Prasannapada · अध्याय 1
नागार्जुनीयं
मध्यमकशास्त्रम् ।
आचार्यचन्द्रकीर्तिविरचितया प्रसन्नपदाख्यव्याख्यया संवलितम् । 1
1
प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् ।
आर्यमञ्जुश्रिये कुमारभूताय नमः ।
यो ऽन्तद्वयावासविधूतवासः संबुद्धधीसागरलब्धजन्मा ।
सद्धर्मतोयस्य गभीरभावं यथानुबुद्धं कृपया जगाद
यस्य दर्शनतेजांसि परवादिमतेन्धनम् ।
दहन्त्यद्यापि लोकस्य मानसानि तमांसि च
यस्यासमज्ञानवचःशरौघा निघ्नन्ति निःशेषभवारिसेनाम् ।
त्रिधातुराज्यश्रियमादधाना विनेयलोकस्य सदेवकस्य
नागार्जुनाय प्रणिपत्य तस्मै तत्कारिकाणां विवृतिं करिष्ये ।
उत्तानसत्प्रक्रियवाक्यनद्धां तर्कानिलाव्याकुलितां प्रसन्नाम्
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0