रामायण (संशोधित पाठ) · अध्याय 2.101
जाबालेस् तु वचः श्रुत्वा रामः सत्यात्मनां वरः
उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया ॥
भवान् मे प्रियकामार्थं वचनं यद् इहोक्तवान्
अकार्यं कार्यसंकाशम् अपथ्यं पथ्यसंमितम् ॥
निर्मर्यादस् तु पुरुषः पापाचारसमन्वितः
मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥
कुलीनम् अकुलीनं वा वीरं पुरुषमानिनम्
चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम् ॥
अनार्यस् त्व् आर्यसंकाशः शौचाद्धीनस् तथा शुचिः
लक्षण्यवद् अलक्षण्यो दुःशीलः शीलवान् इव ॥
अधर्मं धर्मवेषेण यदीमं लोकसंकरम्
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥
कश् चेतयानः पुरुषः कार्याकार्यविचक्षणः
बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥
कस्य यास्याम्य् अहं वृत्तं केन वा स्वर्गम् आप्नुयाम्
अनया वर्तमानो ऽहं वृत्त्या हीनप्रतिज्ञया ॥
कामवृत्तस् त्व् अयं लोकः कृत्स्नः समुपवर्तते
यद्वृत्ताः सन्ति राजानस् तद्वृत्ताः सन्ति हि प्रजाः ॥
सत्यम् एवानृशंस्यं च राजवृत्तं सनातनम्
तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥
ऋषयश् चैव देवाश् च सत्यम् एव हि मेनिरे
सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥
उद्विजन्ते यथा सर्पान् नराद् अनृतवादिनः
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥
सत्यम् एवेश्वरो लोके सत्यं पद्मा समाश्रिता
सत्यमूलानि सर्वाणि सत्यान् नास्ति परं पदम् ॥
दत्तम् इष्टं हुतं चैव तप्तानि च तपांसि च
वेदाः सत्यप्रतिष्ठानास् तस्मात् सत्यपरो भवेत् ॥
एकः पालयते लोकम् एकः पालयते कुलम्
मज्जत्य् एको हि निरय एकः स्वर्गे महीयते ॥
सो ऽहं पितुर् निदेशं तु किमर्थं नानुपालये
सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥
नैव लोभान् न मोहाद् वा न चाज्ञानात् तमोऽन्वितः
सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥
असत्यसंधस्य सतश् चलस्यास्थिरचेतसः
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥
प्रत्यगात्मम् इमं धर्मं सत्यं पश्याम्य् अहं स्वयम्
भारः सत्पुरुषाचीर्णस् तदर्थम् अभिनन्द्यते ॥
क्षात्रं धर्मम् अहं त्यक्ष्ये ह्य् अधर्मं धर्मसंहितम्
क्षुद्रैर् नृशंसैर् लुब्धैश् च सेवितं पापकर्मभिः ॥
कायेन कुरुते पापं मनसा सम्प्रधार्य च
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥
भूमिः कीर्तिर् यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि
स्वर्गस्थं चानुबध्नन्ति सत्यम् एव भजेत तत् ॥
श्रेष्ठं ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम्
आह युक्तिकरैर् वाक्यैर् इदं भद्रं कुरुष्व ह ॥
कथं ह्य् अहं प्रतिज्ञाय वनवासम् इमं गुरोः
भरतस्य करिष्यामि वचो हित्वा गुरोर् वचः ॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ
प्रहृष्टमानसा देवी कैकेयी चाभवत् तदा ॥
वनवासं वसन्न् एवं शुचिर् नियतभोजनः
मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश् च तर्पयन् ॥
संतुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्तये
अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः ॥
कर्मभूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम्
अग्निर् वायुश् च सोमश् च कर्मणां फलभागिनः ॥
शतं क्रतूनाम् आहृत्य देवराट् त्रिदिवं गतः
तपांस्य् उग्राणि चास्थाय दिवं याता महर्षयः ॥
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च
द्विजातिदेवातिथिपूजनं च पन्थानम् आहुस् त्रिदिवस्य सन्तः ॥
धर्मे रताः सत्पुरुषैः समेतास् तेजस्विनो दानगुणप्रधानाः
अहिंसका वीतमलाश् च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0