् ततो भग्ना राक्षसाः खरसंश्रयाः
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव

3.026.020

तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्
रामम् एवाभिदुद्राव राहुश् चन्द्रमसं यथा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc