भाषा

ENहिગુ
ग्रंथ पाठ

रामचरितमहाकाव्ये · अध्याय 2

2.1

ताम् अनीक्षितचरीम् अधीरताम् आत्मनो ऽथ विनियम्य लक्ष्मणः ।
सान्त्वनार्थम् इति वाचम् अब्रवीत् तीव्रमन्युरयमूढम् अग्रजम् ॥

2.2

कार्यम् आर्य परिशिष्टम् उच्यतां मुच्यताम् इदम् अयोगजं तमः ।
राजतूद्यमदिवाकरोदयस्मेरम् आशु मुखपङ्कजं तव ॥

2.3

आसितुं समय एष नावयोर् मोहम् इत्थम् अवलम्बितुं न च ।
उत्सहस्व ननु हृष्यतां चिरादिष्व् अधीनम् अधुनाभिकाङ्क्षितम् ॥

2.4

केवलं फलभुजो न तस्य नस् तस्करस्य निलये ऽस्ति निश्चयः ।
अभ्युपैतु रविनन्दनः क्षणाद् अन्धकारम् इदम् अप्य् अपैष्यति ॥

2.5

औरसान् अपि सुतान् अरीन् इव घ्नन्ति कारणवशान् महीभुजः ।
निग्रहाद् अनुजविद्विषः कपेः किं पृथग्जन इवानुतप्यसे ॥

2.6

क्रीडतां मृगवनेषु धन्विनां जीवकोटिकदने ऽपि का क्षतिः ।
खिद्यसे किम् अनिशं प्रयोजनाद् एकवानरवधः कुतः कृतः ॥

2.7

तस्य च प्रवयसो जटायुषः स्वर्गिणः किम् अधुनानुशोच्यते ।
येन जर्जरकलेवरव्ययात् क्रीतम् इन्दुकिरणोज्ज्वलं यशः ॥

2.8

एतद् एकम् अतिवाह्यताम् अहः श्वो न स प्लवगराट्प्रतीक्ष्यते ।
तत् प्रसीद परितो विचीयतात्मनैव सनगार्णवावनिः ॥

2.9

तत् कबन्धशबरीहनूमताम् आवयोर् अजनि सङ्गतं यथा ।
इष्टशंसि वनशैलपान्थयोः किं तथान्यद् अपि नापतेत् पुनः ॥

2.10

यत्र यत्र तव सिद्धिर् अग्रतः कः करिष्यति न ते समीहितम् ।
उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितम् ॥

2.11

सम्भवत्य् अभिमरः पुरे ऽथवा तस्य तीव्रम् अयशः किम् उच्यते ।
दुःखम् उत्खनति कण्टकावलीर् अङ्गसन्धिषु नवः किलेश्वरः ॥

2.12

सम्प्रति प्रथमम् आर्य गृह्यतां तत्प्रवृत्तिम् उपलब्धुम् उद्यमः ।
मर्षणीयपरिलम्बदूषणः सो ऽधुनाप्य् अकपटो घटते चेत् ॥

2.13

मुञ्च मोहम् अवतीर्यताम् इतः सेव्यताम् इयम् अनाविला नदी ।
एष गच्छति जवाज् जपारुणो वारुणीम् अरुणसारथिर् दिशम् ॥

2.14

उन्मिमील रघुनन्दनश् चिरात् तन् निशम्य वचनं चमत्कृतः ।
अप्य् अयोगविधुरा न शेरते संमुखीनविधयस् तथाविधाः ॥

2.15

मुक्तमोहम् अवलोक्य लक्ष्मणस् तं मृगाङ्कम् इव मेघनिर्गतम् ।
आददे ऽथ शशिकान्तभूधरस्यन्दबिन्दुशिशिरां सरस्वतीम् ॥

2.16

एष पश्य पतितो नभस्तलाद् अस्तशैलगहनेषु नश्यति ।
सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥

2.17

शक्यम् अर्चितुम् अनुच्चपाणिभिः पाशपाणिनगरीनिवासिभिः ।
सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥

2.18

एष मुक्तकरपाटवो रविर् नाटयत्य् अनुगुणत्वम् अप्पतौ ।
आपदि प्रकृतिर् उज्झिता वरं नाश्रयस्य विसदृग् विचेष्टितम् ॥

2.19

बिम्बमूलरुचिरा रवेर् अमी रेचयन्ति गगनं गभस्तयः ।
पूरयन्ति च महीं महीरुहाम् आयताः प्रतिशरीरयष्टयः ॥

2.20

अग्रतः शिखरशाखिसंहतेश् छाययोपचितयापसारितः ।
पृष्ठतो ऽतिनिभृतं महीभृताम् आतपः कटकम् आशु नोज्झति ॥

2.21

स्वीकरोति शनकैर् अनोकहच्छायम् अद्रिशिखरस्थलीर् अपि ।
हीयते निजवपुष्य् अपि क्रमाद् आतपस्य ममता तपस्विनः ॥

2.22

अप्पतेर् दिशि विचेष्टते रविर् व्याकुलाः शकुनयः स्वनन्त्य् अमी ।
ध्वान्तदृष्टिविषदर्शनाद् दिने दुर्निवारनिधने निमीलति ॥

2.23

कीर्यते कृतरवैः खगव्रजैर् एष तल्लतटचैत्यपादपः ।
सायम् अध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥

2.24

यान्ति खिन्नजनसेव्यताम् अमी सौम्य सोर्मिशुचिवालुकाचयाः ।
प्रान्तसुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥

2.25

धिक् तटान्तवसतीन् सितच्छदान् पश्यतः कमलषण्डवैशसम् ।
स्तौमि तं दिवसम् आर्य केवलं यो ऽस्तम् एति समम् अब्जबन्धुना ॥

2.26

दन्तमूलनिहितैकसल्लकीपल्लवो ऽलसविलोकितानुगः ।
एष मुक्तगिरिकन्दरः शनैर् वारि वारणपतिः प्रतिष्ठते ॥

2.27

शीलयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितम् ।
मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥

2.28

संत्यजन्ति मसृणं सरःसरित्तल्लमूलसलिलानि सैरिभाः ।
सम्भजन्ति सहसा भयद्रुतैर् ईक्षिताः कुररसारसैरिभाः ॥

2.29

संमुखीनघनपत्रबन्धनात् पश्य पङ्कजवनाद् अनारतम् ।
पीतकोशमकरन्दसंचयाः संचरन्ति मधुपाः कुमुद्वतीम् ॥

2.30

नोपनीतमुखमुद्रम् अम्बुजं मुक्तमुद्रम् अथ नैव कैरवम् ।
एतदीक्षितपरस्परं पुनः पत्रियुग्मम् अपनिद्रवैशसम् ॥

2.31

रोधसः पुलिनम् अब्जिनीं ततस् ताम् अतीत्य भजते कुमुद्वतीम् ।
तत्र तप्त इव गाहते पयः सायम् आर्द्रविरहो विहङ्गमः ॥

2.32

स्वीकृतं न नलिनैर् निमीलितं न स्फुटं कुमुदकुड्मलस्मितम् ।
एतदीक्षितपरस्परं परं मूढम् अम्भसि विहङ्गमद्वयम् ॥

2.33

जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान् करान् ।
एत्य् अदृष्टम् अवलम्ब्य केवलं व्योमवारिनिधिशेषम् अंशुमान् ॥

2.34

श्रावितागमम् इव द्विजारवैर् ध्वान्तम् ओं इति जगत् प्रतीच्छति ।
त्रातुम् ऊष्मरहितः क्षमो ऽधुना न स्वमण्डलम् अपि प्रभाकरः ॥

2.35

दृश्यताम् उदयति स्म यादृशस् तादृशस् तरणिर् अस्तम् ईयते ।
उत्सवव्यसनयोः प्रभुर् विधिर् विक्रियासु महताम् अनीश्वरः ॥

2.36

स्फीतम् अब्जकुलम् ईक्ष्यताम् इतस् तल्लम् उल्लसितहंससारसम् ।
निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकम् ॥

2.37

शीलयन्त्य् अचलमेखलास्व् अमी शीतलासु रुरवो निरुद्यमाः ।
पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकाम् ॥

2.38

दीधितीः परिचिताः परित्यजत्य् अब्जिनीर् अपि च नानुरुध्यते ।
सन्ध्यया वरुणदिग्वधूम् अनुप्रापितः कम् अपि रागम् अंशुमान् ॥

2.39

द्यऊ रवीन्दुरहितापि निर्मला भूर् अवृक्षसलिलापि शीतला ।
अन्तरालम् अवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगत् ॥

2.40

निर्झरो ऽयम् इयम् आपगा सरः पल्वलं च विमलं विभात्य् अदः ।
यत्र चित्तम् इह पर्युपास्यतां तत्र तत्रभवती पितृप्रसूः ॥

2.41

इत्य् उभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिम् ।
सत्कृतिं दधतुर् आनने मिथः प्रार्थनां किम् अपि रामलक्ष्मणौ ॥

2.42

यत्र वाति न कुमुद्वतीमरुत् कौमुदी बत न यत्र वीक्ष्यते ।
तं निरूपितसमन्तम् अञ्जसा भेजतुः परिसरं रघूद्वहौ ॥

2.43

दृष्टिपाणितलप्पातशोधिताम् उद्धृतस्थगितकण्टकावटाम् ।
अस्तृणान् नवतृणेन मेदिनां रामभद्रशयनाय लक्ष्मणः ॥

2.44

निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगम् अग्रजन्मनः ।
स्वांशुकोद्धृतजलं कराब्जयोः कौशलाच् च समवाहयत् पुनः ॥

2.45

अध्वजर्जरितराजलक्षणं लक्ष्मणश् चरणम् अग्रजन्मनः ।
आममर्श चिरम् अश्रु वर्तयन् केवलोपकरणेन पाणिना ॥

2.46

स्वैरम् अग्रकरजैर् विवृत्य च व्याकुलां समनयज् जटाटवीम् ।
अङ्गदेशम् अनयद् विधूय च स्रस्तरातिसृतम् अञ्चलं त्वचः ॥

2.47

पार्श्वयोर् उपदधे महेषुधी आददे शिरसि पूजितं धनुः ।
उन्ममार्ज धुतसंहृतेन च स्वाञ्चलेन पुनरुक्तम् आस्तरम् ॥

2.48

इत्य् अजस्रम् अनुजातसेवया जीयमानवनवासयातनः ।
स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणम् ॥

2.49

मीलितोन्मिषितलोचनः शनैर् जागरूकम् अवलोक्य सो ऽनुजम् ।
उच्चवामकरपङ्कजोदरन्यस्तमौलिर् अवदन् मितं वचः ॥

2.50

गच्छ वत्स शयनीयम् आत्मनः क्लिश्यसे कृशतरः कियच् चिरम् ।
निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ॥

2.51

प्रातर् अस्ति बहु कृत्यम् आवयोर् भ्रातर् आत्मनि किम् अस्य् अतत्परः ।
चिन्त्यताम् उषसि तस्य संगतिः शीतलस्य कपिचक्रवर्तिनः ॥

2.52

आस्पदाधिगमगर्वितो ऽस्तु वाप्य् अस्तु वानुदितभूतिविक्रियः ।
आवयोः समयबद्धयोः पुनो निश्चयार्थम् अधिगम्य एव सः ॥

2.53

तद् विभातु रजनी सुखेन ते यास्यतः प्लवगराजमन्दिरम् ।
पक्षयोर् यद् अनुरूपमुक्तयोस् तत् तदैव च समर्थयिष्यते ॥

2.54

ऊचिवान् इति बभूव निर्वचाः कुड्मलीकृतविलोचनोत्पलः ।
अध्यशेत चरणाम्बुजान्तिकं तस्य जोषम् अनघो जघन्यजः ॥

2.55

तत्र तत्र च शयानयोश् चिराद् वीरयोर् विगतसाध्वसा इव ।
उद्धतैर् ददुर् उलूकहुंकृतैर् अन्धकारजयघोषणां द्रुमाः ॥

2.56

व्याततोडुदशनापि मुच्यसे न त्वम् अर्कचिरसंस्तुताधुना ।
इत्य् अरिष्टरिपुकूजितैस् तमो द्यां ब्रुवाणम् इव दूरम् उद्ययौ ॥

2.57

केवलं शकुनयो न नीडगाः शाखिनो ऽपि शयिताः समन्ततः ।
जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश् च भूभृतः ॥

2.58

न स्थली न पुलिनं न सिन्धवो नाचला न तरवश् चकाशिरे ।
दूषितद्वितयवादम् उद्बभाव् एकम् एव तिमिरं विभूतिमत् ॥

2.59

तत्र मुग्धपृषतस् तमोघने पार्श्वगाम् अपि मृगीम् अहारयत् ।
प्राप कोकयुवतिर् यदृच्छया पत्युर् आधितरलस्य संगमम् ॥

2.60

वृद्धम् अङ्कम् अनयच् छिशुभ्रमाच् चुम्बति स्म दयितेति यूथपम् ।
स्वीयम् अप्य् उदितसंशयः शनैर् अङ्गम् अङ्गम् अमृशद् वलीमुखः ॥

2.61

सर्वतः परिगतेव पर्वतैर् आचितेव तरुभिर् निरन्तरम् ।
आप्लुतेव सलिलैर् इतस् ततः शक्यते स्म चिरसंस्तुतापि भूः ॥

2.62

दिक्षु दक्षम् अवनाव् अनाकुलं खे ऽतिखेलम् अटवीषु भीषणम् ।
मत्तम् अद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥

2.63

भेजुर् ऐक्यम् इव तुल्यवैशसाः सायम् एव मलिनैर् मुखैर् दिशः ।
गृह्यमाणशिखरा तमश्चयैर् द्यौः पपात वसुधासखीतले ॥

2.64

प्रत्यभान् न पुरतो न पृष्ठतः पार्श्वयोश् च विशदं न किंचन ।
व्यानशे भुवनम् अञ्जनाचलप्रस्थपङ्क्तिनिबिडं निशातमः ॥

2.65

न द्वितीयम् अनुभूयते स्म वस्त्व् अन्तिकाद् अपि तमस् तिरस्कृतम् ।
केवलात्मविषयं तदाभवज् ज्ञानम् उल्बपरिवासिनाम् इव ॥

2.66

दूरमिश्रितपरस्पराङ्गकैर् अप्य् अयोगजनितज्वरैर् इव ।
दुर्लभाननविलोकनामृतैर् दूयते स्म मिथुनैर् मिथो भृशम् ॥

2.67

सो ऽतिशीतहिमशीकरो मरुन् नूनम् उल्मुकचयान् अवाकिरत् ।
यच् चुकूज भृशम् आर्तिकाहलं चक्रवाकयुवतिस् तपस्विनी ॥

2.68

उच्चचार न वनस्थलीष्व् असौ मर्मरः पतितपत्रनिस्वनः ।
नाविरास करिकृष्टसल्लकीभङ्गयोनिर् असकृच् चटत्कृतिः ॥

2.69

तस्थुर् आस्थितमनुष्यमूर्तयो यामिका इव विदूरतो ऽद्रयः ।
प्रह्वबालविटपाग्रपाणयस् तौ परीत्य तरवः सिषेविरे ॥

2.70

द्राङ् निदाघम् अनुदद्रजो ऽधुनाद् विश्लथां बृहतिकाम् असारयत् ।
प्रत्यपद्यत वनानिलस् तयोर् एकसन्निहितयामिकव्रतम् ॥

2.71

सानुजस्य तमसि प्रमीलतस् तस्य भाविममताहृता इव ।
उज्ज्वलायतविषाणसूचिताश् चक्रिरे परिकरं मतङ्गजाः ॥

2.72

दीपकृत्यम् अकरोद् उपान्तिके निष्प्रकम्परुचिरोषधीगणः ।
तेनुर् अद्रिवनमध्यसुप्तयोर् मङ्गलानि वनदेवतास् तयोः ॥

2.73

एहि जानकि भुजान्तरं खरः प्रस्तरो ऽयम् असि किं पराङ्मुखी ।
मत्कपोलम् उपधाय सुप्यताम् अप्रसक्तिर् इयती कदा नु ते ॥

2.74

क्षिप्तम् अंशुकम् इदं मयोरसि प्रीयतां तव निरानन्दः स्तनः ।
नीविनोदिनि करे कुरु क्षमाम् आयताक्षि नुदसीव किं पुनः ॥

2.75

सुप्तवाक्यम् इति मैथिलीपतेर् मैथिलीविरहदूयमानया ।
दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधयोपसन्नया ॥

2.76

मद् बिभेति विरही रघूद्वहो मद् विना च न जगत् प्रमोदते ।
तत् करोमि किम् इतीव चिन्तयन् नोज्जगाम सहसा निशाकरः ॥

2.77

न स्म भाति किम् अपि स्फुटं पुरः किंचिद् ईरितकरेण केवलम् ।
दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानम् इव केनचित् तमः ॥

2.78

जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरम् ।
मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥

2.79

सानुरागम् उपगूढम् अग्रिमैर् अंशुभिः शशभृतो दवीयसः ।
उन्ननाम नमुचिद्विषो दिशि स्रस्तस्तंतमसभारम् अम्बरम् ॥

2.80

उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमो ऽपि सन् ।
प्रेक्ष्यते स्म जनितोत्सुकश् चिराद् व्योमरङ्गमुखसंमुखः शशी ॥

2.81

औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत ।
मृज्यमानम् इव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभोयोगिन् ॥

2.82

तं बभार न विधुर् नवोदयं किं तु कुङ्कुमविलेपनारुणम् ।
एकम् उत्सुकवशात् पयोधरं व्याचकार हरिदिग्विलासिनी ॥

2.83

आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः ।
उन्ननाम पुरतः शशिच्छलात् पूर्णरुक्मकलशः पयोनिधेः ॥

2.84

दिक्सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः ।
क्षीबभावम् इव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥

2.85

नन्दयन् भुवनम् उन्मुखं चिरान् मन्दयन् स्मरविरुद्धम् उद्यमम् ।
क्रन्दयन् विरहिणो विहङ्गमान् सान्द्रयन् प्रमदम् इन्दुर् उद्ययौ ॥

2.86

लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतम् ।
उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥

2.87

आलिलिङ्ग रजनीम् अहासयद् बिद्यमानमुकुलां कुमुद्वतीम् ।
अग्रहीद् उडुवधूकरान् करैर् द्यां प्रसादम् अनयत् समं शस्शी ॥

2.88

आददे वियद् अलाञ्छनव्रतं लाञ्छनं निजम् अगूहद् अंशुभिः ।
प्राहिणोद् अपसृतासु कौमुदीं दिक्षु दक्षतनयापरिग्रही ॥

2.89

व्याप्य दूरम् अथ निर्मलं वियद् वीतपङ्कम् इव पङ्कजाकरम् ।
रेजुर् अग्रकिरणाः क्षपापतेः पूतकोकनदकन्दकोमलाः ॥

2.90

खे ककुप्सु भुवि च क्षपापतेः पेतुर् ऊढनिचया मरीचयः ।
यत्र तत्र कुहराणि कानिचित् कम्पमानम् अविशन् निशातमः ॥

2.91

क्षिप्तम् इन्दुरुचिभिर् व्यलम्बत त्र्यम्बकस्य शिखिनश् च दिङ्मुखे ।
तत्र नुन्नम् अनुबन्धनिःसहं कान्दिशीकम् इव निष्ठितं तमः ॥

2.92

कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरुहाम् ।
अध्युवास कमलोदराणि च ध्वान्तम् अध्वगवधूमुखानि च ॥

2.93

स्वीचकार करकोटिलालनालम्बितोडुततिमेखलां दिवम् ।
रागभङ्गम् अतिसंस्तवाद् गतां देवराजदिशम् इन्दुर् अत्यजत् ॥

2.94

आततान गगनाङ्गणाधिकैर् मेदिनीम् अमृतवर्षिभिर् विधुः ।
विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर् मरीचिभिः ॥

2.95

संकुचद्भिर् अभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् ।
उद्यता जयिनि कामिनीमुखे तेन साहसम् अनुष्ठितं पुनः ॥

2.96

उच्चखान रुषम् उच्चमण्डलः खण्डनाम् अगमयद् विषह्यताम् ।
मानपङ्कम् अपनीय कामिनीः कान्तहस्तम् अनयन् निशापतिः ॥

2.97

व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया ।
सौम्यताधिकविशेषयाजनि ज्योत्स्नया दिवसनिःस्पृहो जनः ॥

2.98

पीयते स्म कुमुदं न लोचनैश् चन्द्रिका तपति रोहितच्छदम् ।
प्रादुरास परम् उत्पिबन्न् अलिः सौरभं निरवलम्बम् अम्बुनि ॥

2.99

एकिकेव निजवृन्दमध्यगाप्य् उच्चुकूज सभया सितच्छदी ।
दन्तमूलम् असकृच् च संशयाद् आममर्श करिणः करेणुका ॥

2.100

केतकीषु कदलीषु वालुकास्व् अश्मसु स्फुटितकैरवे ऽम्भसि ।
लम्भितेव लहरीपरम्पराम् उल्ललास शशिकान्तिवाहिनी ॥

2.101

प्राप्तसूक्ष्मघनपल्लवान्तरैश् चित्रिताः शशिकरैर् इतस् ततः ।
बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमम् ॥

2.102

कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः ।
मैथिलीतरवधूदुरासदं राघवाङ्कम् अविशच् छशित्विषः ॥

2.103

जागर्षि काश्मरि निषीदसि कोविदार कुत्रासि वत्स कृतमाल तमाल पश्य ।
किं वर्तते रघुपतेर् इति सत्वराभिर् उक्तं द्रुमौघम् अवलोक्य वनस्थलीभिः ॥

2.104

अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस् तरुभिर् अन्तरयांबभूवे ।
उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपः स खलु दाशरथेर् अपथ्यः ॥

2.105

कुमुदवनम् अहेतु त्यक्तनिद्रं तदासीद् गगनम् उडुवितानैर् धिग् वृथैव प्रफुल्लम् ।
अजनि जगद् अधीशस्यागृहीतेस् तदानीं विधुर् अपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥

2.106

श्वसिति जनकपुत्री सत्वरो भानुपुत्रः कपिपतिर् उपसन्नं सुप्रभातं तवेति ।
जगुर् इव रघुनाथायार्धबुद्धाः स्वनन्तो मधुरम् अपररात्रे पत्रिणः के ऽपि के ऽपि ॥

मूल पाठ: Rāmacaritamahākāvye · Edition: K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc