रघुवंश-कस्ह्म् · अध्याय 1
कालिदास: रघुवंश
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्
मन्दः कवियशःप्रार्थी गमिष्याम्यवहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः
अथवा कृतवाग्द्वारे वंशे ऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः
सो ऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम्
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम्
त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्
शैशवे ऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्
रघूणामन्वयं वक्ष्ये तनुवाग्विभवो ऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रतारितः
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव
व्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भः प्रारम्भसदृशोदयः
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः
रेखामात्रमपि क्षुण्णादात्मनो वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रे च व्यापृता बुद्धिर्मौर्वी धनुषि चातता
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत्
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता
द्वेष्यो ऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियो ऽप्यासीद्दष्टो ऽङ्गुष्ठ इवाहिना
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव
तस्य दाक्षिण्यरूढेन नाम्ना मागधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः
गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् ।
ईप्सता सन्ततिं न्यस्ता तेन मन्त्रिषु कोसला
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम्
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव
मा भूदाश्रमपीडेति परिमेयपुरःसरौ ।
वशानागौ सगन्धाल्पकलभानुगताविव
सेव्यमानौ सुखस्पर्शैः सालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ
हैयङ्गवीनमादाय घोषवृद्धानुपागतान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम्
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु
श्रेणिबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ
ग्रामेष्वात्मनिसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेशयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः
वनान्तरादुपावृत्तैः स्कन्धासक्तसमित्कुशैः ।
अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपस्विभिः
सेकान्ते मुनिकन्याभिर्विविक्तीकृतवृक्षकम् ।
आश्वासाय विहङ्गानामालवालाम्बुपायिनाम्
आतपापायसङ्क्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः
अभ्युद्धृताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः
अथ यन्तारमादिश्य धुर्यान्विश्रमयेति सः ।
तामवारोहयत्पत्नीं रथादवरुरोह च
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे
विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्
तयोर्जगृहतुः पादौ राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः
आतिथेयस्तमातिथ्यविनीताध्वपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम्
तव मन्त्रकृतो मन्त्रैर्दूरात्संयमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टीभवति सस्यानामवग्रहविशोषिणाम्
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चसम्
तदेवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः
किं तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पयः पूर्वे स्वनिःश्वासकदुष्णमुपभुञ्जते
सो ऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चान्धकारश्च लोकालोक इवाचलः
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या तु परत्रेह च शर्मणे
तया हीनं विनेता मां कथं पश्यन्न दूयते ।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम्
असह्यपीडं भगवन्नृणबन्धमवैहि मे ।
अरुन्तुदमिवालानं नवबद्धस्य दन्तिनः
तस्माद्यथा विमुच्येयं संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापे ऽर्थे त्वदधीना हि सिद्धयः
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः
सो ऽपश्यत्प्रणिधानेन सन्ततिस्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत्
पुरा शक्रमुपस्थाय तवोर्वीं प्रतियास्यतः ।
आसीत्कल्पतरुच्छायासेविनी सुरभिः पथि
इमां देवीमृतुस्नातां स्मृत्वा सपदि सत्वरः ।
प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनः
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वा शशाप सा
स शापो न त्वया राजन्न च सारथिना श्रुतः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे
अवैमि तदपध्यानाद्यत्नापेक्षं मनोरथम् ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः
हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति
स त्वमेकान्तरां तस्या मदीयां वत्समातरम् ।
आराधय सपत्नीकः सा वां कामं प्रदास्यति
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्
ताम्रा ललाटजां राजिं बिभ्रती सासितेतराम् ।
सन्ध्या प्रातिपदेनेव व्यतिभिन्ना हिमांशुना
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोधनः ।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत्
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत्
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थानमाचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिवेरपः
वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
प्रयातां प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः
अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जितश्रियम्
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम्
निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय
मूल पाठ: Raghuvaṃśa-kashm, 1-6 · Edition: of Dominic Goodall and Harunaga Isaacson: The Raghupañcikā of Vallabhadeva, being the earliest commentary on the Raghuvaṃśa of Kālidāsa, Critical Edition with Introduction and Notes, Volume 1. Groningen: Egbert Forsten 2003. · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0