भाषा

ENहिગુ
ग्रंथ पाठ

फलदीपिका · अध्याय p15

p15.1

कालचक्र दशा
दस्रादितः पादवशेन मेषान्न्-
मीनाम्शकान्तं क्रमशोऽपसव्यम् ।
कीटाद्धयान्तं गणयेच्च सव्य-
मार्गेण पादक्रमशोऽजतारात्

p15.2

एवं भूयाच्चापसव्यं च सव्यं
भानि त्रीणि त्रीणि विद्यात्क्रमेण ।
तद्राशीशप्रोक्तवर्षैर्दशास्य
देवं प्राहुः कालचक्रे महान्तः

p15.3

मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् ।
दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः

p15.4

दसःअपहारादिककालचक्रे
वाक्यानि दस्रादिपदादिजानि ।
दक्ष्यामि वर्णैर्नवभिर्भमानै
राशीशवर्षैः परमायुरत्र

p15.5

पौरं गावो मित सन्दिग्धं
नक्षत्रेन्दुः स तु भूशूलम् ।
रूपेत्रक्षन्निधयोरङ्गे
वाणी चस्थं दधि नक्षत्रम्

p15.6

दासत्वेशो गौरीपुत्रं
क्षन्निधिकारो गोभूशेषम् ।
सौदधिनक्षत्रेहासन्तो
भौमगुरुः पुत्राक्षोनाधिः

p15.7

वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या-
न्यश्विन्याद्यन्यग्निभस्यापसव्ये ।
सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये-
ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः

p15.8

धेनुः क्षेत्रे पुरगो शंभु-
स्तासां जत्रु क्षन्निधि दासी ।
चर्माभोगी रायधिनाक्ष-
स्त्रीपौराङ्गी शिवतीर्थाब्जे

p15.9

त्रक्षनिधिर्दा सूचिशंभो
सौरयधी नक्षत्रं पारम् ।
गोशिवतीर्थे दात्रिक्ष्न्नो
धीहसितांशुभोर्गी रम्या

p15.10

नक्षत्रपादैष्यघटी समुत्था
पूर्वा दशा तत्पतिवर्षजाता ।
पूर्वोक्तपादक्रमशोऽत्र विद्यात्-
केषांचिदेवं मतमाहुरार्या

p15.11

दस्रादिपादप्रभृतीनि भानां
वाक्यानि यान्यक्षरपंक्तिजानि ।
तेषां क्रमेणैव दशा प्रकल्प्या
वाक्यक्रमं साध्विति केचिदाहुः

p15.12

वाक्यक्रमे कर्क्यलिमीनसन्धौ
मण्डूकगत्यश्वरप्लुतिश्च ।
सिंहावलोकस्त्रिविधा तदानीं
दशान्तरं दुःखफलप्रदं स्यात्

p15.13

तद्वाक्यवर्णक्रमशोपहार-
वर्षाहते तत्परमायुराप्ते ।
तदा दशायामपहारवर्ष-
संख्याश्च मासान्दिवसान्वदेयुः

p15.14

वाक्येषु यावच्छरदां प्रमाणं
वदन्ति तावत्परमायुरत्र ।
मेषादनीकं मदनं गजेन
तुन्दः पुनश्चैवमुदीरितं तत्

p15.15

उत्पन्न आधान आउर क्षेम महादशा
महादशासु यत्फलं प्रकीर्तितं मया पुरा ।
तदेव योजयेद् बुधो दशासु चैवमादिषु

p15.16

जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा ।
आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां
स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे

p15.17

निसर्गदशा
एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात्
चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः ।
स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा-
दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा

p15.18

अंशदशा
लिप्तीकृत्य भजेद्र्‌ग्रहं खखजिनैस्तच्छिष्टमायुष्कला
आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी ।
वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे
द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना

p15.19

सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा-
द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे ।
त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा
लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च

p15.20

तस्योपदेशो वरमत्र किन्तु
कुर्वन्त्ययोग्यं बहुवर्गणभिः ।
आचार्यकं त्वत्र बहुघ्नतायाम्
एको तु यद्भुरि तदेव कार्यम्

p15.21

पिण्डायुर्दशा
धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात्
पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह ।
लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं
त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः

p15.22

लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये ।
बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा

p15.23

हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे ।
पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम्

p15.24

पैण्डाख्यमायुर्ब्रुर्वते प्रधानं
मणित्थचाणक्यमयादयश्च ।
एतन्न साध्वित्यवदद्भदन्तो
वराहसूर्यस्य तथैव वाक्यम्

p15.25

सूर्यादिकानां स्वमतेन जीव-
शर्म स्वरांशं परमायुषोऽत्र ।
अस्यापि सर्व हरणं विधेयं
पूर्वोक्तिवल्लग्नदशामपीह

p15.26

नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै-
राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् ।
कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत्
वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे

p15.27

लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या
तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये ।
बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये
वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम्

p15.28

अंशोद्भवं लग्नबलात्प्रसाध्य-
मायुश्च पिण्डोद्भवमर्कवीर्यात् ।
नैसर्गिकं चन्द्रबलात्प्रसाध्यं
ब्रूमस्रयाणामपि वीर्यसाम्ये

p15.29

तेषां त्रयाणामिह संयुतिस्तु
त्रिभिर्हृता सैव दशा प्रकल्प्या ।
वीर्ये द्वयोरैक्यदलं तयोः स्यात्
चेज्जीवशर्मायुरमी बलोनाः

p15.30

कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते ।
सदा नक्षत्रमार्गेण दशा बलवती स्मृता

p15.31

समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा
हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः ।
विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां
स्मृतं छागादीनां दशकसहिताः षट् च परमम्

p15.32

ये धर्मकर्मनिरता विजितेन्द्रिया ये
ये पथ्यभोजनजुषो द्विजदेवभक्ताः ।
लोके नरा दधति ये कुलशीललिलां
तेषामिदं कथितमायुरुदारधीभिः

मूल पाठ: phaladīpikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc