रामायण (संशोधित पाठ) · अध्याय 2.76
ताम् आर्यगणसम्पूर्णां भरतः प्रग्रहां सभाम्
ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशाम् इव ॥
आसनानि यथान्यायम् आर्याणां विशतां तदा
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥
राज्ञस् तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित्
इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥
तात राजा दशरथः स्वर्गतो धर्मम् आचरन्
धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥
रामस् तथा सत्यधृतिः सतां धर्मम् अनुस्मरन्
नाजहात् पितुर् आदेशं शशी ज्योत्स्नाम् इवोदितः ॥
पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्
तद् भुङ्क्ष्व मुदितामात्यः क्षिप्रम् एवाभिषेचय ॥
उदीच्याश् च प्रतीच्याश् च दाक्षिणात्याश् च केवलाः
कोट्यापरान्ताः सामुद्रा रत्नान्य् अभिहरन्तु ते ॥
तच् छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः
जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥
स बाष्पकलया वाचा कलहंसस्वरो युवा
विललाप सभामध्ये जगर्हे च पुरोहितम् ॥
चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः
धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥
कथं दशरथाज् जातो भवेद् राज्यापहारकः
राज्यं चाहं च रामस्य धर्मं वक्तुम् इहार्हसि ॥
ज्येष्ठः श्रेष्ठश् च धर्मात्मा दिलीपनहुषोपमः
लब्धुम् अर्हति काकुत्स्थो राज्यं दशरथो यथा ॥
अनार्यजुष्टम् अस्वर्ग्यं कुर्यां पापम् अहं यदि
इक्ष्वाकूणाम् अहं लोके भवेयं कुलपांसनः ॥
यद्धि मात्रा कृतं पापं नाहं तद् अभिरोचये
इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥
रामम् एवानुगच्छामि स राजा द्विपदां वरः
त्रयाणाम् अपि लोकानां राघवो राज्यम् अर्हति ॥
तद् वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः
हर्षान् मुमुचुर् अश्रूणि रामे निहितचेतसः ॥
यदि त्व् आर्यं न शक्ष्यामि विनिवर्तयितुं वनात्
वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस् तथा ॥
सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात्
समक्षम् आर्यमिश्राणां साधूनां गुणवर्तिनाम् ॥
एवम् उक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः
समीपस्थम् उवाचेदं सुमन्त्रं मन्त्रकोविदम् ॥
तूर्णम् उत्थाय गच्छ त्वं सुमन्त्र मम शासनात्
यात्राम् आज्ञापय क्षिप्रं बलं चैव समानय ॥
एवम् उक्तः सुमन्त्रस् तु भरतेन महात्मना
प्रहृष्टः सो ऽदिशत् सर्वं यथा संदिष्टम् इष्टवत् ॥
ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च
श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥
ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहे गृहे
यात्रागमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥
ते हयैर् गोरथैः शीघ्रैः स्यन्दनैश् च मनोजवैः
सह योधैर् बलाध्यक्षा बलं सर्वम् अचोदयन् ॥
सज्जं तु तद् बलं दृष्ट्वा भरतो गुरुसंनिधौ
रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतो ऽब्रवीत् ॥
भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः
रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥
स राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः
गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतो ऽब्रवीत् तदा ॥
तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान्
आनेतुम् इच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥
स सूतपुत्रो भरतेन सम्यग् आज्ञापितः संपरिपूर्णकामः
शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश् च सुहृज्जनं च ॥
ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश् च विप्राः
अयूयुजन्न् उष्ट्ररथान् खरांश् च नागान् हयांश् चैव कुलप्रसूतान् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0