भाषा

ENहिગુ
ग्रंथ पाठ

प्रकरणपञ्चिका (टीका सहित) · अध्याय 18

18.1

अपूर्वाधिकरणै [मी. द. 2. 1. 2] लिङाद्यर्थो ऽपूर्वमित्युक्तम् ।
प्रमाणान्तरायोग्यञ्चापूर्वमिष्यते ।
यच्च प्रमाणान्तरायोग्यम्, तत्र सम्बन्धग्रहणमशक्यम्, सम्बन्धिग्रहणपूर्वकत्वात्तस्य ।
विशिष्टार्थव्यवहारदर्शनेन हि तद्विषया शब्दशक्तिरनुमीयते, तदेव च सम्बन्धग्रहणम् ।
यच्च न प्रतीयते, न तद्विषयो व्यवहारो ऽवसीयते ।
तदनवसाये च, न तद्विषया बुद्धिरनुमीयते ।
तदननुमाने च कुतश्शब्दस्य शक्तिः कल्प्यते ।
अपूर्वञ्च न प्रमाणान्तरगोचरः ।
न च शब्दादेव तदवगम्य, सम्बन्धावधारणम्, इतरेतराश्रयप्रसङ्गात्1219 ।
अवसितशक्तेरवबोधकत्वात् ।
अवबोधकत्वादेव शक्त्यवगमात् ।
स्यान्मतम् ।
लिङादेश्शब्दस्यायं महिमा, यदनवसितशक्तिरपि स्वार्थमवगमयतीति ।
तदिदमप्रमाणम्1220 ।
क्रियामात्रावबोधकत्वाङ्गीकारेण लिङादेर्लोकतो व्युत्पत्तिसम्भवे, शब्दान्तरवैलक्षण्येनागृहीतसम्बन्धस्यैव वाचकत्वकल्पनानुपपत्तेः ।
वेदवाक्यादपूर्वकार्यावगतेरेवं कल्प्यत इति चेत् ।
न ।
तस्या एवासिद्धत्वात्, क्रियैव कार्यतया वेदवाक्येभ्यो ऽवगम्यत इति, व्युत्पत्तिबलेनाप्रामाणिकं मनोरथमात्रविजृम्भितन्त्वपूर्वं कार्यं प्रतीयते--इति ।
तस्मादगृहीतसम्बन्धो लिङादिः कथमपूर्वं कार्यमभिधत्ते, तथा च कथं 1221तद्वाक्यार्थः ।
अभिधेय एव 1222ह्यर्थो भवति वाक्यार्थः

18.2

एवञ्च---
शब्दान्तराण्यपि कथं तेनादृष्टेन कुत्रचिद् ।
वदिष्यन्त्यन्वितं स्वार्थं व्युत्पत्तिपथदूरगम्

मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc