भाषा

ENहिગુ
ग्रंथ पाठ

राक्षसकाव्य · श्लोक 1-20

1

कश् चिद् वनं बहुवनं विचरन् वयःस्थो वश्यां वनात्मवदनां वनितां वनार्द्राम् ।
तर्वर्यरिप्रदम् उदीक्ष्य समुत्थितं खे ना गाम् इमां मदकलः सकलां बभाषे ॥

2

पश्याब्जदृग् गिरितटेषु कुमातृसाह्वान् भूदेवराजरिपुशत्रुसमावधूतान् ।
वैश्वानरारिजरिपुघ्नशराभिभूतैर् दृक्श्रोत्रशत्रुभिर् उपासितपुष्पशोभान् ॥

3

पश्याद्रिसारसदृशीभिर् अमूभिर् अद्भिर् आप्लावयत्य् अमरगुब् धरणीम् अहिघ्नः ।
अब्दः सिताभिर् असितः शबलः खगाभिर् वार्जैः सितैर् इव विभाति वनं प्रबुद्धैः ॥

4

गोष्ठं घृतं सुघृतवाड्भिर् अमूभिर् अग्र्यं गोभिः समुद्धरति यद् बहुधा हिमघ्नः ।
तद् गव्यम् अम्बरगतं शिखिजात्मसंस्थं विष्यन्दमानम् अभिवर्धयतीह गोजान् ॥

5

अब्रुट्पलाशनिभदृग् घनजात्मवक्त्रा वार्चस्वरेभनिभगा गजदोःसमोरुः ।
सीरिध्वजप्रसवतुल्यविषाह्वदासौ न्रा संगता प्रमुदिता प्रसमीक्ष्य वार्दम् ॥

6

सूर्यांशुनामपतिर् उन्नतदृक्प्रगामी वाङ्नामभिः परिवृतो विषनामदाभिः ।
उक्षा वरः प्रमुदितः प्रतिनानदीति गर्जन्तम् ईक्षणहितोच्चयतुल्यरूपम् ॥

7

एनं पयोदपतिर् उन्नमितं पयोदं खस्थं महीतलगतः प्रतिगर्जतीव ।
भित्त्वावनिं वनरुहाक्षि शिरोरुहाभ्यां संप्रस्थितो ऽमृतधरैर् अभिषिच्यमानः ॥

8

स्रोतोजविक्षतजभूधरधातुरूपाः खस्थाः पयोजदलदृक् शुचिशुक्रमासे ।
मासोर् नभस्यनभसोर् अतिसंपतन्तस् तीव्रं विषं विषधराः परिनिर्वपन्ति ॥

9

स्वयोनिभक्षध्वजसंभवानां श्रुत्वा निनादं गिरिगह्वरस्थः ।
तमोऽरिबिम्बप्रतिबिम्बधारी विरौति कान्ते पवनाशनाशः ॥

10

गोष्ठश् च कुङ्कुमवपुः प्रतिराजते ऽसौ सप्ताद्रिदैत्यभुजगोत्तमशत्रुगोपः ।
उर्वीधराभम् अचिरोत्थितम् अब्धरं खे दृष्ट्वाहिहा प्रमुदितो हिमहाह्वयानः ॥

11

कृष्णो ऽब्धरः क्षरति तोयम् असाव् अजस्रम् अन्याव् इमौ रणगताव् इव चेभराजौ ।
अन्ये त्व् अमी द्विरदवृन्दनिभाः क्षरन्तः प्रच्छादयन्त्य् अमरसिद्धविमानमार्गम् ॥

12

वार्दाः खगाः क्षितिधरागमनप्रकाशा नेमीभरासभतुरंगमतुल्यघोषाः ।
वाय्वीरिताः खम् अवतत्य वनं क्षरन्तो वार्भिः क्षितिं घृतधराः परिणिर्वपन्ति ॥

13

एषो ऽङ्घ्रिपाशनरिपुघ्नसुतारिसाह्वम् आरुह्य तिष्ठति सुगात्रि भुजंगमारिः ।
यस्य स्वनैः प्रमुदितस्य ममाद्य बाले तालध्वजावरजसूनुशराः पतन्ति ॥

14

उस्राविषं स्थलगतो ऽत्ति तथैव वार्जो वार्भ्यो द्विजो हरिदृग् एष दशार्धगूढः ।
वाताशनः खशयनः स्मरति स्थलस्य चक्षुःश्रवा वनभयात् सुरशत्रुनामा ॥

15

पक्ष्य् अश्वमेधतुरगप्रतिमो ऽष्टवर्णो वार्दं न बह्व् इति समाह्वयते ह्य् अहिघ्नः ।
भेकस् तथैव खशयाशयवेद्यवाणिः शब्दं करोत्य् अतिभृशं विषराशिमग्नः ॥

16

ना विष्किरावनम् उपेत्य कुमातृसाह्वम् आक्रीदते मधुकलो ऽङ्गनया समेतः ।
अन्यस् त्व् अयं मणिवराभम् उपेत्य गोजं ना रामया सह पयःपतिजां वृणीते ॥

17

स्यूतं महत् क्षतजवर्णनिभं नरो ऽसौ बिभ्रत् त्व् अमूनि च भिनत्ति सरोरुहाणि ।
तज्जेन चापि रजसा वनितां वयःस्थो ऽप्य् अभ्युद्धरत्य् अवकिरत्य् अभिषिच्यमानः ॥

18

पङ्के निमग्नम् इभवृन्दम् अदः सवारि गर्जत् तिमिक्षयदवृन्दम् इवावभाति ।
वार्यात्मनामशतचित्रतनुः सुपर्णो योषिद्वृतः समदनः प्रतिरोरवीति ॥

19

विस्फोटिताब्धररवेण रिरंसुर् एष संत्रासितो हरिर् अनोकहनिष्कुटस्थः ।
संलीयते तडितम् अप्य् अभिवीक्ष्य विग्नः खात् खं महत्तरम् असौ समनुप्रविष्टः ॥

20

एतावद् उत्तमवचः सुमनाः स उक्त्वा रन्त्वा दिनं सह तया प्रियया ह्य् अदीनः ।
युक्तं चतुर्भिर् अनडुद्भिर् अदीनवाड्भिर् आरुह्य यानम् अथ ना प्रययौ स्वगेहम् ॥

मूल पाठ: Rākṣasakāvya with Ṭīkā · Edition: Kāvyarākṣasaṃ saṭīkam , ed. Karl Gustav Hoefer, Sanskrit Lesebuch mit Benutzung handschriftlicher Quellen , Berlin: Besser, 1849, pp. 86-93. Rākṣasakāvyam , ed. Johannes Häberlin, Kāvyasaṃgrahaḥ , Calcutta, 1861 (VS 1918), pp. 586-589 (= 2nd augm. ed. of Id., Kávya-sangraha , Calcutta: W. Thacker, 1847). Vidvadvinodakāvyam , ed. Haridas Hirachand, Kavya Kalapa, Number First , Bombay: Ganpat Krishn · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc