रामायण (संशोधित पाठ) · अध्याय 2.74
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः
स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा ॥
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः
तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः ॥
कूपकाराः सुधाकारा वंशकर्मकृतस् तथा
समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे ॥
स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान्
अशोभत महावेगः सागरस्येव पर्वणि ॥
ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः
करणैर् विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे ॥
लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च
जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ॥
अवृक्षेषु च देशेषु केचिद् वृक्षान् अरोपयन्
केचित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्वचित् क्वचित् ॥
अपरे वीरणस्तम्बान् बलिनो बलवत्तराः
विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः ॥
अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम्
निम्नभागांस् तथा केचित् समांश् चक्रुः समन्ततः ॥
बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा
बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा ॥
अचिरेणैव कालेन परिवाहान् बहूदकान्
चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून्
उदपानान् बहुविधान् वेदिकापरिमण्डितान् ॥
स सुधाकुट्टिमतलः प्रपुष्पितमहीरुहः
मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः ॥
चन्दनोदकसंसिक्तो नानाकुसुमभूषितः
बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः ॥
आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः
रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥
यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः
भूयस् तं शोभयामासुर् भूषाभिर् भूषणोपमम् ॥
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः
निवेशं स्थापयामासुर् भरतस्य महात्मनः ॥
बहुपांसुचयाश् चापि परिखापरिवारिताः
तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥
प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः
पताकाशोभिताः सर्वे सुनिर्मितमहापथाः ॥
विसर्पद्भिर् इवाकाशे विटङ्काग्रविमानकैः
समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः ॥
जाह्नवीं तु समासाद्य विविधद्रुमकाननाम्
शीतलामलपानीयां महामीनसमाकुलाम् ॥
सचन्द्रतारागणमण्डितं यथा नभः क्षपायाम् अमलं विराजते
नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0