भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 1.14

1.14.1

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे त्रयोदशो ऽध्यायः
श्रीहंस उवाच
भूमेरधस्तादतलो वितलः सुतलस्ततः ।
अयुतोन्नाहविस्तारस्तलातलमहातलौ

1.14.2

रसातलश्च पातालह्येतस्माद्युत्तरोह्यधः ।
द्विसहस्रोरु भूकन्दास्त्वन्तरन्तर्भिलोपमाः

1.14.3

महामणिप्रकाशेता सूर्यादिग्रहवर्जिताः ।
मेरुरुत्तरस्तेषां मार्गः सर्वत्र संमतः

1.14.4

तेषु सर्वेषु कल्परूहतुल्याश्च पादपाः ।
कामधेनुसमागावः चिन्तामणि समाः शिलाः

1.14.5

तत्रत्यानां यथायोग्यं सतामप्यसतां फलम् ।
यच्छन्ति स्वच्छसलिलं चापि तत्तद्गतं शुभम्

1.14.6

न तत्रायासतः सौख्यम् अनायासात् सुखावहः ।
भुज्योपयुक्तानन्तोरु वस्तुजालसमाकुलः

1.14.7

यावत्काम्य शुभन्तावदायुषष्यमसतामधः ।
भूमौ भारतगा ये च कृते लक्षायुषः स्मृताः

1.14.8

त्रेतादिषु त्रिषु दशांशन्यूनायुर्मितानराः ।
आधिव्याधिजरावार्धिक्यायासेत्यभिधादयः

1.14.9

युगायुर्नियमात् कालमृत्यवस्तत्र नैव हि ।
तत्रस्थयोः सदसतोर्भक्तिद्वेषौ विना क्वचित्

1.14.10

तथा विधिनिषेधौ च न च वर्णाश्रमादयः ।
न तत्र कर्मज्ञानादिः पूर्वकर्मभुजो ऽ(जौ)खिलाः

1.14.11

प्रायस्यांशास्तदुत्पन्नाः भूमौ जाता विधीशयोः ।
वरैःसुरद्विषो विष्णुवायुभ्यामवतारकैः

1.14.12

तयोर्मृताः पुनः पूर्वस्थाने प्रारब्धकाम्यके ।
शुभं भुञ्जन्ति निष्काम्यशुभं तेषां न वै क्वचित्

1.14.13

काम्यपापान्नारकिनो निष्कामाशुभतस्तनूः ।
इच्छन्तोन्तश्चरादैत्यानिरंशाभारतार्जितान्

1.14.14

काम्यात्तेषु वसन्ति स्म दानवाश्रयभूतयः ।
सदा शेषादिकस्तत्र वसन्ति सति कारणे

1.14.15

हरीच्छया सुरास्तत्र वसन्तः कर्मतो न हि ।
एते हि लक्षभूकन्दमध्ये लोकास्ततोह्यधः

1.14.16

पाताले नरकाश्चाष्टाविंशत्संख्या हरेः कृताः ।
तदधस्तात् पञ्चविंशत्कोटिगर्भाम्बुनिर्मलम्

1.14.17

लक्षोनं यत्र लक्ष्मीशो यादोरूपी विराजते ।
सहस्रमूर्ध्नः फणिनस्त्वेकस्मिन् मस्तके तदा

1.14.18

सर्षपायति वै विश्वं निखिलं वारुणीपतेः ।
धराखिलेयं सद्वीपा स सागरकुलाचला

1.14.19

तस्याश्रयोवायुकूर्मः तस्य कूर्माकृतिर्हरिः ॥
तं धत्ते जलमध्यस्था शक्तिराधाररूपिणी

1.14.20

सङ्कर्षणनृसिंहात्मा सहस्रा(संहर्ता)नन्त नामकः ।
तदधस्ताच्चमण्डूको वराहस्तदधस्तटी

1.14.21

तमण्डखर्परस्पृष्टा पादमाहुरधस्तले ।
तेषामुपरि भूलोकस्तन्मध्ये मेरुभूधरः

1.14.22

स कञ्जनाभनाभ्युत्थ पद्मनाभबिसाकृतिः ।
मेरुमध्योत्थनालोयमूर्ध्वषट्कञ्जसंश्रयः

1.14.23

शतयोजनविस्तीर्णं सत्यलोकान्तदीर्घवान् ।
वज्रातिसुधृढो गर्भछिद्रं तेने प्रकाशवान्

1.14.24

लक्षोन्नतस्थलो भूम्याः भुवर्लोकस्तदाश्रयः ।
मणिहेमामयो लक्षभूकनन्दो लोकसुन्दरः

1.14.25

सप्तप्राकारकलितः नाना भोगोरुयोगिभिः ।
जडैरर्थेःसत्वगुणप्राचुर्यैः विशदालयैः

1.14.26

भूमेः कोट्युन्नतस्वर्गलोकोरम्यो ऽतिवर्तुलः ।
कोटियोजनविस्तारे भुवर्लोकवदेव सः

1.14.27

द्विलक्षभूकन्दयुक्तो मेरुनालमुपागतः ।
मणिहेममयोत्तुङ्ग सप्तप्राकारभासुरः

1.14.28

दशयोजनविस्ताराः चतुरस्रासुवीथयः ।
यत्रानेकपताकाश्च दर्पणानेकसङ्कुलाः

1.14.29

मणिशय्यासनानन्तसात्विकोचितसाधनैः ।
पूर्वपुण्यसुवर्णश्रीराज(न्म)मन्दिरमण्डिताः

1.14.30

नानोद्यानाष्टदिक्पालनिलयाष्टकभासुराः ।
मध्येमणिगणभ्राजद्विष्णुमन्दिरमण्डपः

1.14.31

सर्वायुधरथाकीर्णचिन्तामण्यादि सङ्कुलैः ।
मुक्तामणिसृजोपेत सर्वाभरणसन्तताः

1.14.32

दिव्यवस्त्रान्नदानेकपारिजातादि सङ्कुलाः ।
अष्टाविंशत्पुरद्वारतोरणाट्टालगोपुराः

1.14.33

हर्म्यायुतवृतानेकगृहद्वर्याश्रितापगाः । ।
मन्दाकिनी मणिमया(त्कल्प)तुल्यरूपाम्बुजाश्रया

1.14.34

परिघारूपतो यत्र भाति यादोगणान्विता ।
सुशब्दस्पर्शरूपेतः सुरसो(स्ये)ति सुगन्धवान्

1.14.35

मर्त्यदेवासुरैर्भोग्य पृथगर्थ समाकुलाः ।
भुवर्लोकस्त्वधोलोकः गुणैःशतगणोत्तरः

1.14.36

ततः दशगुणोद्रिक्ताः लोकाः स्वर्गादयः क्रमात् ।
तथा च तत्तलोकस्थं सुरोपसुरसन्ततः

1.14.37

अधिकारिकसन्मर्त्यगन्धर्वाद्यल्पचेतसाम् ।
यथायोग्य फलं तेषाम् आधारा(माधास्यद्वि)विष्णुरव्ययः

1.14.38

ततश्च सार्धकोट्युच्चो महर्लोकस्त्वकर्मकः ।
ततः कोटिद्वयोच्चस्थ जनोलोकः सुपूजितः

1.14.39

ततो सार्धद्विकोट्युच्चस्तपोलोकः सुचिद्गमः ।
ततः कोट्युन्नतोयं सत्यलोकोति भासुरः

1.14.40

त्रिचतुः पञ्चषल्लक्षभूकन्दाज्ञानगोचरः ।
नाभ्युत्थित महानालस्याग्रस्थे सत्यलोकगे(के)

1.14.41

ब्रह्मा चतुर्मुखो जातो विष्णुना सर्वलोकसृट् ।
स्वर्लोकसविशेषार्थाः महरादिषु सन्तताः

1.14.42

अजरोत्पत्समानोरु नानामर्त्यगणाश्रयाः ।
एतादृशं लोकपदमाध्याजार्धायुषोन्तिमे

1.14.43

दिने सृजद्धरिस्तत्र प्राकृतेनाभिमानिनी ।
लोको ऽजस्य भुवः कोटित्रयोदशमितो मतः

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc