रामायण (संशोधित पाठ) · अध्याय 2.86
ततस् तां रजनीम् उष्य भरतः सपरिच्छदः
कृतातिथ्यो भरद्वाजं कामाद् अभिजगाम ह ॥
तम् ऋषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिम् आगतम्
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥
कच्चिद् अत्र सुखा रात्रिस् तवास्मद्विषये गता
समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ ॥
तम् उवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च
आश्रमाद् अभिनिष्क्रान्तम् ऋषिम् उत्तमतेजसम् ॥
सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः
तर्पितः सर्वकामैश् च सामात्यो बलवत् त्वया ॥
अपेतक्लमसंतापाः सुभिक्षाः सुप्रतिश्रयाः
अपि प्रेष्यान् उपादाय सर्वे स्म सुसुखोषिताः ॥
आमन्त्रये ऽहं भगवन् कामं त्वाम् ऋषिसत्तम
समीपं प्रस्थितं भ्रातुर् मैत्रेणेक्षस्व चक्षुषा ॥
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः
आचक्ष्व कतमो मार्गः कियान् इति च शंस मे ॥
इति पृष्टस् तु भरतं भ्रातृदर्शनलालसम्
प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥
भरतार्धतृतीयेषु योजनेष्व् अजने वने
चित्रकूटो गिरिस् तत्र रम्यनिर्दरकाननः ॥
उत्तरं पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी
पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना ॥
अनन्तरं तत् सरितश् चित्रकूटश् च पर्वतः
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥
दक्षिणेनैव मार्गेण सव्यदक्षिणम् एव च
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥
प्रयाणम् इति च श्रुत्वा राजराजस्य योषितः
हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् ॥
वेपमाना कृशा दीना सह देव्या सुमित्रया
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥
असमृद्धेन कामेन सर्वलोकस्य गर्हिता
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥
तं प्रदक्षिणम् आगम्य भगवन्तं महामुनिम्
अदूराद् भरतस्यैव तस्थौ दीनमनास् तदा ॥
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः
विशेषं ज्ञातुम् इच्छामि मातॄणां तव राघव ॥
एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः
उवाच प्राञ्जलिर् भूत्वा वाक्यं वचनकोविदः ॥
याम् इमां भगवन् दीनां शोकानशनकर्शिताम्
पितुर् हि महिषीं देवीं देवताम् इव पश्यसि ॥
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्
कौसल्या सुषुवे रामं धातारम् अदितिर् यथा ॥
अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥
एतस्यास् तौ सुतौ देव्याः कुमारौ देववर्णिनौ
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥
यस्याः कृते नरव्याघ्रौ जीवनाशम् इतो गतौ
राजा पुत्रविहीनश् च स्वर्गं दशरथो गतः ॥
ऐश्वर्यकामां कैकेयीम् अनार्याम् आर्यरूपिणीम्
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्
यतोमूलं हि पश्यामि व्यसनं महद् आत्मनः ॥
इत्य् उक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा
स निशश्वास ताम्राक्षो नागः क्रुद्ध इवासकृत् ॥
भरद्वाजो महर्षिस् तं ब्रुवन्तं भरतं तदा
प्रत्युवाच महाबुद्धिर् इदं वचनम् अर्थवत् ॥
न दोषेणावगन्तव्या कैकेयी भरत त्वया
रामप्रव्राजनं ह्य् एतत् सुखोदर्कं भविष्यति ॥
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्
आमन्त्र्य भरतः सैन्यं युज्यताम् इत्य् अचोदयत् ॥
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान्
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥
गजकन्यागजाश् चैव हेमकक्ष्याः पताकिनः
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥
विविधान्य् अपि यानानि महान्ति च लघूनि च
प्रययुः सुमहार्हाणि पादैर् एव पदातयः ॥
अथ यानप्रवेकैस् तु कौसल्याप्रमुखाः स्त्रियः
रामदर्शनकाङ्क्षिण्यः प्रययुर् मुदितास् तदा ॥
स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥
सा प्रयाता महासेना गजवाजिरथाकुला
दक्षिणां दिशम् आवृत्य महामेघ इवोत्थितः
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ॥
सा सम्प्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसंघान्
महद् वनं तत् प्रविगाहमाना रराज सेना भरतस्य तत्र ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0