भाषा

ENहिગુ
ग्रंथ पाठ

प्रकाशसंहिता · अध्याय 1.12

1.12.1

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे एकादशो ऽध्यायः
श्रीभगवानुवाच
त्रिविक्रमनखोद्भिन्नाजाण्डखर्पररन्ध्रतः ।
अन्तः प्रविषटबाह्याम्बु वैकुण्ठशिखरात्ततः(दधः)

1.12.2

पतत्कमणडुले धाता दधारेश पदाम्बुजे ।
प्रक्षाल्यतच्छेषजलाद्गङागानामनदी व्यधात्

1.12.3

अरनाम्नीण्यनाम्नी सा भूदुर्गाभागयोर्द्वयोः ।
पृथक् सप्तावर्णगा परिघा रूपिणी मता

1.12.4

नन्दिनी सत्यलोके सा नलिनी च तपोमये ।
जनोलोके मालिनीति महर्लोके तु भोगिनी

1.12.5

स्वर्धुनी सा स्वर्गलोके वियद्गङ्गा ध्रुवालये ।
मदापगा सान्तरिक्षे मेरोर्ब्रह्मसदोर्ध्वतः

1.12.6

निपतन्ती च पूर्वादि चतुर्दिक्षु क्रमेण सा ।
सीताचा(?अ)लकालकनन्दा च चक्षुर्भद्राह्वया शुभा

1.12.7

सीताख्यातिरवोद्वेगात् सर्वत्रेलावृताद्बहिः ।
निपात्यमाना हरिणा पूर्वमब्धिङ्गमिष्यति

1.12.8

सैवदक्षिणभागस्था कालेन महता किल ।
सगरात्मजशुद्ध्यर्थं भगीरथसमर्चिता

1.12.9

भागीरथीति गदिता सर्वलोकैकपाविनी ।
जह्नुना राजःऋषिणा पीतात्यक्ता च वाक्यतः

1.12.10

सा जाह्नवी मेरुनगस्योत्तराधःस्थलस्थितात् ।
मार्गादतलपूर्वेषु सप्तलोकेषु संस्थिता

1.12.11

सैव त्रिपथगा देवी भाति नारायणाश्रया ।
सैषा रम्यक(?त)पूर्वेषु हरिवर्षादिषु त्रिषु

1.12.12

भद्राश्वकेतुमाले तु चरन्ती सागरप्रिया ।
भारतेस्मिन् महावर्षे नद्यः सन्ति सहस्रशः

1.12.13

श्रीरङ्गो वेङ्कटेशाख्यो तोताद्रिः पुष्कराह्वयः ।
श्रीमष्णनैमिषारण्ये गण्डकी बदरीस्थलम्

1.12.14

अष्टावेते स्वयंव्यक्ताः भारते सर्वसिद्धिदाः ।
स्वामिपुष्करणीपूर्वाः पुष्करिण्यः सहस्रशः

1.12.15

मनवः पितरः सिद्धाः सर्वसाधनतत्पराः ।
सुरासुरा भारतेस्मिन् स्वसाधनपरायणाः

1.12.16

अत्र सत्कर्मणा स्वर्गं निरयं पापकर्मणा ।
मिथ्था ज्ञानेन च तमो ज्ञानेनैव पदं हरेः

1.12.17

प्राप्नोति पुरुषो ह्यत्र पदस्थास्तत्वदेवताः ।
केचित् सर्वावतारेषु भूमौ भूत्वा भवन्त्यलम्

1.12.18

सर्वेसुराः पदस्थाश्च रामकृष्णावतारयोः ।
जाता भूमावुपास्येशं पुनर्मूलस्वरूपकैः

1.12.19

एकी भवन्त्यपि सुराः भाविनः प्रायशोत्र तु ।
स्वसाधनैकनिरताः देवदासादयोपि च

1.12.20

सांशाः निरंशाश्च तथा स्वस्वसाधनतत्पराः ।
विधयश्च निषेधाद्याः अत्रत्यानां भवन्ति हि

1.12.21

लक्षयोजनविस्तीर्णलवणाम्बुधिवेष्टितः ।
द्वीपोयं जम्ब्वाख्यो हि मेरुस्तस्यैव मध्यमः

