भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 29

29.1

तत्र सह तेन वर्तत इति सतत्, सततो भावः सतत्त्वम्, अपृथक्त्वम्, अनन्यत्वम् एकत्वमित्यर्थः । तदेतत् सतत्त्वं ये वर्णयन्ति, न तानाचार्यः शासनार्थपण्डितान् मन्यते । तद्यथा- आत्मा उपादानेन प्रज्ञप्यते येन, सहैव तेनोपादानेन संभवति । स न पृथक् । अव्यतिरेकेणैव भवतीत्यर्थः । एवं येन कारणेन मृदादिना घटः प्रज्ञप्यते, तदव्यतिरेकेणैव स भवति, न पृथक् । एवमात्मनो भावानां च सतत्त्वं ये वर्णयन्ति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्थ शाश्वतोच्छेदरहितस्य उपादायप्रज्ञप्त्यभिधानस्य तत्त्वं पश्यन्ति । पृथक् पृथक् च ये निर्दिशन्ति, पृथगित्यात्मानम्, पृथगुपादानम्, पृथक् कार्यम्, पृथक् कारणम्, इत्यादिना अन्यत्वं पश्यन्ति, अमूनपि न शासनस्यार्थकोविदानाचार्यो मन्यते । यथोक्तम्-
एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् ।
संक्रान्तिमासाद्य गतं बुद्धवांस्त्वमनिन्दितः ॥
एवं च अग्नीन्धनपरीक्षया अधिगतधर्मतत्त्वपरमस्य योगिनः कल्पेनाकालालिप्सितैरपि नैव वपुर्दह्यते रागद्वेषमोहहुताशनैरपि वा इति । यथोक्तं भगवता-
यथ गगणु न जातु दग्धपूर्वं सुबहुभि कल्पशतैर्हि दह्यमानम् ।
गगनसम विजानमान धर्मान् सो ऽपि न दह्यति जातु साग्निमध्ये ॥
सर्वि हि ज्वलमाणि बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा ।
ज्वलत अयु प्रशाम्यतामशेष पृथिवि विनश्यिपि नैवस्यान्यथात्वम् ॥
तथा
अरणिं यथ चोत्तरारणिं हस्तव्यायामु त्रयेभि संगतिः ।
इति प्रत्ययतो ऽग्नि जायते जातु कृतु कार्य लघू निरुध्यते ॥
अथ पण्डितु कश्चि मार्गते कुत अयमागतु कुत्र याति वा ।
विदिशो दिश सर्वि मार्गतो नागतिर्नास्य गतिश्च लभ्यति ॥
स्कन्धायतनानि धातवः शून्य आध्यात्मिक शून्य बाहिराः ।
सर्वात्मविविक्तनालया धर्म आकाशसभावलक्षणाः ॥
इमु ईदृश धर्मलक्षणा बुद्ध दीपंकरदर्शने त्वया ॥
अनुबुद्ध यथ त्वयात्मना तथ बोधेहि सदेवमानुषान् ॥
विपरीतअभूतकल्पितै रागदोषैः परिदह्यते जगत् ।
कृपमेघशमाम्बुशीतलां मुञ्च धाराममृतस्य नायक ॥
इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ अग्नीन्धनपरीक्षा नाम दशमं प्रकरणम् ॥
11
पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् ।
अत्राह- विद्यत एव आत्मा, संसारसद्भावात् । यदि हि आत्मा न स्यात्, कस्य पञ्चगतिके आजवंजवीभावेन जन्ममरणपरंपरया संसरणं स्यात्? उक्तं हि भगवता- अनवराग्रो हि भिक्षवो जातिजरामरणसंसारः इति । अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां तृष्णागण्डुरबद्धानां संसरतां संधावतां पूर्वा कोटिर्न प्रज्ञायत इति । यदा च भगवदुपदेशात्संसारो ऽस्ति, तदा संसर्ताप्यस्ति । स च आत्मा उच्यत इति । उच्यते । स्यादात्मा, यदा संसार एव स्यात् । कथम्? यस्मादस्य-
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारो ऽनवराग्रो हि नास्यादिर्नापि पश्चिमम्

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc