भाषा

ENहिગુ
ग्रंथ पाठ

फलदीपिका · अध्याय p25

p25.1

निर्याणप्रकरण
तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे ।
व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम्

p25.2

रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा ।
यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः

p25.3

उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च ।
रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः

p25.4

स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके ।
लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः

p25.5

रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ ।
मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत्

p25.6

लग्नेशहीनयमकण्टकभांशकोणं
प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् ।
याते गुरौ स्वमरणन्त्वथ राहुहीन-
भूसूनुभांशकगुरौ सहजप्रणाशः

p25.7

भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ
तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ ।
अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज-
क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृति

p25.8

वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् ।
त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम्

p25.9

लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु ।
तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः

p25.10

मान्दिस्फुटे भानुसुटं विशोध्य
राश्यंशकोणे रविजे मृतः स्यात् ।
धूमादिप~चग्रहयोगराशि-
द्रेक्काणयातेऽर्कमुते च मृत्युः

p25.11

विलग्नमन्दिस्फुटयोगभांशं
निर्यणमासं प्रवदन्ति तज्ज्ञाः ।
निर्यणचन्द्रो गुलिकेन्दुयोगो
लग्नं विलग्नार्किसुतेन्दुयोगः

p25.12

मान्दिस्फुटोदितनवांशगतेऽमरड्ये
तद्द्वादशांशसहिते दिननाथसूनौ ।
द्रेक्काणकोणभवने दिनपे च मृत्यु-
र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात्

p25.13

गुलिकं रविसूनुं च गुणित्वा नवसंख्यया ।
उभयोरैक्यराश्यंशगृहगे रविजे मृतिः

p25.14

स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् ।
तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः

p25.15

षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते ।
तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम्

p25.16

उद्यद्दृगाणपतिराशिगते सुरेड्ये
तस्य त्रिकोणमपि गच्छति वा विनाशम् ।
रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे
प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम्

p25.17

विलग्नजन्माष्टमराशिनाथयोः
खरत्रिभागेश्वरयोस्तयोरपि ।
शशाङ्कमान्द्योरपि दुर्बलांशक-
त्रिकोणगे सूर्यसुते मृतिर्भवेत्

p25.18

लग्नाधिपस्थितनवांशकराशितुल्यं
रन्ध्राधिपस्य गृहमापतिते घटेशे ।
तस्मिन्वदेन्मरणयोगमनेकशास्त्र-
संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत्

p25.19

शशाङ्कसंयुक्तदृगाणपूर्वतः
खरत्रिभागेशगृहं गतेऽपि वा ।
त्रिकोणगे वा मरणं शरीरिणां
शशिन्यथ स्यात्तनुरन्ध्ररिःफगे

p25.20

निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ ।
निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम्

p25.21

यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ ।
मरणं निशिजातानां दिविजानां तदस्तके

p25.22

गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा ।
तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा

p25.23

अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ ।
तदीहनवभागर्क्षं गते वा मरणं भवेत्

p25.24

जन्मकाले शनौ यस्य जन्माष्टमपतेरपि ।
राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः

p25.25

निशीन्दुराशौ चेज्जन्म मान्दिभेऽंशे मृतिः ।
दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः

p25.26

रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः ।
शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम्

p25.27

जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ ।
मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम्

p25.28

तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो
मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः ।
सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां
तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा

मूल पाठ: phaladīpikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc