रामायण · अध्याय 3.003
अथोवाच पुनर् वाक्यं विराधः पूरयन् वनम्
आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः
तम् उवाच ततो रामो राक्षसं ज्वलिताननम्
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलम् आत्मनः
क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ
त्वां तु वेदितुम् इच्छावः कस् त्वं चरसि दण्डकान्
तम् उवाच विराधस् तु रामं सत्यपराक्रमम्
हन्त वक्ष्यामि ते राजन् निबोध मम राघव
पुत्रः किल जयस्याहं माता मम शतह्रदा
विराध इति माम् आहुः पृथिव्यां सर्वराक्षसाः
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा
शस्त्रेणावध्यता लोके ऽच्छेद्याभेद्यत्वम् एव च
उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथागतम्
त्वरमाणौ पालयेथां न वां जीवितम् आददे
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः
राक्षसं विकृताकारं विराधं पापचेतसं
क्षुद्र धिक् त्वां तु हीनार्थं मृत्युम् अन्वेषसे ध्रुवम्
रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि
ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ् शरान्
सुशीघ्रम् अभिसंधाय राक्षसं निजघान ह
धनुषा ज्यागुणवता सप्तबाणान् मुमोच ह
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान्
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः
स विनद्य महानादं शूलं शक्रध्वजोपमम्
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः
तच् छूलं वज्रसंकाशं गगने ज्वलनोपमम्
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः
तस्य रौद्रस्य सौमित्रिर् बाहुं सव्यं बभञ्ज ह
रामस् तु दक्षिणं बाहुं तरसा तस्य रक्षसः
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः
धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्
कौसल्या सुप्रजास् तात रामस् त्वं विदितो मया
वैदेही च महाभागा लक्ष्मणश् च महायशाः
अभिशापाद् अहं घोरां प्रविष्टो राक्षसीं तनुम्
तुम्बुरुर् नाम गन्धर्वः शप्तो वैश्वरणेन हि
प्रसाद्यमानश् च मया सो ऽब्रवीन् मां महायशाः
यदा दाशरथी रामस् त्वां वधिष्यति संयुगे
तदा प्रकृतिम् आपन्नो भवान् स्वर्गं गमिष्यति
इति वैश्रवणो राजा रम्भासक्तम् उवाच ह
अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह
तव प्रसादान् मुक्तो ऽहम् अभिशापात् सुदारुणात्
भवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परंतप
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्
अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः
तं क्षिप्रम् अभिगच्छ त्वं स ते श्रेयो विधास्यति
अवटे चापि मां राम निक्षिप्य कुशली व्रज
रक्षसां गतसत्त्वानाम् एष धर्मः सनातनः
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः
एवम् उक्त्वा तु काकुत्स्थं विराधः शरपीडितः
बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः
तं मुक्तकण्ठम् उत्क्षिप्य शङ्कुकर्णं महास्वनम्
विराधं प्राक्षिपच् छ्वभ्रे नदन्तं भैरवस्वनम्
ततस् तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्
विजह्रतुस् तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराव् इव
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0