रामायण · अध्याय 2.006
गते पुरोहिते रामः स्नातो नियतमानसः
सह पत्न्या विशालाक्ष्या नारायणम् उपागमत्
प्रगृह्य शिरसा पात्रीं हविषो विधिवत् तदा
महते दैवतायाज्यं जुहाव ज्वलिते ऽनले
शेषं च हविषस् तस्य प्राश्याशास्यात्मनः प्रियम्
ध्यायन् नारायणं देवं स्वास्तीर्णे कुशसंस्तरे
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः
श्रीमत्य् आयतने विष्णोः शिश्ये नरवरात्मजः
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः
अलंकारविधिं कृत्स्नं कारयाम् आस वेश्मनः
तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम्
पूर्वां संध्याम् उपासीनो जजाप यतमानसः
तुष्टाव प्रणतश् चैव शिरसा मधुसूदनम्
विमलक्षौमसंवीतो वाचयाम् आस च द्विजान्
तेषां पुण्याहघोषो ऽथ गम्भीरमधुरस् तदा
अयोध्यां पूरयाम् आस तूर्यघोषानुनादितः
कृतोपवासं तु तदा वैदेह्या सह राघवम्
अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्
प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः
सिताभ्रशिखराभेषु देवतायतनेषु च
चतुष्पथेषु रथ्यासु चैत्येष्व् अट्टालकेषु च
नानापण्यसमृद्धेषु वणिजाम् आपणेषु च
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च
सभासु चैव सर्वासु वृक्षेष्व् आलक्षितेषु च
ध्वजाः समुच्छ्रिताश् चित्राः पताकाश् चाभवंस् तदा
नटनर्तकसंघानां गायकानां च गायताम्
मनःकर्णसुखा वाचः शुश्रुवुश् च ततस् ततः
रामाभिषेकयुक्ताश् च कथाश् चक्रुर् मिथो जनाः
रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च
बाला अपि क्रीडमाना गृहद्वारेषु संघशः
रामाभिषेकसंयुक्ताश् चक्रुर् एव मिथः कथाः
कृतपुष्पोपहारश् च धूपगन्धाधिवासितः
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने
प्रकाशीकरणार्थं च निशागमनशङ्कया
दीपवृक्षांस् तथा चक्रुर् अनु रथ्यासु सर्वशः
अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः
आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्
समेत्य संघशः सर्वे चत्वरेषु सभासु च
कथयन्तो मिथस् तत्र प्रशशंसुर् जनाधिपम्
अहो महात्मा राजायम् इक्ष्वाकुकुलनन्दनः
ज्ञात्वा यो वृद्धम् आत्मानं रामं राज्ये ऽभिषेक्ष्यति
सर्वे ह्य् अनुगृहीताः स्म यन् नो रामो महीपतिः
चिराय भविता गोप्ता दृष्टलोकपरावरः
अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः
यथा च भ्रातृषु स्निग्धस् तथास्मास्व् अपि राघवः
चिरं जीवतु धर्मात्मा राजा दशरथो ऽनघः
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्
एवंविधं कथयतां पौराणां शुश्रुवुस् तदा
दिग्भ्यो ऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्
रामस्य पूरयाम् आसुः पुरीं जानपदा जनाः
जनौघैस् तैर् विसर्पद्भिः शुश्रुवे तत्र निःस्वनः
पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः
ततस् तद् इन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर् जानपदैर् उपागतैः
समन्ततः सस्वनम् आकुलं बभौ समुद्रयादोभिर् इवार्णवोदकम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0