भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 2.014

2.014.001

स तद् अन्तःपुरद्वारं समतीत्य जनाकुलम्
प्रविविक्तां ततः कक्ष्याम् आससाद पुराणवित्

2.014.002

प्रासकार्मुकबिभ्रद्भिर् युवभिर् मृष्टकुण्डलैः
अप्रमादिभिर् एकाग्रैः स्वनुरक्तैर् अधिष्ठिताम्

2.014.003

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान्

2.014.004

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः
सहभार्याय रामाय क्षिप्रम् एवाचचक्षिरे

2.014.005

प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरं पितुः
तत्रैवानाययाम् आस राघवः प्रियकाम्यया

2.014.006

तं वैश्रवणसंकाशम् उपविष्टं स्वलंकृतम्
दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे

2.014.007

वराहरुधिराभेण शुचिना च सुगन्धिना
अनुलिप्तं परार्ध्येन चन्दनेन परंतपम्

2.014.008

स्थितया पार्श्वतश् चापि वालव्यजनहस्तया
उपेतं सीतया भूयश् चित्रया शशिनं यथा

2.014.009

तं तपन्तम् इवादित्यम् उपपन्नं स्वतेजसा
ववन्दे वरदं बन्दी नियमज्ञो विनीतवत्

2.014.010

प्राञ्जलिस् तु सुखं पृष्ट्वा विहारशयनासने
राजपुत्रम् उवाचेदं सुमन्त्रो राजसत्कृतः

2.014.011

कौसल्या सुप्रभा देव पिता त्वं द्रष्टुम् इच्छति
महिष्या सह कैकेय्या गम्यतां तत्र माचिरम्

2.014.012

एवम् उक्तस् तु संहृष्टो नरसिंहो महाद्युतिः
ततः संमानयाम् आस सीताम् इदम् उवाच ह

2.014.013

देवि देवश् च देवी च समागम्य मदन्तरे
मन्त्रेयेते ध्रुवं किं चिद् अभिषेचनसंहितम्

2.014.014

लक्षयित्वा ह्य् अभिप्रायं प्रियकामा सुदक्षिणा
संचोदयति राजानं मदर्थं मदिरेक्षणा

2.014.015

यादृशी परिषत् तत्र तादृशो दूत आगतः
ध्रुवम् अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति

2.014.016

हन्त शीघ्रम् इतो गत्वा द्रक्ष्यामि च महीपतिः
सह त्वं परिवारेण सुखम् आस्स्व रमस्य च

2.014.017

पतिसंमानिता सीता भर्तारम् असितेक्षणा
आद्वारम् अनुवव्राज मङ्गलान्य् अभिदध्युषी

2.014.018

स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च
ततः पावकसंकाशम् आरुरोह रथोत्तमम्

2.014.019

मुष्णन्तम् इव चक्षूंषि प्रभया हेमवर्चसं
करेणुशिशुकल्पैश् च युक्तं परमवाजिभिः

2.014.020

हरियुक्तं सहस्राक्षो रथम् इन्द्र इवाशुगम्
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया

2.014.021

स पर्जन्य इवाकाशे स्वनवान् अभिनादयन्
निकेतान् निर्ययौ श्रीमान् महाभ्राद् इव चन्द्रमाः

2.014.022

छत्रचामरपाणिस् तु लक्ष्मणो राघवानुजः
जुगोप भ्रातरं भ्राता रथम् आस्थाय पृष्ठतः

2.014.023

ततो हलहलाशब्दस् तुमुलः समजायत
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः

2.014.024

स राघवस् तत्र कथाप्रलापं शुश्राव लोकस्य समागतस्य
आत्माधिकारा विविधाश् च वाचः प्रहृष्टरूपस्य पुरे जनस्य

2.014.025

एष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद् विपुलां गमिष्यन्
एते वयं सर्वसमृद्धकामा येषाम् अयं नो भविता प्रशास्ता
लाभो जनस्यास्य यद् एष सर्वं प्रपत्स्यते राष्ट्रम् इदं चिराय

2.014.026

स घोषवद्भिश् च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः
महीयमानः प्रवरैश् च वादकैर् अभिष्टुतो वैश्रवणो यथा ययौ

2.014.027

करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्
प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc