भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 64

64.1

यदि युक्त्या नोपपद्यते इति कृत्वा सर्वमिदं बाह्यमाध्यात्मिकं भावजातं शून्यमिति प्रतिपादितम्, ननु च एवं सति बहवश्च महान्तश्च दोषा भवत आपद्यन्ते । कथं कृत्वा? यदि सर्वमिदं शून्यं स्यात्, तदा यच्छून्यं तन्नास्ति, यच्च नास्ति, तदविद्यमानत्वाद् वन्ध्यापुत्रवन्नैवोत्पद्यते न चापि निरुध्यते, इति न कस्यचित्पदार्थस्य उदयो व्ययश्च । तदभावाच्च चतुर्णामार्यसत्यानामभावः ते शून्यवादिनः प्रसज्यते । कथं कृत्वा? इह हि पूर्वहेतुजनिताः प्रतीत्यसमुत्पन्नाः पञ्चोपादानस्कन्धाः दुःखदुःखतया विपरिणामदुःखतया संस्कारदुःखतया च प्रतिकूलवर्तित्वाच्च पीडात्मकत्वेन दुःखमित्युच्यते । एतच्च दुःखमार्या एव विपर्यासप्रहाणे सति दुःखमिति संजानते, न अनार्याः, विपर्यासानुगतत्वात्, यथादर्शनं च पदार्थस्वभावव्यवस्थानात् । यथा हि विपर्यस्तेन्द्रियाणां मधुरस्वभावमपि गुडशर्करादिकं तिक्ततया उपलभमानानां ज्वरादिरोगातुराणां तिक्ततैव सत्यं तज्ज्ञानापेक्षया, माधुर्यम्, तेनात्मना तस्य वस्तुनो ऽनुपलभ्यमानत्वात्, एवमिहापि यद्यपि पञ्चोपादानस्कन्धा दुःखस्वभावा भवन्ति, तथापि ये एतान् दुःखात्मकान् पश्यन्ति, तेषामेव दुःखं व्यवस्थाप्यते, न विपर्यासानुगमादन्यथोपलभमानानामिति । अतः आर्याणामेव दुःखात्मता सत्यमिति कृत्वा दुःखमार्यसत्यमित्युच्यते । ननु च अनार्यैर्दुःखा वेदना दुःखमिति परिच्छिद्यते इति, एवं तत्कथं दुःखमार्याणामेव सत्यम्? सत्यम् । न हि दुःखैव वेदना केवलं दुःखसत्यम्, किं तर्हि पञ्चाप्युपादानस्कन्धाः, इत्यतः आर्याणामेव तत् सत्यमिति कृत्वा आर्यसत्यमिति व्यवस्थाप्यते । यथोक्तम्-
ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वि(वे?)द्यते पुंभिः ।
अक्षिगतं तु तदेव हि जनयत्यरतिं च पीडां च ॥
करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म ।
अक्षिसदृशस्तु विद्वान् तेनैवोद्वेजते गाढम् ॥ इति ।
तस्मादार्याणामेव तद्दुःखसत्यमिति दुःखमार्यसत्यमिति व्यवस्थाप्यते ॥
कदा च तद्दुःखमार्यसत्यं युज्यते? यदा संस्काराणामुदयव्ययौ संभवतः । यदा तु शून्यत्वान्न किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा नास्ति दुःखम् ॥
असति च दुःखे कुतः समुदयसत्यम्? यतो हि हेतोर्दुःखम्, समुदेति समुत्पद्यते स हेतुः तृष्णाकर्मक्लेशलक्षणः समुदय इत्युच्यते । यदा तु फलभूतं दुःखसत्यं नास्ति, तदा फलरहितस्य हेतुकत्वानुपपत्तेः समुदयो ऽपि नास्ति ॥
दुःखस्य च विगमः अपुनरुत्पादः निरोध इत्युच्यते । यदा तु दुःखमेव नास्ति, तदा कस्य निरोधः स्यादिति? अतो दुःखनिरोधो ऽपि न संभवति । असति हि दुःखे निरोधसत्यस्याप्यभावः । असति च दुःखनिरोधे कुतो दुःखनिरोधगामिनी आर्याष्टाङ्गमार्गानुगा प्रतिपद् भविष्यतीति मार्गसत्यमपि नास्तीति । तदेवं शून्यत्वं भावानां ब्रुवतः चतुर्णामार्यसत्यानामभावः प्रसज्यते

64.2

ततश्च को दोष इति? उच्यते-
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च ।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc