रामायण · अध्याय 2.030
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे
मालादामभिर् आसक्ते सीतया समलंकृते
ततः प्रासादहर्म्याणि विमानशिखराणि च
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत्
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम्
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः
ऊचुर् बहुविधा वाचः शोकोपहतचेतसः
यं यान्तम् अनुयाति स्म चतुरङ्गबलं महत्
तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः
ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः
नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात्
या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि
ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः
अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम्
वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम्
अद्य नूनं दशरथः सत्त्वम् आविश्य भाषते
न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति
निर्गुणस्यापि पुत्रस्या काथं स्याद् विप्रवासनम्
किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम्
आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः शमः
राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम्
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्
पीडया पीडितं सर्वं जगद् अस्य जगत्पतेः
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः
गच्छन्तम् अनुगच्छामो येन गच्छति राघवः
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च
एकदुःखसुखा रामम् अनुगच्छाम धार्मिकम्
समुद्धृतनिधानानि परिध्वस्ताजिराणि च
उपात्तधनधान्यानि हृतसाराणि सर्वशः
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्
वनं नगरम् एवास्तु येन गच्छति राघवः
अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम्
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च
इत्य् एवं विविधा वाचो नानाजनसमीरिताः
शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसं
प्रतीक्षमाणो ऽभिजनं तदार्तम् अनार्तरूपः प्रहसन्न् इवाथ
जगाम रामः पितरं दिदृक्षुः पितुर् निदेशं विधिवच् चिकीर्षुः
तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनम् आर्तरूपम्
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर् महात्मा प्रतिहारणार्थम्
पितुर् निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् निवेदयस्वागमनं नृपाय मे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0