रामायण · अध्याय 3.002
कृतातिथ्यो ऽथ रामस् तु सूर्यस्योदयनं प्रति
आमन्त्र्य स मुनीन् सर्वान् वनम् एवान्वगाहत
नानामृगगणाकीर्णं शार्दूलवृकसेवितम्
ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम्
निष्कूजनानाशकुनि झिल्लिका गणनादितम्
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह
वनमध्ये तु काकुत्स्थस् तस्मिन् घोरमृगायुते
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्
गभीराक्षं महावक्त्रं विकटं विषमोदरम्
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्
वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम्
त्रासनं सर्वभूतानां व्यादितास्यम् इवान्तकम्
त्रीन् सिंहांश् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश
सविषाणं वसादिग्धं गजस्य च शिरो महत्
अवसज्यायसे शूले विनदन्तं महास्वनम्
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः
स कृत्वा भैरवं नादं चालयन्न् इव मेदिनीम्
अङ्गेनादाय वैदेहीम् अपक्रम्य ततो ऽब्रवीत्
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ
कथं तापसयोर् वां च वासः प्रमदया सह
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ
अहं वनम् इदं दुर्गं विराघो नाम राक्षसः
चरामि सायुधो नित्यम् ऋषिमांसानि भक्षयन्
इयं नारी वरारोहा मम भर्या भविष्यति
युवयोः पापयोश् चाहं पास्यामि रुधिरं मृधे
तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः
श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा
सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्
अब्रवील् लक्ष्मणं वाक्यं मुखेन परिशुष्यता
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम्
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्
अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम्
यद् अभिप्रेतम् अस्मासु प्रियं वर वृतं च यत्
कैकेय्यास् तु सुसंवृत्तं क्षिप्रम् अद्यैव लक्ष्मण
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम्
अद्येदानीं सकामा सा या माता मम मध्यमा
परस्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे
पितुर् विनाशात् सौमित्रे स्वराज्यहरणात् तथा
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते
अब्रवील् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्
अनाथ इव भूतानां नाथस् त्वं वासवोपमः
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः
विराधस्य गतासोर् हि मही पास्यति शोणितम्
राज्यकामे मम क्रोधो भरते यो बभूव ह
तं विराधे विमोक्ष्यामि वज्री वज्रम् इवाचले
मम भुजबलवेगवेगितः पततु शरो ऽस्य महान् महोरसि
व्यपनयतु तनोश् च जीवितं पततु ततश् च महीं विघूर्णितः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0