रामायण · अध्याय 2.074
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः
स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः
तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः
कूपकाराः सुधाकारा वंशकर्मकृतस् तथा
समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे
स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान्
अशोभत महावेगः सागरस्येव पर्वणि
ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः
करणैर् विविधोपेतैः पुरस्तात् संप्रतस्थिरे
लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च
जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान्
अवृक्षेषु च देशेषु के चिद् वृक्षान् अरोपयन्
के चित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्व चित् क्व चित्
अपरे वीरणस्तम्बान् बलिनो बलवत्तराः
विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः
अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम्
निम्नभागांस् तथा के चित् समांश् चक्रुः समन्ततः
बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा
बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा
अचिरेणैव कालेन परिवाहान् बहूदकान्
चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून्
उदपानान् बहुविधान् वेदिका परिमण्डितान्
ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः
मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः
चन्दनोदकसंसिक्तो नानाकुसुमभूषितः
बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः
आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः
रमणीयेषु देशेषु बहुस्वादुफलेषु च
यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः
भूयस् तं शोभयाम् आसुर् भूषाभिर् भूषणोपमम्
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः
निवेशं स्थापयाम् आसुर् भरतस्य महात्मनः
बहुपांसुचयाश् चापि परिखापरिवारिताः
तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः
प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः
पताका शोभिताः सर्वे सुनिर्मितमहापथाः
विसर्पद्भिर् इवाकाशे विटङ्काग्रविमानकैः
समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः
जाह्नवीं तु समासाद्य विविधद्रुम काननाम्
शीतलामलपानीयां महामीनसमाकुलाम्
सचन्द्रतारागणमण्डितं यथा नभःक्षपायाम् अमलं विराजते
नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0