1.12.22

सुमेरोपरितश्चेलावृतं तद्गवनं शुभम् ।
सुकुमाराभिधं रुद्रशापात्तत्रगतः पुमान्

1.12.23

नारीभवति पार्वत्यारन्तुकामस्तथाकरोत् ।
एतस्माद्विगुणः प्लक्षस्त्विक्षूदाम्बुधिवेष्ठितः

1.12.24

स्थूलाश्च पर्वताः सन्ति तत्र श्रीहरिसंमिताः ।
तास्ते क्षीराब्धिमारभ्य इक्षुसागरसंस्पृशाः

1.12.25

भारताद्यष्टवर्षेषु षड्द्वीपा अपरा अपि ।
मध्यस्तत्काम्यपुण्यानां भोगार्थं हरिनिर्मिताः

1.12.26

पापादत्र जनीनैव पुण्यादेव हि काम्यतः ।
न तत्र चायुर्नयमो यावत्पुण्यन्तु जीवनम्

1.12.27

नरानार्यः सुन्दराङ्गाः सन्ति भोगोचितार्थदाः ।
वृक्षाश्च पुण्यरत्नानि गृहाश्च स्वर्णभूमयः

1.12.28

विनैव कालमरणं तत्र दुःखादिकं न हि ।
इच्छामात्रेण सर्वाथसिद्धिस्तत्रेशनिर्मितः

1.12.29

सूर्यात्मकं हरिं तत्र पूजयन्ति विचक्षणाः ।
ततो हि द्विगुणोद्वीपः शाल्मलः सर्ववर्तुलः

1.12.30

योजनानां चतुर्लक्षं मध्वब्धि समवेष्टितः ।
जाम्बवं पुष्करं त्यक्त्वा मध्यद्वीपेषु पञ्चसु

1.12.31

सर्वेषु सप्तनद्यः स्युः पर्वताः सप्तकीर्तिताः ।
सप्तद्वीपगता नद्यः दद्बाह्याम्बुधिगामिनः

1.12.32

भोगोपयुक्ता निखिलाः पदार्थजनसङ्कुलाः ।
तत्रत्याः पर्वताः पूर्वोत्तरसागरसंस्पृशः

1.12.33

तैर्विभक्ताःसप्तवर्षास्तत्तन्मनुसुत्राश्रयाः ।
चन्द्रान्तर्यामिणं विष्णुं शाल्मलस्था भजन्ति हि

1.12.34

क्रौञ्चद्वीपस्तद्विगुणोद्व्यष्टलक्षार्णवे न तु ।
पव्यम्बुना वेष्टितोलं सूर्यकान्तादि सन्मणिः

1.12.35

वरुणान्तर्गतं विष्णुं भजन्ति हि ततोत्र हि ।
ततो हि द्विगुणाः शाकद्वीपः क्षीराब्धिवेष्ठितः

1.12.36

द्वात्रिंशल्लक्षविस्तारः समीरोपासकोदितः ।
शाकद्वीपस्य मध्येतु अनन्तरूपी हरिस्वयम्

1.12.37

अर्धलक्षस्थलतनुः सप्तलक्षोन्नतः प्रभुः ।
मेरुलोकालोकनगाभिमुखानन्तलसन्मुखः

1.12.38

चक्रप्राकाररूपात्मा तद्वीपे परितः सदा ।
लक्षोन्नतस्थेषु जगच्चक्षुःसूर्यश्चरत्यसौ

1.12.39

मेरुं प्रदक्षिणी कुर्वन् रूक्षचक्रोनुवेगतः ।
दिनेदिनेत्वेकवारं सहस्रांशुः प्रकाशकृत्

1.12.40

सूर्यस्याक्षोत्तराग्रन्तु तैलयन्त्रमिवोलितः ।
लुप्तमन्यच्चक्रयुतं मानसोत्तरपर्वते

1.12.41

परिभ्रमन्ति तन्मध्ये ऽनसि भूमेः समोन्नते ।
चत्वारिंशद्योजनोर्ध्वप्रदेशस्प्रशिमध्यतः

1.12.42

तावत्परिमितान्यक्षसम्बन्धो तावदन्तराः ।
स्तम्भाः षष्ठिसहस्राश्च चत्वारः सन्ति सदृढाः

1.12.43

शतयोजनका स्थूला दीप्यध्वज्रमयाः शुभाः ।
तदूर्ध्वमण्टपे पादलक्षोच्चमणि दीपिते

1.12.44

योजनायुत देदीप्यमण्डले भानुराजतिः(रूर्जितः) ।
अहःकरः सर्व सत्साधनकृत्फलदोर्यमा

1.12.45

मेरोः पूर्वस्थितो भारतस्थानामुदयङ्करः ।
मेरोर्दक्षिणगोमध्य(ध्यं)दिनकृत्सप्तसन्धयः

1.12.46

मेरोः पश्चिमगो भारतत्स्थानामस्तमानकृत् ।
मेरोरुत्तरगश्चार्धरात्रिकृद्भारते नॄणाम्

1.12.47

एवमेव चतुर्दिक्षुविद्यमानजनस्य तु ।
प्रातर्मध्यन्दिननिशीथार्धरात्रप्रवर्तकः

1.12.48

नारायण विशेषावेशैधितात्मगतिः स्वयम् ।
एकमेव पृथङ्नामभेदेन श्रीहरीच्छया

1.12.49

सप्तद्वीपेषु योभानुवरिपोहस्तबाधिपः ।
सव्येन भ्रमतां भानां त्रिलक्षोन्नतवर्तिनाम्

1.12.50

तिर्यगूर्ध्वं च षट्पञ्चाशल्लक्षाधिककोटितः ।
दीर्घाभिश्च शलाकाभिः निर्मिते रूक्षचक्रके

1.12.51

शतयोजनविस्तीर्णं शलाकाग्रेषु भान्त्यलम् ।
वसन्ति तन्मार्गगताः सञ्चरन्ति नवग्रहाः

1.12.52

ते शलाका वज्रमयाः अष्टोत्तरशतात्मकैः ।
छिद्रैश्च कलितापाशैः ध्रवाधीनैश्च वारुणैः

1.12.53

सम्बन्धाग्राभिरंशेन कॢप्यैकैकेनभाश्रयाः ।
चतुश्चिद्रयुताः सर्वशलाकास्तेषु वारुणाः

1.12.54

पाशाश्चान्तः प्रविष्टाश्च भूमेर्लक्षोन्नतान्तरे ।
स्थितस्य सूर्यरथाग्रेताः अक्षकोट्यस्तथाग्रतः

1.12.55

धुराग्राक्षाग्रयोर्बद्धपाशाग्रेणसमन्विताः ।
पाशाध्रुवस्य नक्षत्रपादैरेवापसव्यतः

1.12.56

संवत्सरेणैकवारं भ्रमन्तं भ्रामयत्यलम् ।
ध्रुवस्तस्य हयाःसप्तहरिद्वर्णा महाजवाः

1.12.57

अनुक्तस्तात्विकैस्तुल्यास्तद्यन्ता गरुडाग्रजः ।
सो ऽनूरुरुस्त्वरुणःसर्पपाशैस्तान्योजयत्यलम्

1.12.58

मानसोत्तरमेरोः तु संस्प्रष्टाक्ष सुमध्यगे ।
अनेहर्म्यकलितवज्रसम्भाव्यग्रमण्टपे

1.12.59

चरतो भास्करस्यास्यत्वाधारः शाकमध्यगः ।
हरिर्मेरोःसार्धसप्तोत्तरसप्ततिलक्षकः

1.12.60

तावत्तदुत्तरगत मानसोत्तरपर्वते ।
योजनानां षष्ठिसहस्रोन्नतं चक्रमूर्जितम्

1.12.61

मध्यछिद्रान्वितं वज्रमयं भ्रमति विष्णुना ।
द्वादशारं हि षण्णेमि त्रिनाड्यन्तर्बहिस्थले

1.12.62

युगकूबराक्षत्रयस्य रेखासु तिथिवारपाः ।
अपरेषु मासास्तिष्ठन्ति ऋतवस्तस्य नेमिगाः

1.12.63

चतुर्मास्यास्त्रिनेमिस्थाः द्विपरिश्चेदगेयने ।
वत्सरः सर्वचक्रस्थस्त्वेकचक्रोरथस्य तु

1.12.64

स कर्कटादिषु चरन् एकोह्ना(ह्नां)क्षयकृद्रविः ।
षट्सुरात्रदीर्घ्यमानः कारयन् दक्षिणायनम्

