भाषा

ENहिગુ
ग्रंथ पाठ

रामचरितमहाकाव्ये · अध्याय 1

1.1

अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः ।
दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥

1.2

शशाम वृष्टिर् मेघानाम् उत्सङ्गे तस्य भूभृतः ।
विरराम न रामस्य धारासन्ततिर् अश्रुणः ॥

1.3

इतस् ततः परिणतिं भेजे बर्हिणकूजितम् ।
हा प्रिये राजपुत्रीति न रामपरिदेवितम् ॥

1.4

काप्य् अभिख्या विरजसोः सूर्याचन्द्रमसोर् अभूत् ।
दाशरथ्योस् तथैवासीद् अयोगोपहता रुचिः ॥

1.5

निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥

1.6

स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननम् ।
आसीत् तथैव तु मनो रामस्योत्कलिकाकुलम् ॥

1.7

प्रपेदे पुनर् उद्भेदः शुचिना कच्छकेतकैः ।
उपक्रियायाः सदृशं नारेभे रविसूनुना ॥

1.8

आकृष्टमालतीगन्धः सिषेवे राघवं मरुत् ।
आनीतमैथिलीवार्तस् तम् आर्तं न तु मारुतिः ॥

1.9

रामाय पूरापगमव्यक्तोद्देशाश् चकाशिरे ।
आस्ते ऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥

1.10

यदार्द्रविरहो रामः प्रापितः प्राणसंशयम् ।
नूनं तेनानुतापेन जग्मुर् जलदराजयः ॥

1.11

द्यौर् मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः ।
ययाचे सारसरुतैर् विचारम् इव राघवम् ॥

1.12

दिशो ददृशिरे तेन स्तेनं तं परिमार्गता ।
मार्गदानापराधिन्यो गता दूरं भयाद् इव ॥

1.13

तस्याकृतिविशेषस्य विशेषात् कष्टम् ईदृशम् ।
कच्छाः काशच्छलाद् ऊहुर् इतीव पलितागमम् ॥

1.14

पश्यन्त्या इव कष्टां ताम् अवस्थां मैथिलीपतेः ।
शुष्कपङ्कचयव्याजाद् विदद्रे हृदयं भुवः ॥

1.15

वृष्टिविच्छेदजातेन तानवेनासमाप्तिना ।
प्रपेदिरे जलधरास् तस्य सब्रह्मचारिताम् ॥

1.16

ययौ विरहसंवर्तः पद्मिनीराजहंसयोः ।
अपारदुःखार्णवयोर् न सीतारामभद्रयोः ॥

1.17

शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः ।
रामस्य विशदालापशुश्रूषानिभृता इव ॥

1.18

तस्य चक्रुश् चमत्कारं व्यतीतसमया अपि ।
स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥

1.19

अदृश्यन्त पुरस् तेन खेलाः खञ्जनपङ्क्तयः ।
अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥

1.20

अब्रवीद् अथ कालज्ञस् तत्कालप्रतिपत्तये ।
प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहम् ॥

1.21

जातं विभातम् अमलं पश्य प्रावृण्णिशा गता ।
उत्साहकमलस्यायं विकासावसरस् तव ॥

1.22

उच्छ्रयं तीरतरवो रवेर् ऊर्जम् अभीषवः ।
मदं गोपतयो गृह्णन्त्य् अभियोगं जिगीषवः ॥

1.23

प्रसीद दीयतां कर्णः कूजद्भिः कुररैर् अमी ।
प्रार्थयन्तीव संचारं तटाः कर्दमदुर्गताः ॥

1.24

भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु ।
अयं सम्पतितुं कालः स दुष्कालो ऽतिवाहितः ॥

1.25

सुदूरोन्नतपर्यन्तास् तीर्यन्ते संक्रमैर् इव ।
अनल्पगाधाः सरितस् तरुभिः पूरपातितैः ॥

1.26

आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव ।
कुलाभ्याम् इव कूलाभ्याम् आपत्स्व् अपि चकासति ॥

1.27

जलजानां सुमनसां वयसां जलसेविनाम् ।
अस्य प्रतिजलाधारं सामग्र्यम् अवलोक्यते ॥

1.28

युयुत्सारभसोत्खातसरित्खातकरोधसः ।
कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्य् अधः ॥

1.29

विश्वेश कुरु विश्वासम् आवर्तन्ते न ते घनाः ।
अमी श्यामलयन्त्य् आशाः शुकाः शालिवनोन्मुखाः ॥

1.30

मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्य् अमी ।
साकेतम् अधितिष्ठन्तम् अर्थिनस् त्वाम् इवोन्मुखाः ॥

1.31

कार्यदिग् गृह्यतां कापि किम् आर्य स्थीयते वृथा ।
एवम् एवायम् अस्माकम् इष्टो ऽपि किम् उपैष्यति ॥

1.32

विजयाय भवासीनो मय्य् अर्पितवपुर्भरः ।
मूर्च्छानुवलनव्यस्तः प्रस्तरस् त्यज्यताम् अयम् ॥

1.33

प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः ।
सार्यन्तां क्षणम् उद्धूय स्थगितांसतटा जटाः ॥

1.34

मुहूर्तं क्रियताम् आर्य कपोलविरही करः ।
व्युषितो वल्कलग्रन्थिर् अंसाद् उन्मोच्यताम् अयम् ॥

1.35

इतो वितत्य दीयन्ताम् इषवः क्लिन्नयन्त्रणाः ।
निर्मुक्तार्द्रजरच्चैलम् आदत्ताम् आयतं धनुः ॥

1.36

इतो ऽवतीर्यतां प्रास्थाद् अस्वास्थ्यम् इदम् उज्झ्यताम् ।
जहीषुभिर् दशग्रीवं दशदिग्वेधशोधितैः ॥

1.37

ऋजुर् आदीयतां पन्थाः कार्यकन्था गरीयसी ।
उत्सार्यताम् इदं दूरं तमः किंकार्यतामयम् ॥

1.38

आर्यायाः शिवम् एवास्ति शत्रुर् निहत एव ते ।
अलं दत्त्वावसादाय त्रैलोक्यशरणं वपुः ॥

1.39

राक्षसापशदः को ऽसौ त्वयि सज्यशरासने ।
अनेन ते ऽवसादेन दूरम् आरोपितः पुनः ॥

1.40

अश्रुवेगैः प्रमीलाभिर् विलापैर् अखिलः स ते ।
आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥

1.41

क्रियताम् अधुनोत्साहश् चिन्त्यतां निधनं द्विषः ।
कः स्वबाहुसहायानां महताम् आत्मनिग्रहः ॥

1.42

भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे ।
तुभ्यं पुरुषनागाय निर्विघ्नतरसे ऽधुना ॥

1.43

प्रसीद कुरु भूयो ऽपि देहयात्रां यथा तथा ।
अनुल्लङ्घितविज्ञप्तिर् लक्ष्मणो ऽवरजेषु ते ॥

1.44

अगाधं धैर्यम् आर्यस्य त्रिषु लोकेषु गीयते ।
जनमात्रोचितः को ऽयम् आकल्पकपरिग्रहः ॥

1.45

अरोपशमितोदग्रजामदग्न्याग्नितेजसः ।
प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥

1.46

स्वकृत्यभारसन्न्यासी यावद् इत्थं विषीदसि ।
तावद् अन्तकदंष्ट्राणाम् अरातिर् अतिथिर् न ते ॥

1.47

आततायी स विज्ञातो जीवत्य् आर्येति च श्रुतम् ।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥

1.48

न ज्ञायते परं व्यक्तम् अरेर् मायाविनः पदम् ।
तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतम् ॥

1.49

दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः ।
क्षणान् नूनम् असव् आर्यपादमूले पतिष्यति ॥

1.50

शालिपिङ्गमहीपृष्ठस्पर्धयेव भविष्यति ।
रंहस्विहरिसंघातसम्पातकपिलं नभः ॥

1.51

तेषाम् आरोषरुचिरैर् अचिरान् मुखमण्डलैः ।
द्रक्ष्यते तरुणादित्यशतच्छन्नम् इवाम्बरम् ॥

1.52

अहो दीप्तिर् अहो कान्तिर् अहो शीलम् अहो बलम् ।
अहो शक्तिर् अहो भक्तिर् अहो प्रज्ञा हनूमतः ॥

1.53

प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा ।
नूनम् अस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥

1.54

स च प्रत्युपकाराय त्वरयत्य् एनम् आदृतः ।
ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवान् अपि ॥

1.55

तद् एवं हेतुना केन वानरेन्द्रो विलम्बते ।
नासौ कृतघ्नस्य भवेद् गुणवद्भृत्यसंग्रहः ॥

1.56

आगन्तव्यं ध्रुवं तेन मार्गितार्या प्रवृत्तिना ।
प्रपन्नपरकृत्यानाम् अत्युष्णो हि समुद्यमः ॥

1.57

त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा ।
न तेनामूर् ददृशिरे दिशः प्रोषितकालिकाः ॥

1.58

कियच्चिरं पुनर् असौ तस्य न श्रुतिम् एष्यति ।
क्रीडातटाकहंसानां निनादो मदमूर्छितः ॥

1.59

उक्तैः किम् अथ भूयोभिर् अद्य श्वो वागमिष्यति ।
पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥

1.60

व्यतिरेके ऽपि यत् कार्यं तदप्यार्य प्रधार्यताम् ।
गृह्यतां कार्यसिद्धिर् नस् तद्विलम्बतिरस्कृता ॥

1.61

यस् तथोपकृतः पूर्वम् आर्येणार्याकृते ऽधुना ।
स शीतलः स्याद् अथवा परचित्तानि वेत्ति कः ॥

1.62

स प्रतिश्रुतम् अर्थं नः स्फीतो विस्मृतवान् इव ।
गत्वाशु स्मार्यताम् आर्य कार्यतप्तस्य का क्षमा ॥

1.63

तम् अहं बोधयिष्यामि दण्डगर्भाभिर् उक्तिभिः ।
साम संमीलयत्य् एव सुखसक्तान् प्रमादिनः ॥

1.64

प्रसीद जीयतां मोहः को ऽहम् इत्य् अवधीयताम् ।
द्रुतम् उत्तीर्ण एवास्ते व्यसनाब्धिः कियान् अयम् ॥

1.65

सूनृतैर् इति सौमित्रेः प्रीतः पीयूषवर्षिभिः ।
तम् अन्तर्वेदनावेगं जिगायेव रघूद्वहः ॥

1.66

उन्मीलयामास दृशौ दिशः किंचिद् अलोकत ।
उन्ननाम च तल्पान्तान् मोचयन् पक्ष्मला जटाः ॥

1.67

सत्वरप्रह्वसौमित्रिचीरोत्सारितरेणुनि ।
शुचिनि क्वचिद् आसन्ने निषसाद शिलातले ॥

1.68

उपविष्टस् तदा रामो न रेजे सीतया विना ।
ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥

1.69

अनूपविष्टम् अनुजं दनुजारिम् इवाद्रिजित् ।
प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥

1.70

एह्य् एहि प्रियसंलाप ह्लादयालिङ्गितेन माम् ।
रुद्धं रुद्धम् उपैत्य् अश्रु त्वाम् अपीक्षे न लक्ष्मण ॥

1.71

हा वत्स भवतो ऽपीयम् अवस्थाङ्गेषु वर्तते ।
ध्रियतां रामहतकः क्लेशयन्न् एकबान्धवम् ॥

1.72

नास्ति वत्स चिकित्सास्य व्याधेर् विधुरजन्मनः ।
यस्य यापनया क्षीणम् इदं ते सान्त्वनामृतम् ॥

1.73

नैकदुर्वारघोराधिघट्टनाचलिता अपि ।
तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥

1.74

पितुर् नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा ।
संस्मरन् नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥

1.75

तातस्य तातमित्रस्य वत्सवत्सलयोस् तयोः ।
अहम् एव गतः पापो निधनाय निमित्तताम् ॥

1.76

प्रियापहारजः शाम्येत् सम्यग् उन्मूलिते रिपौ ।
मन्युर् देहावधिर् अयं तातमित्रविपत्तिभूः ॥

1.77

नभस्तलात् खगपतौ पतति च्छिन्नपक्षतौ ।
को ऽपरस् तां मम सुहृन् मा भैषीर् इत्य् अभाषत ॥

1.78

स्याद् वत्स रामहतकात् क्लीबः कः पुरुषो ऽपरः ।
एकपत्नीम् अनुगताम् अरातेर् यो न रक्षति ॥

1.79

तया तेषु तपस्विन्या सीदतोर् आवयोर् अपि ।
दण्डकारण्यकष्टेषु मुखं न विधुरीकृतम् ॥

1.80

विदेहराजस्य सुता स्नुषा दशरथस्य सा ।
हतरामस्य जायेति भ्रमति स्म वने वने ॥

1.81

स्वम् अप्य् अपुष्णता कायम् अपि जायाम् अरक्षता ।
मया समः श्रुतः को ऽपि जातः क्लीबो रघोः कुले ॥

1.82

त्वं केवलं न सुभ्राता तथा विलपता मुहुः ।
तिर्यञ्चो ऽपि मयामुष्मिन् वने लक्ष्मण रोदिताः ॥

1.83

दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणाम् ।
अवहन् निर्झरनिभान् नगानाम् अश्रुनिम्नगाः ॥

1.84

आराद् आकर्णितस्निग्धनवाब्दनिनदैर् अपि ।
मत्कारुण्याद् अरण्ये ऽपि नानृत्यत कलापिभिः ॥

1.85

सत्यम् एष्यति सुग्रीवः सत्यं जीवति जानकी ।
त्वद्वचो न विपर्येति भ्रातर् ब्रूहि पुनः पुनः ॥

1.86

त्वद्वाक्यशीकरैर् एभिर् निरुद्धबहिरुद्गमः ।
ममान्तर् लेढि मर्माणि सीताविरहमुर्मुरः ॥

1.87

तस्माद् अपि दहत्य् उच्चैर् अयं माम् अपरः शिखी ।
यद् वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥

1.88

गुर्वी पुनश् च लज्जेयम् उत्तमर्णैर् इवाधुना ।
मार्गितव्यो यद् अस्माभिः प्लवगाः प्रत्युपक्रियाम् ॥

1.89

नास्ति प्रत्युपकाराशा तत्र नश् चपले कपौ ।
येनातिलघुनोत्तुङ्गो लङ्घितः सत्यपादपः ॥

1.90

उत्तिष्ठ वत्स गच्छावः साधयामो ऽन्यतो ऽधुना ।
नवैश्वर्यसुखव्यग्रः सुग्रीवो नागम् इष्यति ॥

1.91

तपस्वी रमताम् एवं चिराद् दारैः समागतः ।
स पीड्यमानः प्रणयाद् विरसः किं करिष्यति ॥

1.92

किं च वत्स दशासाम्याज् जाताः स्मः सुहृदः पुरा ।
तस्याधुना तु विस्तीर्णविभवान्धस्य के वयम् ॥

1.93

गृहीतसाधुवर्त्मापि सद्यः सम्प्राप्य सम्पदम् ।
पतति स्खलितो ऽतीव प्रमत्तः प्रहते पथि ॥

1.94

स वत्स विरलो जन्तुर् विपत्कालप्रतिश्रुतम् ।
सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥

1.95

अस्तु साधुर् असाधुर् वा न विचार्यः स मे ऽधुना ।
वत्स नोत्सहते चेतस् तत्र दोग्धुम् उपक्रियाम् ॥

1.96

असाव् अनागतः श्रेयान् आगच्छन् वत्स वार्यताम् ।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥

1.97

कर्तव्योपकृतिः सद्भिर् यत्र तत्र विपद्गते ।
अविमृश्य कृतो ऽस्माभिः स पुनः कृपणः पणः ॥

1.98

किं क्षिप्तम् अचलप्रान्ताद् अन्तःसुप्तशिवाशतम् ।
निर्देशपुरुषेणेव कङ्कालं दुन्दुभेर् मया ॥

1.99

कस्यार्थस्य कृते विद्धाः सप्त सालास् तपस्विनः ।
स मा प्रत्येतु वैधेयः किं न साधितम् अन्यतः ॥

1.100

अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेत् ।
विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥

1.101

न परित्यज्यते मार्गस् तावन् निर्वाच्यकर्दमः ।
यावत् पिहितकष्टाय कार्यायात्मा न दीयते ॥

1.102

इष्वैकया मया विद्धो बालिशेन वलीमुखः ।
अनुद्धाराः शरास् तेन रोपिता मयि वाङ्मयाः ॥

1.103

अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा ।
वत्स कालोचितं शाधि न रामः किंचिद् ईक्षते ॥

1.104

अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहम् ।
दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥

1.105

सनाथोभयपार्श्वस्य त्वया वत्स तया च मे ।
वनेषु च सतः कष्टम् अजनिष्ट न किंचन ॥

1.106

हा भीरु हा प्रियतमे हा मद्विरहकातरे ।
क्वासीत्य् अर्धोक्तिनिस्संज्ञो जगाम स महीतलम् ॥

1.107

मातः कैकेयि तुष्टासि भुङ्क्ष्व राज्यम् अकण्टकम् ।
वदन्न् इत्य् अपतत् तस्य लक्ष्मणश् चरणाब्जयोः ॥

1.108

ततस् तौ साश्रुनयनौ मृगैर् विधुरवीक्षितौ ।
निपेततुर् दिव इव भ्रष्टौ विधुरवी क्षितौ ॥

1.109

इति निपतितयोस् तयोर् द्वयोर् दशरथनन्दनयोर् महीतले ।
दशभिर् अपि दिगङ्गनामुखैर् अधृतिवशाद् इव तत्यजे रुचिः ॥

1.110

एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः ।
यैर् द्वादशार्ककिरणोत्करदुर्निवारः सृष्टो ऽभिनन्दकुमुदस्य महाविकासः ॥

मूल पाठ: Rāmacaritamahākāvye · Edition: K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc