भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.99

2.99.1

पुनर् एवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः
प्रत्युवाच ततः श्रीमाञ् ज्ञातिमध्ये ऽतिसत्कृतः ॥

2.99.2

उपपन्नम् इदं वाक्यं यत् त्वम् एवम् अभाषथाः
जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥

2.99.3

पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्
मातामहे समाश्रौषीद् राज्यशुल्कम् अनुत्तमम् ॥

2.99.4

देवासुरे च संग्रामे जनन्यै तव पार्थिवः
सम्प्रहृष्टो ददौ राजा वरम् आराधितः प्रभुः ॥

2.99.5

ततः सा संप्रतिश्राव्य तव माता यशस्विनी
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥

2.99.6

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा
तच् च राजा तथा तस्यै नियुक्तः प्रददौ वरम् ॥

2.99.7

तेन पित्राहम् अप्य् अत्र नियुक्तः पुरुषर्षभ
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥

2.99.8

सो ऽहं वनम् इदं प्राप्तो निर्जनं लक्ष्मणान्वितः
शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥

2.99.9

भवान् अपि तथेत्य् एव पितरं सत्यवादिनम्
कर्तुम् अर्हति राजेन्द्रं क्षिप्रम् एवाभिषेचनात् ॥

2.99.10

ऋणान् मोचय राजानं मत्कृते भरत प्रभुम्
पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय ॥

2.99.11

श्रूयते हि पुरा तात श्रुतिर् गीता यशस्विनी
गयेन यजमानेन गयेष्व् एव पितॄन् प्रति ॥

2.99.12

पुंनाम्ना नरकाद् यस्मात् पितरं त्रायते सुतः
तस्मात् पुत्र इति प्रोक्तः पितॄन् यत् पाति वा सुतः ॥

2.99.13

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः
तेषां वै समवेतानाम् अपि कश्चिद् गयां व्रजेत् ॥

2.99.14

एवं राजर्षयः सर्वे प्रतीता राजनन्दन
तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥

2.99.15

अयोध्यां गच्छ भरत प्रकृतीर् अनुरञ्जय
शत्रुघ्नसहितो वीर सह सर्वैर् द्विजातिभिः ॥

2.99.16

प्रवेक्ष्ये दण्डकारण्यम् अहम् अप्य् अविलम्बयन्
आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥

2.99.17

त्वं राजा भव भरत स्वयं नराणां वन्यानाम् अहम् अपि राजराण् मृगाणाम्
गच्छ त्वं पुरवरम् अद्य सम्प्रहृष्टः संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये ॥

2.99.18

छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम्
एतेषाम् अहम् अपि काननद्रुमाणां छायां ताम् अतिशयिनीं सुखं श्रयिष्ये ॥

2.99.19

शत्रुघ्नः कुशलमतिस् तु ते सहायः सौमित्रिर् मम विदितः प्रधानमित्रम्
चत्वारस् तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc