रामायण (संशोधित पाठ) · अध्याय 2.100
आश्वासयन्तं भरतं जाबालिर् ब्राह्मणोत्तमः
उवाच रामं धर्मज्ञं धर्मापेतम् इदं वचः ॥
साधु राघव मा भूत् ते बुद्धिर् एवं निरर्थका
प्राकृतस्य नरस्येव आर्यबुद्धेस् तपस्विनः ॥
कः कस्य पुरुषो बन्धुः किम् आप्यं कस्य केनचित्
यद् एको जायते जन्तुर् एक एव विनश्यति ॥
तस्मान् माता पिता चेति राम सज्जेत यो नरः
उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्यचित् ॥
यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद् वसेत्
उत्सृज्य च तम् आवासं प्रतिष्ठेतापरे ऽहनि ॥
एवम् एव मनुष्याणां पिता माता गृहं वसु
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥
पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥
समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय
एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते ॥
राजभोगान् अनुभवन् महार्हान् पार्थिवात्मज
विहर त्वम् अयोध्यायां यथा शक्रस् त्रिविष्टपे ॥
न ते कश्चिद् दशरतस् त्वं च तस्य न कश्चन
अन्यो राजा त्वम् अन्यश् च तस्मात् कुरु यद् उच्यते ॥
गतः स नृपतिस् तत्र गन्तव्यं यत्र तेन वै
प्रवृत्तिर् एषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥
अर्थधर्मपरा ये ये तांस् ताञ् शोचामि नेतरान्
ते हि दुःखम् इह प्राप्य विनाशं प्रेत्य भेजिरे ॥
अष्टकापितृदैवत्यम् इत्य् अयं प्रसृतो जनः
अन्नस्योपद्रवं पश्य मृतो हि किम् अशिष्यति ॥
यदि भुक्तम् इहान्येन देहम् अन्यस्य गच्छति
दद्यात् प्रवसतः श्राद्धं न तत् पथ्य् अशनं भवेत् ॥
दानसंवनना ह्य् एते ग्रन्था मेधाविभिः कृताः
यजस्व देहि दीक्षस्व तपस् तप्यस्व संत्यज ॥
स नास्ति परम् इत्य् एव कुरु बुद्धिं महामते
प्रत्यक्षं यत् तद् आतिष्ठ परोक्षं पृष्ठतः कुरु ॥
सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0