रामायण · अध्याय 2.008
मन्थरा त्व् अभ्यसूय्यैनाम् उत्सृज्याभरणं च तत्
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
हर्षं किम् इदम् अस्थाने कृतवत्य् असि बालिशे
शोकसागरमध्यस्थम् आत्मानं नावबुध्यसे
सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्
उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः
अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरतक्षये
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः
रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह
धर्मज्ञो गुरुभिर् दान्तः कृतज्ञः सत्यवाक् शुचिः
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति
भ्रातॄन् भृत्यांश् च दीर्घायुः पितृवत् पालयिष्यति
संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्
भरतश् चापि रामस्य ध्रुवं वर्षशतात् परम्
पितृपैतामहं राज्यम् अवाप्स्यति नरर्षभः
सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे
भविष्यति च कल्याणे किमर्थं परितप्यसे
कौसल्यातो ऽतिरिक्तं च स तु शुश्रूषते हि माम्
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता
दीर्घम् उष्णं विनिःश्वस्य कैकेयीम् इदम् अब्रवीत्
अनर्थदर्शिनी मौर्ख्यान् नात्मानम् अवबुध्यसे
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
भविता राघवो राजा राघवस्य च यः सुतः
राजवंशात् तु भरतः कैकेयि परिहास्यते
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि
स्थाप्यमानेषु सर्वेषु सुमहान् अनयो भवेत्
तस्माज् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः
स्थापयन्त्य् अनवद्याङ्गि गुणवत्स्व् इतरेष्व् अपि
असाव् अत्यन्तनिर्भग्नस् तव पुत्रो भविष्यति
अनाथवत् सुखेभ्यश् च राजवंशाच् च वत्सले
साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुम् इच्छसि
ध्रुवं तु भरतं रामः प्राप्य राज्यम् अकण्टकम्
देशान्तरं नाययिता लोकान्तरम् अथापि वा
बाल एव हि मातुल्यं भरतो नायितस् त्वया
संनिकर्षाच् च सौहार्दं जायते स्थावरेष्व् अपि
गोप्ता हि रामं सौमित्रिर् लक्ष्मणं चापि राघवः
अश्विनोर् इव सौभ्रात्रं तयोर् लोकेषु विश्रुतम्
तस्मान् न लक्ष्मणे रामः पापं किं चित् करिष्यति
रामस् तु भरते पापं कुर्याद् इति न संशयः
तस्माद् राजगृहाद् एव वनं गच्छतु ते सुतः
एतद् धि रोचते मह्यं भृशं चापि हितं तव
एवं ते ज्ञातिपक्षस्य श्रेयश् चैव भविष्यति
यदि चेद् भरतो धर्मात् पित्र्यं राज्यम् अवाप्स्यति
स ते सुखोचितो बालो रामस्य सहजो रिपुः
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे
अभिद्रुतम् इवारण्ये सिंहेन गजयूथपम्
प्रच्छाद्यमानं रामेण भरतं त्रातुम् अर्हसि
दर्पान् निराकृता पूर्वं त्वया सौभाग्यवत्तया
राममाता सपत्नी ते कथं वैरं न यातयेत्
यदा हि रामः पृथिवीम् अवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति
अतो हि संचिन्तय राज्यम् आत्मजे परस्य चाद्यैव विवासकारणम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0