1.12.65

करोति नक्रादिषु षट्सुचरन् रात्रिक्षय(यं)करः ।
अह्नान्यभ्येधयन्नेकश्चोत्तरायणकारकः

1.12.66

विनाडिकानां पञ्चाशन्मासिमास्येधेयेत्यसौ ।
अहान्युत्तराणेन्यत्र रात्रिकालर्धिकृत्तथा

1.12.67

यदा तु मेषतुलयोः चरत्येष समानिशा ।
द्यस्राश्च वृश्चिकाद्येषु पञ्चस्वपि निशार्धिकृत्

1.12.68

वृषादि पञ्चसु चरन् दिवाकालसमर्धिकृत् ।
त्रिलक्षोन्नतनक्षत्रशलाकाग्राष्टविंशके

1.12.69

उदग्दक्षिणकोणाद्याः कृत्तिकाद्याः समाश्रिताः ।
तिर्यगूर्ध्वं सप्तसप्तशलकाभिर्विनिर्मितम्

1.12.70

द्वाभ्यां द्वाभ्यां कोणयोस्तु रेखाभ्यामुपकल्पितम् ।
नक्षत्रमण्डलं भूमेरूर्ध्वं लक्षत्रयेण हि

1.12.71

एकैकस्यां शलाकायां छिद्राणि च पृथक् पृथक् ।
चत्वारि तानि दंस्रक्षाद्यादिकानि वनानि च

1.12.72

मेषाङ्कानि वृषाङ्कानि नृयुग्मकानि वै नव ।
कर्कसिंहाङ्गकन्यानि तुलका वृश्चिकानि वै

1.12.73

धनुर्नक्षत्रशङ्खानि मीनाङ्कानि च वै नव ।
तेषु तेषु प्रविष्टाश्च पादद्यष्टोत्तरं शतम्

1.12.74

पादैर्धुवःससूर्यस्तु अपसव्यक्रमेण वै ।
सर्वनक्षत्रपादेषु क्रमाद्वृद्धौ भविष्यति

1.12.75

ध्रुवान्तर्हरिणा विंशद्घटिकान्तदिनत्रयम् ।
एकैक नक्षत्रपादे बद्धो भवति वै क्रमात्

1.12.76

सार्धत्रयोदशादिनैरेकनक्षत्रगो रविः ।
मासेन नवपादानि भुञ्जन् द्वादश राशिषु

1.12.77

संवत्सरेण चरति ह्यप्रदक्षिणतो रविः ।
मेषाध्यङ्कितरन्ध्राणि मेषाद्याः राशयस्मृताः

1.12.78

लक्षोन्नतप्रदेशेस्थ ध्रुवपादाग्रगो रविः ।
द्विलक्षोन्नतदेशस्थ ध्रुवपादाग्रतः शशी

1.12.79

चन्द्रसूर्यौ ऋक्षचक्रादधौ देशगतौ मतौ ।
कुजादयश्च पञ्चापि ऋक्षचक्रोर्ध्ववर्तिनः

1.12.80

ध्रुवपाशैः सदाबद्धाः सञ्चरत्यपसव्यतः ।
ज्ञः पञ्चलक्षोन्नतगतः सप्तलक्षोन्नतः कुजः

1.12.81

नवलक्षोन्नतः शुक्रः लक्षैकादशको गुरुः ।
त्रयोदशं तु सूर्यस्यमण्डलं परिकीर्तितम्

1.12.82

लक्षपञ्चादशादूर्ध्वं शनिमण्डलमस्ति हि ।
षड्विंशति सुलक्षाणाम् ऊर्ध्वं सप्तर्षिमण्डलम्

1.12.83

लक्षैकादशतस्तत्मात् ध्रुवःसंस्थो हरिप्रियः ।
स विष्णोः शिंशुमारस्य महाचक्रपदास्थिताः

1.12.84

ध्रुवादीन् ग्रहान् विष्णुः चक्रे सर्वान् सुवारुणैः ।
पार्शैयोर्जयति श्रीमान् शलाकारन्ध्रसङ्गताः

1.12.85

सर्वेह्येते भानुसमाप्रदेशेषूत्तरोत्तरम् ।
चरन्ति ऋक्षपादस्थपाशैरेवतु तन्मितैः

1.12.86

एतेषां राशिसञ्चारैः कालं योजयतीश्वरः ।
चन्द्रोराशिद्वादशकं मासेनैकेन वर्तते

1.12.87

कुजो मासार्धतो राशिं भुक्त्वा राशिं समेष्यति ।
गुरुर्द्वादशभिर्मासैः त्रिंशन्मासैःशनैश्चरः

1.12.88

मासेनैव बुधः शुक्रः प्रतिराशिं भजत्यलम् ।
सदा समगती वक्रशून्यौ द्वौ शशिभास्करौ

1.12.89

भानुमण्डलगश्चन्द्रो दर्शेचास्तङ्गतो भवेत् ।
एवं कुजादयः पञ्च अस्तं यास्यन्ति भानुगाः

1.12.90

प्राक्दिश्यस्तङ्गतौ शुक्रगुरू द्वौ पश्चिमोदयौ ।
प्रत्यगस्तङ्गतौ तौ द्वौ तु पूर्वदिश्युदितौ मतौ

1.12.91

एवमन्येपि सूर्यस्य नास्तमानं स्वभावतः ।
मेरुछायागतं चास्तङ्गतं सूर्यं वदन्ति हि

1.12.92

चन्द्रार्क कव्यस्तमये लौकिके तु शुभं त्यजेत् ।
पूर्वस्यां दिशि शुक्रोस्तङ्गतो मासद्वयोत्थितः

1.12.93

प्रत्यगस्तङ्गतः काव्यः सप्ताहोभिरुदेत्यलम् ।
गुरुर्मासेनोभयत्र ह्युदितो भवति ध्रुवम्

1.12.94

कुजादीनां वक्रमाद्यास्तम्भ ऋज्वोति शीघ्रतः ।
गतयो विविधाःसन्ति कालस्याशुभसूचकाः

1.12.95

न समा हि गतिस्तेषां क्वचिदेव समागतिः ।
लक्षदीर्घयुगद्वन्द्व पुरस्थां रजयोजिताः

1.12.96

तद्वादशांशधुरगाः सप्ताश्वा भस्करस्य हि ।
मानसोत्तरस्यपरितो नवकोटिसुविस्तरम्

1.12.97

सार्धं प्रदक्षिणं कर्तुं योजयन्ति महाजवाः ।
इत्थं नवग्रहैः कालचक्रं परमः पुमान्

1.12.98

सूर्यस्य गत्या मेषादीन् मासान् सौरेण मानतः ।
कल्पयत्यपि चन्द्रस्यगत्या चैत्रादीकान् हरिः

1.12.99

चान्द्रमासान् कल्पयन्ति नक्षत्रं ऋक्षसन्ततेः ।
आवृत्यं चतुरोराप्तिं चारान् मानं बृहस्पतेः

1.12.100

सारस्वतन्तु गान्धर्वाः पक्षाहोरात्रयो मताः ।
सारस्वतन्तु गान्धर्वमानमाहुर्विचक्षणाः

1.12.101

मासेन स्यादहोरात्रं मैत्रं मानं विदुर्बुधाः ।
दैवमानं वत्सराहोरात्रिकालेन तावता

1.12.102

मनुर्मानं मानवाख्यं ब्राह्ममानमजस्य हि ।
मानाश्च नवमानानां विष्णुरेकः प्रवर्तकः

1.12.103

द्वात्रिंशल्लक्षविस्तीर्णक्षीराब्धेर्मध्यदेशतः ।
तदर्धविस्तरोच्चक्रमप्राकाररूपकः

1.12.104

दशलक्षोन्नतो भूमेः श्वेतद्वीपो रमात्मकः ।
वेदावर्णा देशकालौ नित्यव्याप्ता जडामताः

1.12.105

वाय्वाकाशःसौरदीप्तिरनित्यास्तु जडामताः ।
द्रव्यान्यप्रतिघातानि तेन्योन्यस्याश्रयाणि च

1.12.106

लक्ष्मीनारायणौ शुद्धचिद्रूपौ व्याप्तविग्रहौ ।
सर्वार्थप्रतिघाता च श्वेतद्वीपादयस्त्रयः

1.12.107

लोकास्त्वप्रतिघाताश्च स्तम्भाध्यैर्लोकरूपकाः ।
दुर्गाभागस्तदुपरि भूभागस्तु तदूर्ध्वतः

1.12.108

श्रीभागस्तु ततस्तूर्ध्वं शिखरन्तु तदूर्ध्वगः ।
भागत्रयेपि भूकन्दाः पञ्चलक्षोन्नतायुताः

1.12.109

त्रिषुभागेष्वपि रमा देशहर्म्यस्वरूपिणी ।
हर्म्यं प्रदेश भूभागाः लक्षयोजनकन्दकाः

1.12.110

उपर्यावर्त्तयो भागस्त्रयो भूकन्दसंमिताः ।
भागत्रयेपि च स्तम्भामणिमद्भूमितलाश्रयाः

1.12.111

सार्धद्विलक्षसमिता नानामणिविराजिता ।
श्रीभागमध्यवेदिस्थः लक्ष्मीशोनन्तभानुरुक्

1.12.112

चिन्मात्रानन्तमुक्तेड्यः स्वर्गादुपरि वर्तते ।
स्थानं त्रये त्रिपाद्विष्णोः दिविस्वर्गोन्नतस्थले

1.12.113

श्वेतद्वीपोद्व्यष्टलक्ष दुर्गाभागस्तु तन्मितः ।
भूभागस्तु तदर्धेतः श्रीभागस्तु तदर्धतः

1.12.114

मणिस्वर्णोज्वलत्सत्वप्राकारान्तात्मभागकाः ।
अनेकतोरणाट्टालवेदीचत्वारशोभिताः

1.12.115

मणिमत्ननद्यद्रिसरोवाप्यादिसंकुलाः ।
नानायादोगणोपेतस्वर्णकञ्जाबु भास्वराः

1.12.116

सर्वर्तुकालपुष्पाढ्य पल्लवस्वर्णभूरुहाः ।
हंसकोकिलबर्हादि शुकस्वनसमाकुलाः

1.12.117

अतिसुन्दर सिंहादि नानामृगसमाकुलाः ।
अवर्णनीयरत्नेरु रचितानेकमण्टपाः

1.12.118

नानास्वादुस्वनोपेत नरनारीगणौर्युताः ।
सिद्धचारणगन्धर्वाप्सरो गानमणिताः

1.12.119

नानावाद्यमहावीणाशङ्खदुन्दुभिनिस्वनाः ।
गजाश्वरथपादातिध्वजछत्रादि लाञ्छनाः

1.12.120

सर्वाभरणवस्त्राढ्या विमानावलिसङ्कुलाः ।
नानाक्रीडासाधनेताः नानाः गन्धोपबृंहिताः

1.12.121

अनेकहंसतूले तु मणिशय्या समावृताः ।
भोगस्त्रीभिः समाकीर्णाः मणिव्यजनदर्पणाः

1.12.122

मणिस्वर्णात्मकानेक भित्तिभाण्डादि साधनैः ।
अनुक्तानन्तसर्वोपस्करणैरुपशोभिताः

1.12.123

चामरान्दोलिकाडोला पादपीठादि संयुताः ।
तुलसीपुष्पसद्रत्नमुक्तामालोपशोभिताः

1.12.124

भानुकोटिप्रभादीप्ता पात्रनैवेद्यरूपिणी ।
घृतदध्यम्बुरूपा सा पूर्वोक्तार्थस्वरूपिणी

1.12.125

दासीदाससमाकीर्णभार्यारूपाखिलेश्वरी ।
दुर्गाभूःश्रीस्वभागेषु अनन्तानन्तरूपिणी

1.12.126

अनन्तरूपिणं विष्णुं सदाराधयतीश्वरम् ।
स्वभावादेव नास्यार्थः प्राप्तव्यः कश्चिदेष्यते

1.12.127

पूर्णकामो हरिः प्रीत्या तत्पूजां स्वीकरोत्यजः ।
स्थानत्रयेपि सा देवी ह्यनन्तोक्तार्थरूपिणी

1.12.128

सर्वदेशेषु कालेषु सर्वरूपाश्रिता रमा

मूल पाठ: Prakāśasaṃhitā (a Pāñcarātrasaṃhitā) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc