भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.025

3.025.001

तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्
प्रतिजग्राह धर्मात्मा राघवस् तीक्ष्णसायकैः

3.025.002

प्रतिगृह्य च तद् वरं निमीलित इवर्षभः
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्

3.025.003

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा
शरैर् अभ्यकिरत् सैन्यं सर्वतः सहदूषणम्

3.025.004

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्

3.025.005

वेष्टितं काञ्चनैः पट्टैर् देवसैन्याभिमर्दनम्
आयसैः शङ्कुभिस् तीक्ष्णैः कीर्णं परवसोक्षिताम्

3.025.006

वज्राशनिसमस्पर्शं परगोपुरदारणम्
तं महोरगसंकाशं प्रगृह्य परिघं रणे
दूषणो ऽभ्यपतद् रामं क्रूरकर्मा निशाचरः

3.025.007

तस्याभिपतमानस्य दूषणस्य स राघवः
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ

3.025.008

भ्रष्टस् तस्य महाकायः पपात रणमूर्धनि
परिघश् छिन्नहस्तस्य शक्रध्वज इवाग्रतः

3.025.009

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः

3.025.010

दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे
साधु साध्व् इति काकुत्स्थं सर्वभूतान्य् अपूजयन्

3.025.011

एतस्मिन्न् अन्तरे क्रुद्धास् त्रयः सेनाग्रयायिनः
संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः

3.025.012

महाकपालो विपुलं शूलम् उद्यम्य राक्षसः
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्

3.025.013

दृष्ट्वैवापततस् तांस् तु राघवः सायकैः शितैः
तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव

3.025.014

महाकपालस्य शिरश् चिच्छेद रघुनङ्गनः
असंख्येयैस् तु बाणौघैः प्रममाथ प्रमाथिनम्

3.025.015

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयाम् आस सायकैः
स पपात हतो भूमौ विटपीव महाद्रुमः

3.025.016

ततः पावकसंकाशैर् हेमवज्रविभूषितैः
जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः

3.025.017

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः
निजघ्नुस् तानि रक्षांसि वज्रा इव महाद्रुमान्

3.025.018

रक्षसां तु शतं रामः शतेनैकेन कर्णिना
सहस्रं च सहस्रेण जघान रणमूर्धनि

3.025.019

तैर् भिन्नवर्माभरणाश् छिन्नभिन्नशरासनाः
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः

3.025.020

तैर् मुक्तकेशैः समरे पतितैः शोणितोक्षितैः
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैर् इव

3.025.021

क्षणेन तु महाघोरं वनं निहतराक्षसं
बभूव निरय प्रख्यं मांसशोणितकर्दमम्

3.025.022

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
हतान्य् एकेन रामेण मानुषेण पदातिना

3.025.023

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः
राक्षसस् त्रिशिराश् चैव रामश् च रिपुसूदनः

3.025.024

ततस् तु तद् भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा
रथेन रामं महता खरस् ततः समाससादेन्द्र इवोद्यताशनिः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc