भाषा

ENहिગુ
ग्रंथ पाठ

फलदीपिका · अध्याय p9

p9.1

प्रष्टकवर्गफल
अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः
तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम्

p9.2

सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे ।
तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः

p9.3

तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः ।
संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः

p9.4

लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः ।
सुखनाथदशायां वा पितृतुल्यमृतिं वदेत्

p9.5

संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् ।
द्वादशेन हताच्छेषराशिं याते दिवाकरे

p9.6

तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् ।
एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः

p9.7

चन्द्रात्सुखफलैः पिन्डं हत्वा सारावशेषितम् ।
शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा

p9.8

चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे ।
मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः

p9.9

भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् ।
बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च

p9.10

गुरुस्थितसुतस्थाने यावतां विद्यते फलम् ।
शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः

p9.11

गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै ।
क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः

p9.12

फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि ।
तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः

p9.13

शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः ।
हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः

p9.14

लग्नादिमन्दान्तफलैक्यसंख्या-
वर्षे विपत्तिस्तु तथार्कपुत्रात् ।
यावद्विलग्गान्तफलानि तस्मिन्-
नाशो हि तद्योगसमानवर्षे

p9.16

अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् ।
फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत्
त्रिकोण शोधन
त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत्

p9.17

भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् ।
समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा

p9.18

एकाधिपत्य शोधन
त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् ।
क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः

p9.19

ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ।
ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते

p9.20

फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् ।
सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात्

p9.21

उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् ।
उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन

p9.22

एकस्मिन् भवने शून्ये न संशोध्यं कदाचन ।
द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः

p9.23

शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् ।
ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत्

p9.24

राशि गुणक आउर ग्रह गुणक
गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे ।
वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः

p9.25

शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः ।
एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक्

p9.26

जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता ।
बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः

p9.27

एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः ।
सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि

p9.28

द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् ।
सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः

p9.29

अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् ।
नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत्

p9.30

शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा ।
त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात्

p9.31

बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् ।
पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत्

p9.32

मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः ।
पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत्

p9.33

एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् ।
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः

p9.34

बलो बलिष्तो लवणागमोसुरो
रागी मुररिः शिखरीन्द्रगाथया
भौमो गणेन्द्रो लघुभावतासुरो
गोकर्णरक्ता तु पुरणर्मथिली

p9.35

रुद्रः परं गह्वरंभैरवस्थली
रागी वली भास्वरगीर्भगाचलाः ।
गिरौ विवस्वान्बलवद्विवक्षया
शुली मम प्रीतिकरोऽत्र तीर्थकृत्

p9.36

सर्वकर्मफलोपेतमष्टवर्गकमुच्यते ।
अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम्

p9.37

त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम्

p9.38

मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये ।
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत्

p9.39

मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै ।
अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत्

p9.40

षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् ।
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत्

p9.41

लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै ।
सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम्

p9.42

तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् ।
एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम्

p9.43

शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् ।
पुत्रवित्तसुखादीनि लभते नात्र संशयः

p9.44

संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह ।
तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः

मूल पाठ: phaladīpikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc