भाषा

ENहिગુ
ग्रंथ पाठ

प्रतीत्यसमुत्पादावदान · अध्याय 75

75.1

सर्वम् अविद्यामूलं संसारतरुप्रकारवैचित्र्यम् ।
ज्ञातुम् वक्तुं हन्तुं कः शक्तो ऽन्यत्र सर्वज्ञात्

75.2

श्रावस्त्यां स्वस्तिमान् पूर्वं जिनो जेतवने स्थितः ।
अशेषदर्शी भगवान् भिक्षुसंघम् अभाषत

75.3

शृणुत श्रेयसे ज्ञानालोकनिर्मलमानसाः ।
प्रतीत्यसमुत्पादं वः कथयामि यथाक्रमम्

75.4

अविद्यावासनैवेयं दुःखस्कन्धस्य भूयसः ।
संसारविषवृक्षस्य मूलबन्धविधायिनी

75.5

तत्प्रत्ययस् तु संस्काराः कायवाङ्मानसात्मकाः ।
संस्कारोत्थं च विज्ञानं मनःषष्ठेन्द्रियात्मकम्न्

75.6

तत्प्रत्ययं नामरूपं संज्ञासंदर्शनाभिधम् ।
मनःषष्ठेन्द्रियस्थानं षडायतनम् अप्य् अतः

75.7

षडायतनसंश्लेषः स्पर्श इत्य् अभिधीयते ।
षट्स्पर्शानुभवो यश् च वेदना सा प्रकीर्तिता

75.8

तया विषयसंक्लेशरागात् तृष्णा प्रजायते ।
कामादिषु तदुद्भूतम् उपादानं प्रवर्तते

75.9

उपादानोद्भवः कामरूपारूप्यमयो भवः ।
नानायोनिपरावृत्त्या जातिर् भवसमुद्भवा

75.10

जरामरणशोकादिसंततिर् जातिसंश्रया ।
अविद्यादिनिरोधेन तेषां व्युपरमक्रमः

75.11

प्रतीत्योत्पादो ऽयं बहुगतिर् अविद्याकृतपदः
स चिन्त्यो युष्माभिर् विजनवनविश्रामशमिभिः ।
परिज्ञातः सम्यग् व्रजति किल कालेन तनुतां
तनुत्वं संप्राप्तः सुखतरनिवार्यश् च भवति

मूल पाठ: Pratītyasamutpādāvadāna · Edition: ed. M. Mejor. Kṣemendra's Bodhisattvāvadānakalpalatā. Studies and Materials. Tokyo 1992 (Studia Philologica Buddhica, Monograph Series, 8), pp. 16-22. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc