रामायण (संशोधित पाठ) · अध्याय 2.85
कृतबुद्धिं निवासाय तथैव स मुनिस् तदा
भरतं कैकयीपुत्रम् आतिथ्येन न्यमन्त्रयत् ॥
अब्रवीद् भरतस् त्व् एनं नन्व् इदं भवता कृतम्
पाद्यम् अर्घ्यं तथातिथ्यं वने यद् उपपद्यते ॥
अथोवाच भरद्वाजो भरतं प्रहसन्न् इव
जाने त्वां प्रीतिसंयुक्तं तुष्येस् त्वं येन केनचित् ॥
सेनायास् तु तवैतस्याः कर्तुम् इच्छामि भोजनम्
मम प्रीतिर् यथारूपा त्वम् अर्हो मनुजर्षभ ॥
किमर्थं चापि निक्षिप्य दूरे बलम् इहागतः
कस्मान् नेहोपयातो ऽसि सबलः पुरुषर्षभ ॥
भरतः प्रत्युवाचेदं प्राञ्जलिस् तं तपोधनम्
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥
वाजिमुख्या मनुष्याश् च मत्ताश् च वरवारणाः
प्रच्छाद्य महतीं भूमिं भगवन्न् अनुयान्ति माम् ॥
ते वृक्षान् उदकं भूमिम् आश्रमेषूटजांस् तथा
न हिंस्युर् इति तेनाहम् एक एवागतस् ततः ॥
आनीयताम् इतः सेनेत्य् आज्ञप्तः परमर्षिणा
तथा तु चक्रे भरतः सेनायाः समुपागमम् ॥
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च
आतिथ्यस्य क्रियाहेतोर् विश्वकर्माणम् आह्वयत् ॥
आह्वये विश्वकर्माणम् अहं त्वष्टारम् एव च
आतिथ्यं कर्तुम् इच्छामि तत्र मे संविधीयताम् ॥
प्राक्स्रोतसश् च या नद्यः प्रत्यक्स्रोतस एव च
पृथिव्याम् अन्तरिक्षे च समायान्त्व् अद्य सर्वशः ॥
अन्याः स्रवन्तु मैरेयं सुराम् अन्याः सुनिष्ठिताम्
अपराश् चोदकं शीतम् इक्षुकाण्डरसोपमम् ॥
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून्
तथैवाप्सरसो देवीर् गन्धर्वीश् चापि सर्वशः ॥
घृताचीम् अथ विश्वाचीं मिश्रकेशीम् अलम्बुसाम्
शक्रं याश् चोपतिष्ठन्ति ब्रह्माणं याश् च भामिनीः
सर्वास् तुम्बुरुणा सार्धम् आह्वये सपरिच्छदाः ॥
वनं कुरुषु यद् दिव्यं वासो भूषणपत्त्रवत्
दिव्यनारीफलं शश्वत् तत् कौबेरम् इहैव तु ॥
इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम्
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च
सुरादीनि च पेयानि मांसानि विविधानि च ॥
एवं समाधिना युक्तस् तेजसाप्रतिमेन च
शिक्षास्वरसमायुक्तं तपसा चाब्रवीन् मुनिः ॥
मनसा ध्यायतस् तस्य प्राङ्मुखस्य कृताञ्जलेः
आजग्मुस् तानि सर्वाणि दैवतानि पृथक्पृथक् ॥
मलयं दर्दुरं चैव ततः स्वेदनुदो ऽनिलः
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥
ततो ऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः
देवदुन्दुभिघोषश् च दिक्षु सर्वासु शुश्रुवे ॥
प्रववुश् चोत्तमा वाता ननृतुश् चाप्सरोगणाः
प्रजगुर् देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥
तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम्
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥
बभूव हि समा भूमिः समन्तात् पञ्चयोजनम्
शाद्वलैर् बहुभिश् छन्ना नीलवैडूर्यसंनिभैः ॥
तस्मिन् बिल्वाः कपित्थाश् च पनसा बीजपूरकाः
आमलक्यो बभूवुश् च चूताश् च फलभूषणाः ॥
उत्तरेभ्यः कुरुभ्यश् च वनं दिव्योपभोगवत्
आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता ॥
चतुःशालानि शुभ्राणि शालाश् च गजवाजिनाम्
हर्म्यप्रासादसंघातास् तोरणानि शुभानि च ॥
सितमेघनिभं चापि राजवेश्म सुतोरणम्
शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥
चतुरस्रम् असंबाधं शयनासनयानवत्
दिव्यैः सर्वरसैर् युक्तं दिव्यभोजनवस्त्रवत् ॥
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम्
कॢप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ॥
प्रविवेश महाबाहुर् अनुज्ञातो महर्षिणा
वेश्म तद् रत्नसम्पूर्णं भरतः कैकयीसुतः ॥
अनुजग्मुश् च तं सर्वे मन्त्रिणः सपुरोहिताः
बभूवुश् च मुदा युक्तास् तं दृष्ट्वा वेश्मसंविधिम् ॥
तत्र राजासनं दिव्यं व्यजनं छत्त्रम् एव च
भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत् ॥
आसनं पूजयामास रामायाभिप्रणम्य च
वालव्यजनम् आदाय न्यषीदत् सचिवासने ॥
आनुपूर्व्यान् निषेदुश् च सर्वे मन्त्रिपुरोहिताः
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥
ततस् तत्र मुहूर्तेन नद्यः पायसकर्दमाः
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥
तासाम् उभयतः कूलं पाण्डुमृत्तिकलेपनाः
रम्याश् चावसथा दिव्या ब्रह्मणस् तु प्रसादजाः ॥
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः
आगुर् विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः
आगुर् विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥
याभिर् गृहीतः पुरुषः सोन्माद इव लक्ष्यते
आगुर् विंशतिसाहस्रा नन्दनाद् अप्सरोगणाः ॥
नारदस् तुम्बुरुर् गोपः पर्वतः सूर्यवर्चसः
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना
उपानृत्यंस् तु भरतं भरद्वाजस्य शासनात् ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने
प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात् ॥
बिल्वा मार्दङ्गिका आसञ् शम्याग्राहा विभीतकाः
अश्वत्था नर्तकाश् चासन् भरद्वाजस्य तेजसा ॥
ततः सरलतालाश् च तिलका नक्तमालकाः
प्रहृष्टास् तत्र संपेतुः कुब्जा भूत्वाथ वामनाः ॥
शिंशपामलकी जम्बूर् याश् चान्याः कानने लताः
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन् ॥
सुरां सुरापाः पिबत पायसं च बुभुक्षिताः
मांसानि च सुमेध्यानि भक्ष्यन्तां यावद् इच्छथ ॥
उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु
अप्य् एकम् एकं पुरुषं प्रमदाः सप्त चाष्ट च ॥
संवहन्त्यः समापेतुर् नार्यो रुचिरलोचनाः
परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः ॥
हयान् गजान् खरान् उष्ट्रांस् तथैव सुरभेः सुतान्
इक्षूंश् च मधुजालांश् च भोजयन्ति स्म वाहनान्
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥
नाश्वबन्धो ऽश्वम् आजानान् न गजं कुञ्जरग्रहः
मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥
तर्पिताः सर्वकामैस् ते रक्तचन्दनरूषिताः
अप्सरोगणसंयुक्ताः सैन्या वाचम् उदैरयन् ॥
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान्
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥
इति पादातयोधाश् च हस्त्यश्वारोहबन्धकाः
अनाथास् तं विधिं लब्ध्वा वाचम् एताम् उदैरयन् ॥
सम्प्रहृष्टा विनेदुस् ते नरास् तत्र सहस्रशः
भरतस्यानुयातारः स्वर्गो ऽयम् इति चाब्रुवन् ॥
ततो भुक्तवतां तेषां तद् अन्नम् अमृतोपमम्
दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् अभवद् भक्षणे मतिः ॥
प्रेष्याश् चेट्यश् च वध्वश् च बलस्थाश् चापि सर्वशः
बभूवुस् ते भृशं तृप्ताः सर्वे चाहतवाससः ॥
कुञ्जराश् च खरोष्ट्रश् च गोऽश्वाश् च मृगपक्षिणः
बभूवुः सुभृतास् तत्र नान्यो ह्य् अन्यम् अकल्पयत् ॥
नाशुक्लवासास् तत्रासीत् क्षुधितो मलिनो ऽपि वा
रजसा ध्वस्तकेशो वा नरः कश्चिद् अदृश्यत ॥
आजैश् चापि च वाराहैर् निष्ठानवरसंचयैः
फलनिर्यूहसंसिद्धैः सूपैर् गन्धरसान्वितैः ॥
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः
ददृशुर् विस्मितास् तत्र नरा लौहीः सहस्रशः ॥
बभूवुर् वनपार्श्वेषु कूपाः पायसकर्दमाः
ताश् च कामदुघा गावो द्रुमाश् चासन् मधुश्च्युतः ॥
वाप्यो मैरेयपूर्णाश् च मृष्टमांसचयैर् वृताः
प्रतप्तपिठरैश् चापि मार्गमायूरकौक्कुटैः ॥
पात्रीणां च सहस्राणि शातकुम्भमयानि च
स्थाल्यः कुम्भ्यः करम्भ्यश् च दधिपूर्णाः सुसंस्कृताः
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥
ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे
बभूवुः पायसस्यान्ते शर्करायाश् च संचयाः ॥
कल्कांश् चूर्णकषायांश् च स्नानानि विविधानि च
ददृशुर् भाजनस्थानि तीर्थेषु सरितां नराः ॥
शुक्लान् अंशुमतश् चापि दन्तधावनसंचयान्
शुक्लांश् चन्दनकल्कांश् च समुद्गेष्व् अवतिष्ठतः ॥
दर्पणान् परिमृष्टांश् च वाससां चापि संचयान्
पादुकोपानहां चैव युग्मान् यत्र सहस्रशः ॥
आञ्जनीः कङ्कतान् कूर्चांश् छत्त्राणि च धनूंषि च
मर्मत्राणानि चित्राणि शयनान्य् आसनानि च ॥
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम्
अवगाह्य सुतीर्थांश् च ह्रदान् सोत्पलपुष्करान् ॥
नीलवैडूर्यवर्णांश् च मृदून् यवससंचयान्
निर्वापार्थं पशूनां ते ददृशुस् तत्र सर्वशः ॥
व्यस्मयन्त मनुष्यास् ते स्वप्नकल्पं तद् अद्भुतम्
दृष्ट्वातिथ्यं कृतं तादृग् भरतस्य महर्षिणा ॥
इत्य् एवं रममाणानां देवानाम् इव नन्दने
भरद्वाजाश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत ॥
प्रतिजग्मुश् च ता नद्यो गन्धर्वाश् च यथागतम्
भरद्वाजम् अनुज्ञाप्य ताश् च सर्वा वराङ्गनाः ॥
तथैव मत्ता मदिरोत्कटा नरास् तथैव दिव्यागुरुचन्दनोक्षिताः
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0