भाषा

ENहिગુ
ग्रंथ पाठ

फलदीपिका · अध्याय p21

p21.1

अन्तर्दशाफल
भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन ।
यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण

p21.2

लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः ।
उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः

p21.3

पाकेऽर्थनाथस्य कुटुम्बसिद्धिं
सत्पुत्रिकाप्तिं सुखभोजनं च ।
प्राप्नोति वाग्जीविकया धनानि
वक्ता सदुक्तिं सदसि प्रशस्ताम्

p21.4

शौर्ये सवीर्ये सहजानुकूल्यं
सण्तोषवातश्रिवणं च शौर्यं ।
सेनापतित्वं लभतेऽभिमानं
जनाश्रयं सद्गुणभाजनत्वम्

p21.5

बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति ।
क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये

p21.6

पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
साचिव्यं वा धीशदशायां बहुमानम् ।
प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
श्रेयस्कार्यं सज्जनशस्तं स विदध्यात्

p21.7

रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे ।
अरोगतानुदारतामधृष्यतामतिश्रियम्

p21.8

सम्पाद्य वस्त्राभरणानि शय्यां
प्रीतो रमण्या रमतेऽतिवीर्यः ।
करोति कल्याणमहोत्सवादीन्
सन्तोषयात्रां च मदेशदाये

p21.9

ऋणविमोचनमुच्छ्रतिमात्मनः
कलहकृत्यनिवृत्तिमुपैति सः ।
महिषपश्वजभृत्यजनागमं
वयसि रन्ध्रपतेर्बलशालिनः

p21.10

स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै-
र्भाग्यंश्रियं चानुभवत्यजस्त्रम् ।
श्रेयांसि कार्याण्यवनीशपूजां
भाग्येशदाये विजदेवभक्तिम्

p21.11

यत्कार्यमारब्धमुपैत्यनेन
तस्यैव सिद्धिं सुखजीवनं च ।
कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं
मानोन्नतिं कर्मपतेर्दशायाम्

p21.12

एश्वर्यमव्याहतमिष्टबन्धु-
समागमं भृत्यजनांश्च दासान् ।
संसारसौभाग्यमहोदयं च
लभेत लाभाधिपतेर्दाशायाम्

p21.13

व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने ।
अघौघनाशिनीं शुभक्रियां महीशमान्यताम्

p21.14

वक्रगस्य निजतुङ्गसुहृत्-
सुस्थानगस्य दशाफलमेवम् ।
शत्रुनीचगृहमौढ्यषडन्त्य-
छिद्रगस्य तु फलान्यपि वक्ष्ये

p21.15

दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् ।
जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे

p21.16

दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् ।
मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं
पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले

p21.17

वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना-
मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् ।
चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम्

p21.18

जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् ।
रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं
दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम्

p21.19

पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले ।
यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम्

p21.20

श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं
भवपवयसि दैन्यं वञ्चनं कर्णरोगम् ।
बहुरुजमपमानं बन्धनं सर्वसम्पत्-
क्षयमपरशशीवाऽयाति रिःफेशदाये

p21.21

मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं
कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ ।
यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं
भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह

p21.22

वर्गोत्तमांशस्थदशा शुभप्रदा
मिश्रैव सा चास्तमिते च नीचगे ।
मृत्युव्ययारीशदशापहारयो-
स्तत्र स्थितस्याप्यशुभं फलं भवेत्

p21.23

क्रूरग्रहस्यैव दशापहारे
त्रिपञ्चसप्तर्क्षपतेविपाके ।
तथैव जन्माष्टमनाथभुक्तौ
चोरारिपीडां लभतेऽतिदुःखम्

p21.24

शनेश्चतुर्थी च गुरोस्तु षष्ठी
दशा कुजाह्योर्यदि प~चमी सा ।
कष्ट भवेद्राश्यवसानभाग-
स्थितस्य दुःस्थानपतेस्तथैव

p21.25

उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य
कर्मायगस्य हि दशा विदधाति राज्यम् ।
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
राज्यश्रियं वितनुतेऽधिकमन्नदानम्

p21.26

स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि वाऽस्तरहितो न च पापयुक्तः ।
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान्विशालविभवो जयति प्रशस्तः

p21.27

नीचारिषष्ठव्ययसंश्रिता हि
शुभाः प्रयच्छन्त्यशुभानि सर्वे ।
शुभेतरास्त्वेषु गताः प्रयच्छ-
न्त्यमोघदुःखानि दशासु तेषम्

p21.28

दशेशत्रोररिगेहभाजो
लग्नेशशत्रोरपि वाऽथ भुक्तौ ।
शत्रोर्भयं स्थानलयः तदास्य
स्निग्धोपि शत्रुत्वमुपैति नूनम्

p21.29

यद्भावगः पाकपतिर्दशेशात्-
तद्भावजातानि फलानि कुर्यात् ।
विपक्षरिःफाष्टमभावगश्चेद्-
दुःखं विदध्यादितरत्र सौख्यम्

p21.30

स्वोच्चत्रिकोणस्वहितारिनीचे
पूर्णं त्रिपादार्द्धपदाल्पशून्यम् ।
क्रमाच्छुभं चेदशुभं विलोमाट्
मूढे ग्रहे नीचसमं फलं स्यात्

p21.31

मन्दमान्द्यगुखरेशरन्ध्रपाः-
तन्नवांशपतयोऽपि ये ग्रहाः ।
तेषु दुर्बलदशा मृतिप्रदा
कष्टभे चरति सूर्यनन्दने

p21.32

मृतीशनाथस्थितभांशकेशयोः
खरत्रिभागेश्वरयोर्बलीयसः ।
दशागमे मृत्युयुक्तभांशक-
त्रिकोणगे देवगुरौ तनुक्षयः

p21.33

चतुष्टयस्था गुरुजन्मलग्नपा
भवन्ति मध्ये वयसः सुखप्रदाः ।
क्रमेण पृष्ठोभयमस्तकोदय-
स्थितोऽन्त्यमध्यप्रथमेषु पाकदः

p21.34

यद्भावगो गोचरतो विलग्नात्-
दशेश्वरः स्वोच्चसुहृद्गृहस्थः ।
तद्भावपुष्टिं कुरुते तदानीं
बलान्वितश्चेज्जननेऽपि तस्य

p21.35

बलोनितो जन्मनि पाकनाथो
मौढ्यं स्वनीचं रिपुमन्दिरं वा ।
प्राप्तश्च यद्भावमुपैति चारात्-
तद्भावनाशं कुरुते तदानीम्

p21.36

दशेशस्य तुङ्गे सुहृद्भे दशेशात्
त्रिषत्कर्मलाभत्रिकोणास्तभेषु ।
यदा चारगत्या समायाति चन्द्रः
हुभं संविधत्तेऽन्यथा चेदरिष्टम्

p21.37

पाकप्रभुर्गोचरतः स्वनीचं
मौढ्यं यदायाति विपक्षभं वा ।
कष्टं विदध्यात्स्वगृहं स्वतुङ्गं
वक्रं गतः सौख्यफलं तदानीम्

p21.38

पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् ।
नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम्

p21.39

येन ग्रहेण सहितो भुजगाधिनाथ-
स्तत्खेटजातगुणदोषफलानि कुर्यात् ।
सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
दुःखं दशान्त्यसमये कुरुते विशेषात्

p21.40

द्वावर्थकामाविह मारकाख्यौ
तदीश्वरस्तत्र गतो बलाढ्यः ।
हन्ति स्वपाके निधनेश्वरो वा
व्ययेश्वरो वऽप्यतिदुर्बलश्चेत्

p21.41

केन्द्रेशस्य सतोऽसतो.शुभशुभौ कुर्याद्दशा कोणपाः
सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः ।
रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम्

p21.42

कोणाधीशः केन्द्रगः केन्द्रपो वा
कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः ।
द्वावप्येतौ भुक्तिकाले दशाया-
मन्योन्यं तौ योगदौ सोपकारौ

p21.43

न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।
भवाशुभफलं नॄणामात्मभावानुरूपतः

p21.44

आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः ।
तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम्

p21.45

केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।
सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको

p21.46

त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् ।
केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत्

p21.47

केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ ।
अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः

p21.48

योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः ।
तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम्

p21.49

स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् ।
दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत्

p21.50

केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः ।
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः

p21.51

बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः ।
पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम्

p21.52

यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।
नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ

p21.53

तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् ।
अन्तर्दशानुरूपेण भवेतां योगकारकौ

p21.54

आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु ।
प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः

p21.55

रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ-
रन्ध्रत्रिभागाधिपमान्दिभेशाः ।
दुःखप्रदास्तेष्वपि दुर्बलो यः
स नाशकारी स्वदशापहारे

p21.56

भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा
मध्या भवेत्सा सुहृदुच्चभागे ।
आरोहिणी निम्नपरिच्युतस्य
नीचारिभांशेष्वधमा भवेत्सा

p21.57

शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि ।
तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया

p21.58

तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च ।
वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात्

p21.59

दशापतिर्लग्नगतो यदि स्यात्
त्रिषट्दशैकादशगश्च लग्नात् ।
तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा
लग्ने शुभो वा शुभदा दशा स्यात्

p21.60

यावन्ति वर्षणि दशा च सा स्यात्-
चारक्रमात्तत्र दशापतिः सः ।
यत्र स्थितस्तद्भवनाद्विधोस्तु
स्थितेः प्रकल्प्यं सदसत्फलं हि

p21.61

दशाधिनाथस्य सुहृद्गृहस्थ-
स्तदुच्चगो वाऽथ दशाधिनाथात् ।
स्मरत्रिकोणोपचयोपगश्च
ददाति चन्द्रः खलु सत्फलानि

p21.62

उक्तेषु राशिषु गतस्य विधोः स राशिः
स्याज्जन्मकालभवमूर्तिधनादिभावः ।
तत्तद्विवृधिकृदसौ कथितो नराणां
तद्भावहानिकृदथेतरराशिसंस्थः

p21.63

सारावलीमुडुदशां च वराहहोरा-
मालोक्य जातकफलं प्रवदेन्नराणाम् ।
प्रश्नोदयग्रहवशादथ वा स्वजन्म-
राश्यादिना वदतु नास्त्यनयोर्विशेषः

मूल पाठ: phaladīpikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc